अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
निर्देशः ] [ पञ्चमं कोशस्थानम् ७७३
४. हीने अग्रदृष्टिर्दृष्टिपरामर्शः । किं हीनम् ? सर्वं सास्रवम् ; आर्यैः¹
प्रहीणत्वात् । तस्याग्रतो ग्रहणं दृष्टिपरामर्शः । 'दृष्ट्यादिपरामर्शः' इति वक्तव्ये
आदिशब्दलोपः कृतः ।
५. अहेतौ हेतुदृष्टिरमार्गे च² मार्गदृष्टिः शीलव्रतपरामर्शः । तद्यथा-महेश्वरो
न हेतुर्लोकानाम् , तं च हेतुं पश्यति प्रजापतिमन्यं वा । अग्निजलप्रवेशादयश्च
न हेतुः स्वर्गस्य, तांश्च हेतुं पश्यति । शीलव्रतमात्रकं सांख्ययोगज्ञानादयश्च
न मार्गो मोक्षस्य, तांश्च मार्गं पश्यति । अत्रापि किलादिशब्दलोपः कृत
इत्येतास्ताः पञ्च दृष्टयो वेदितव्याः । सत्यकारणे कारणदृष्टिः शीलव्रत-
परामर्शः ॥ ७ ॥
कस्मादयं न समुदयदर्शनप्रहातव्यः । यो हि कश्चिदीश्वरं प्रजापतिमन्यं
वा कारणं पश्यति स तन्नित्यमेकं चात्मानं कर्तारमभिनिविश्य । तद्यस्मात् सः—
ईश्वरादिषु नित्यैकात्मविपर्यासात् प्रवर्तते ।
कारणाभिनिवेशोऽतो दुःखदृग्धेय एव सः ॥ ८ ॥
दुःखदर्शनादेव हि तेषु तौ नित्यात्मग्राहौ प्रहीयेते । तस्मात् तत्कृतोऽपि
कारणाभिनिवेशस्तत एव प्रहीयते ।
अन्यास्तु समारोपिका इति । कथमुच्छेददृष्टिः समारोपिका ? बाहूलिक एष
निर्देशः । आर्यैः प्रहीणत्वादिति । त्यक्तत्वात् ; “ओहाक् त्यागे” (पा० धा० जु०)
इत्येतस्य धातोर्ग्रहणात् । आदिशब्दलोपः कृत इति । दृष्ट्यादीनामुपादान-
स्कन्धानां परतवेन प्रधानत्वेनामर्शो दृष्टिपरामर्श इति । परशब्दप्रयोगेण चाय-
मतिशयार्थो लभ्यत इत्याचार्यसङ्घभद्रः ।
अहेतौ हेतुदृष्टिरिति । दुःखदर्शनप्रहातव्य उच्यते । अमार्गे च मार्गदृष्टि-
रिति । मागेदर्शनप्रहातव्यः । शीलव्रतमात्रकमिति । शीलव्रतमपि बुद्धानां
मोक्षप्राप्तये भवति, न तु तन्मात्रकमित्यतस्तदन्येषां दृष्टिः । अत्रापि किल
आदिशब्द इति । शीलव्रतादिपरामर्शः शीलव्रतपरामर्शः । किं कारणम् ? शील-
व्रतं हि रूपस्कन्धसंगृहीतम् । अतोऽन्यस्कन्धग्रहणार्थमादिशब्द इति ॥ ७ ॥
कस्मादयं न समुदयदर्शनप्रहातव्य इति । हेतौ विप्रतिपन्नत्वादित्यभिप्रायः ।
तत्कृतोऽपि कारणाभिनिवेश इति । नित्यैकात्मकर्तृग्राहकृतोऽपीत्यर्थः । तत एव
१. आर्य:-जा० । २. का० पुस्तके नास्ति ।
अभि० को० ३ : २
७७४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
यस्तर्हि जलाग्निप्रवेशादिभिः स्वर्गोपपत्तिं पश्यति शीलव्रतेन वा शुद्धिम्,
सोऽपि दुःखदर्शनप्रहातव्य एव । एष हि शास्त्रपाठः—"ये चैवन्दृष्टय एवं-
वादिनो यदयं पुरुषपुद्गलो गोशीलं समादाय वर्तते मृगशीलं कुक्कुरशीलम्, स
तेन शुध्यति मुच्यते, सुखदुःखं व्यतिक्रामति, सुखदुःखव्यतिक्रमं चानुप्राप्नोति ।
अकारणं कारणतः प्रत्येति शीलव्रतपरामर्शो दुःखदर्शनप्रहातव्यः” ( )
इति विस्तरः ।
किं पुनः कारणमसौ दुःखदर्शनप्रहातव्यः ? दुःखे विप्रतिपन्नत्वादतिप्रसङ्गः ;
सर्वेषां सास्रवालम्बनानां दुःखे विप्रतिपन्नत्वात् ।
कीदृशो वाऽन्यः शीलव्रतपरामर्शो मार्गदर्शनप्रहातव्यः ? यो मार्गदर्शन-
प्रहातव्यालम्बनः । सोऽपि हि नाम दुःखे विप्रतिपन्नः । यस्य च मार्गालम्बना
प्रहीयत इति । दुःखदर्शनादेव प्रहीयते । यस्तर्हि जलाग्निप्रवेशादिभिः स्वर्गो-
पपत्तिं पश्यति, शीलव्रतेन वा शुद्धिमिति । नायं तत्कर्तृकः कारणाभिनिवेशः,
कथं दुःखदर्शनात् प्रहीयते ! तस्मात् समुदयदर्शनप्रहाव्य एवार्थ भविष्यती-
त्यभिप्रायः ।
वैभाषिक आह—सोऽपि दुःखदर्शनप्रहातव्य इति । विस्तरः—दुःखे विप्र-
तिपन्नत्वादिति वैभाषिकः । कथं च पुनर्दुःखे विप्रतिपन्नः ? तेन स्वर्गे गमना-
च्छुद्धिदर्शनाद्वा । अतिप्रसङ्ग इति विस्तरेणाचार्यः । सर्वेषां सास्रवालम्ब-
नानां महाष्टस्वभावानां च दुःखादिदर्शनप्रहातव्यानां दुःखे विप्रतिपन्नत्वात् ।
'सर्वे हि सास्रवं वस्तु दुःखम्' इति दुःखदर्शनप्रहातव्यप्रसङ्गः । तथा च
सति न कश्चित् समुदायादिदर्शनप्रहातव्यः स्यात् ।
इदं चापरं वक्तव्यम् – कीदृशो वान्यः शीलव्रतपरामर्शो मार्गदर्शनप्रहातव्यः
स वक्तव्यः । योऽपि हि 'गोशीलादिना शुद्धयति, यावत् सुखदुःखव्यतिक्रमं
चानुप्राप्नोति' इति पश्यति, तस्याप्ययमकारणं कारणतः प्रत्येतीति दुःखदर्शन-
प्रहातव्यः शीलव्रतपरामर्श इति पठ्यते ।
वैभाषिक आह—यो मार्गदर्शनप्रहातव्यालम्बन इति । यो मार्गदर्शन-
हेयानष्टौ मिथ्यादृष्ट्यादीनालम्बते, स मार्गदर्शनप्रहातव्यः शीलव्रतपरामर्श
इति । सोऽपि हि नाम दुःखे विप्रतिपन्न इत्याचार्यः । मिथ्यादृष्ट्यादयो हि
मार्गदर्शनप्रहातव्या अष्टावनुशयाः शीलव्रतपरामर्शस्यालम्बनम् । ते च सास्र-
वत्वाद् दुःखसत्यसंगृहीताः । तत्र च स विप्रतिपन्न इति दुःखदर्शनप्रहातव्य
निर्देश: ] पञ्चमं कोशस्थानम् ७७५.
मिथ्यादृष्टिर्विचिकित्सा वाऽस्ति, स नास्ति मोक्षमार्ग इति पश्यन् विचिकित्सन् वा
कथं तया शुद्धिं प्रत्येष्यति !
अथान्यं मोक्षमार्गं परामृश्य एष मोक्षमार्गो नास्तीत्याह, सोऽपि तेनैवान्येन
शुद्धिं प्रत्येति न तया मिथ्यादृष्ट्येति । तस्याप्यसौ मार्गदर्शनप्रहातव्यालम्बनो
न सिध्यति ।
यश्चापि समुदयनिरोधदर्शनप्रहातव्यालम्बनया मिथ्यादृष्ट्या शुद्धिं प्रत्येति
स कस्मान्न तद्दर्शनहेयः । तस्मात् परीक्ष्य एषोऽर्थः ॥ ८ ॥
एव स्यादित्यभिप्रायः । यस्य चेति । विस्तरः—यस्य च पुद्गलस्य नास्ति
मार्ग इति मार्गालम्बना मिथ्या दृष्टिरस्ति विचिकित्सा वा, स पुद्गलः 'नास्ति
मोक्षमार्गः' इति पश्यन् । विचिकित्सा वा । किमस्ति मार्गः, नास्तीति सन्दि-
हान् । कथं तया मिथ्यादृष्ट्या शुद्धिं प्रत्येष्यति प्रतिपत्स्यते, एतया वा
विचिकित्सयेति । मिथ्यादृष्टिविचिकित्सायोगाद् एव हि तस्य शुद्धिप्रति-
पत्तिर्नास्ति ।
अथान्यमिति । विस्तरः—अथान्यं साङ्ख्यादिपरिकल्पितं मोक्षमार्गं परा-
मृश्य गृहीत्वा । एष मोक्षमार्गो बौद्धीयो नास्तीत्याह—सोऽपीति । तीर्थिकः ।
तेनैवान्येन साङ्ख्यादिपरिकल्पितेन शुद्धिं प्रत्येति । न तया मिथ्यादृष्ट्येति
कृत्वा । तस्याप्यसौ शीलव्रतपरामर्शो मार्ग-दृग्-प्रहातव्यालम्बनो न सिद्ध्यति ।
किं तर्हि ? साङ्ख्यादिपरिकल्पितमार्गालम्बन एवेति ।
अयं चान्यो दोषः—यश्चापीति । विस्तरः—यश्चापि मिथ्यादृष्टिकः
समुदयनिरोधदर्शनप्रहातव्यया मिथ्यादृष्ट्या सिद्धिं प्रत्येति, स कस्मान्न
तद्दर्शनहेयः । स शीलव्रतपरामर्शः कस्मान्न समुदयनिरोधदर्शनहेय इत्यर्थः ।
तस्मात् परीक्ष्य एषोऽर्थ इति । यस्मादयं दुःखदर्शनेनप्रहातव्यः शीलव्रतपरामर्शो
न सम्भवति, मार्गदर्शनप्रहातव्यश्च, अतिप्रसङ्गादिदोषात् ; तस्मात् परीक्ष्य
एषोऽर्थः—शीलव्रतपरामर्शो दुःखदर्शनप्रहातव्यः मार्गदर्शनप्रहातव्यश्चेति ।
तदिदमाचार्येण संशयावहं कृतम् , न स्वमतं दर्शितम् ।
अन्य आहुः—योगाचारमतिमपेक्ष्यैवं कृतम् । योगाचारा हि अष्टाविंश-
त्युत्तरं क्लेशशतं वर्णयन्ति । तथैव हि दुःखदर्शनप्रहातव्या इमे दशानुशया
भवन्ति—सत्कायदृष्टिः, अन्तग्राहदृष्टिः, मिथ्यादृष्टिः, दृष्टिपरामर्शः,
शीलव्रतपरामर्शः, विचिकित्सा, रागः, प्रतिघः, मानः, अविद्या चेति;
तथैवेमे दश समुदयदर्शनप्रहातव्याः; तथैव च दश निरोधदर्शनप्रहातव्याः,
७७६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
यदुक्तम्—"नित्यात्मविपर्यासात्" इति । किमेतावेव द्वौ विपर्यासौ ?
दश मार्गदर्शनेनप्रहातव्या इति चत्वारिंशत् कामावचरा दर्शनहेया भवन्ति ।
भावनाहेयास्तु षट्—आकल्पिका सत्कार्यदृष्टिः, उच्छेददृष्टिः, सहजो रागः,
प्रतिघः, मानः, अविद्या चेति; षट्चत्वारिंशत् कामावचरा अनुशया भवन्ति ।
रूपावचरास्त्वेकचत्वारिंशत्, एत एव प्रतिघवर्ज्याः । यथा रूपावचरा एवमरू-
पावचरा इति ।
अत्र कश्चित् समाधिमाह—
यदुक्तम्—'अतिप्रसङ्गः, सर्वेषां सास्रवालम्बनानां दुःखे विप्रतिपन्नत्वात्'
इति, अत्र ब्रूमः—नातिप्रसङ्गः; दुःखादिमुखेन विप्रतिपत्तेः । यद्यपि सास्रवा-
लम्बना दुःखसत्यविप्रतिपन्नाः, तथापि तु केचिद् दुःखमुखेन विप्रतिपन्नाः,
केचित् समुदयमुखेन, केचिन्निरोधविप्रतिपन्नविप्रतिपन्नाः, केचिन्मार्गविप्रति-
पन्नविप्रतिपन्नाः । तत्र ये दुःखमुखेन दुःखे विप्रतिपन्नाः ते दुःखदर्शन-
प्रहातव्याः । शीलव्रतपरामर्शश्च दुःखमुखेन दुःखे विप्रतिपन्नः, नित्यात्म-
ग्रहणात्; तस्माद् दुःखदर्शनप्रहातव्यः । यस्तु मार्गदर्शनविप्रतिपन्नः, तद्यथा—
साङ्ख्यनिर्गन्थादयः स्वपरिकल्पितं मार्गं गृहीत्वा 'नास्ति बुद्धानां मोक्षमार्गः'
इति मिथ्यादृष्टिमुत्पादयन्ति, तां च मिथ्यादृष्टिं शीलव्रतपरामर्शोऽग्रतः पश्यति,
अयमेषां शीलव्रतपरामर्शो मार्गदर्शनप्रहातव्यः, मार्गविप्रतिपन्नविप्रतिपन्नत्वात् ।
नास्ति तु स शीलव्रतपरामर्शो यः समुदयमुखेन विप्रतिपद्यते । नापि यो
निरोधमुखेन विप्रतिपन्नविप्रतिपन्नः स्यात् । तस्माद् दुःखमार्गदर्शनप्रहातव्य
एवायं शीलव्रतपरामर्श इति ।
कथं पुनः समुदयनिरोधमुखेन विप्रतिपद्येत ?
अत्राचार्यः सङ्घभद्र आह—शीलव्रतपरामर्शः समुदयनिरोधदर्शनप्रहातव्यः,
तच्छरीरानुपपत्तेः । अकारणे हि कारणाभिनिवेशः, अमार्गे च मार्गाभिनिवेशः
शीलव्रतपरामर्शशरीरम् । समुदयापवादिकायां मिथ्यादृष्ट्यां शुद्धयभिनिवेशे
नन्वाकस्मिकाज्जन्मदर्शनमस्य स्यात्, क्वचिदपि कारणबुद्ध्यभावात् । दुःख-
समुदययोर्हि द्रव्यतोऽव्यतिरेकात् । ईश्वरादिस्कन्धा अपि तेनापोदिताः स्युः ।
निरोधापवादिकायां तु मिथ्यादृष्टौ शुद्धिप्रत्यागमनान्निरोधोपायकल्पनैव न
सम्भवति । कथम् ? 'नास्ति निरोधः' इति तद्दर्शनपृष्ठेन तदुपायकल्पना
व्यर्था भवेत् । एवं च शीलव्रतपरामर्शशरीरानुपपत्तिः । मार्गदर्शनप्रहातव्योऽपि
शीलव्रतपरामर्श एवं न सम्भवेत्, 'नास्ति मार्गः' इति दर्शनपृष्ठेन मार्गेपरि-
कल्पनानुपपत्तेः; यस्य हि मार्गालम्बना मिथ्यादृष्टिर्विचिकित्सा वास्ति, स
निर्देशः ] पञ्चमं कोशस्थानम् ७७७
चत्वारो विपर्यासाः—अनित्ये नित्यमिति, दुःखे सुखमिति, अशुचौ शुचीति,
अनात्मन्यात्मेति ।
अथैतद् विपर्यासचतुष्कं किंस्वभावम् ?
'नास्ति मोक्षमार्गः' इति पश्यन् विचिकित्सन् वा कथं तया शुद्धिं प्रत्येष्यतीति ?
उपपद्यत एवैष आर्यमार्गापवादिकायां मिथ्यादृष्ट्यां शुद्ध्यभिनिवेशः; न्यायत-
स्तद्ग्रहणात् । अन्यो हि तेन मोक्षमार्गो हृदि निवेशितो भवति, यतोऽस्य
सद्भूतमार्गापवादिकायां मिथ्यादृष्टौ न्यायबुद्धिरुत्पद्यते । एष न्यायो यद्
अन्यो मोक्षमार्गो नास्ति । यच्च 'स्यान्न वा' इति अन्यं मोक्षमार्गं विचिकित्स-
तीति न्यायतो हि शुद्ध्युपायग्रहणमुपद्यते । यश्चैवान्यो मोक्षमार्गस्तेन हृदि
निवेशितः, स नैव तस्य मार्गदर्शनहेयस्य शीलव्रतपरामर्शस्य विषयः; स्वनैका-
यिकमात्रालम्बनत्वात् ।
अथ मतम्—निरोधदर्शनहेयोऽपि प्रयुज्यते, तत्कल्पनासामर्थ्यात् । अन्यद्धि
तेन मोक्षस्थानं हृदि निवेशितं भवति; यतोऽस्य सद्भूतमोक्षापवादिकायां
मिथ्यादृष्टौ न्यायतो ग्रहणम् । अथ समानमेतदिति ? तन्न; नित्यशान्तग्रहण-
सामान्येन तदपवादे शुद्ध्यभिनिवेशानुपपत्तेः । द्रव्याद्रव्यसम्प्रतिपत्तिभेदे हि
कश्चिन्मोक्षोपायमन्वेषते, 'ध्रुवं तस्यास्ति मोक्षः' इति निश्चयः । यस्य चास्ति
मोक्षनिश्चयो ध्रुवम, तस्य तत्र नित्यशान्तग्रहणम् । अन्यथा तत्र प्रार्थनानुपपत्तेः ।
तत्र यथेहधार्मिकाणां निर्वाणे द्रव्याद्रव्यसम्प्रतिपत्तिभेदेऽपि नित्यशान्त-
ग्रहणसामान्यात् तदपवादे दोषो दर्शनमेव । येनापि किञ्चन मोक्षस्थानं हृदि
निवेशितं स्यात्, तस्यापि नित्यशान्तग्रहणसामान्येन मोक्षापवादे न्याय-
ग्रहणमुपपद्यते । भिन्ना हि शीलव्रतादयः स्वभावतश्चाकारतश्च आर्यमार्गात् ।
नास्ति तु नित्यशान्तग्रहणभेद इति नास्ति कल्पनासामान्यम् । अतो मार्ग-
दर्शनप्रहातव्य एव शीलव्रतपरामर्शः, न निरोधदर्शनप्रहातव्य इति ।
इह शीलव्रतपरामर्शो द्विःप्रकार इष्यत आभिधार्मिकैः, तत्र कीदृशः शीलव्रत-
परामर्शो दुःखदर्शनप्रहातव्यो व्यवस्थाप्यते, कीदृशो मार्गदर्शनप्रहातव्यः ?
योऽपि हि गोशीलादिना शुद्धिं प्रत्येति, सोऽप्यमार्गे मार्गं पश्यति । यः शील-
व्रतादिदुःखालम्बनः शीलव्रतपरामर्शः, स दुःखदर्शनप्रहातव्यः । यो मार्गविप्रति-
पत्त्यालम्बनः, स मार्गदर्शनप्रहातव्यः । यः शीलव्रताद्यालम्बनः, स न मार्ग-
विप्रतिपत्तिः । तथा न बाधते यथा मार्गविप्रतिपत्त्यालम्बनः; यस्माच्छीलव्रता-
द्यालम्बन औदारिकः, न दूरगतः, न दृढाशयः, अल्पयत्नघात्यः । तद्विपर्ययात्
मार्गविप्रतिपत्त्यालम्बन इति ॥ ८ ॥
दृष्टित्रयाद् विपर्यासचतुष्कम्,
अन्तग्राहदृष्टेः शाश्वतदृष्टिरनित्यविपर्यासः । दृष्टिपरामर्शात् सुखशुचिविप-
र्यासौ । सत्कायदृष्टेरात्मविपर्यासः ।
सकलेत्यपरे ।
कथमात्मीयदृष्टिर्विपर्यासः । कथं च न भवितव्यम्¹ ? विपर्याससूत्राद् ।
आत्मानमेव तत्र वासिनं² पश्यन्नात्मीयं पश्यतीत्यात्मदृष्टिरेवासौ द्विमुखी अथाह-
मित्येतस्मात् ममेति दृष्ट्यन्तरं स्यात् । मया मह्यमित्येतदपि स्यात् ।
कस्मादन्ये क्लेशा न विपर्यासाः ? यस्मात् त्रिभिः कारणैर्विपर्यासानां
व्यवस्थानम् ।
कतमैस्त्रिभिः ?
विपरीततः ।
नितीरणात् समारोपात्,
“दृष्टित्रयाद्विपर्यासचतुष्कम्” इति । दृष्टित्रयस्वभावा विपर्यासा इति
दर्शयति । सत्कायदृष्टेरात्मविपर्यास इति । नात्मीयदृष्टिरित्यभिप्रायः ।
सकलेत्यपर इति । सकला सत्कायदृष्टिरात्मदृष्टिरात्मीयदृष्टिश्च आत्म-
विपर्यास इत्यर्थः ।
वैभाषिक आह- कथमात्मीयदृष्टिर्विपर्यास इति । न ह्यात्मीयविपर्यास
इत्युच्यते । कथं च न भवितव्यमिति परः । विपर्याससूत्रादिति वैभाषिकः ।
“अनात्मनि आत्मेति विपर्यासः” इति सूत्रवचनात् । न पुनरात्मीय इति ।
अस्त्येवं सूत्रनिर्देशः, न पुनरसावात्मदृष्टेरर्थान्तरभूता । कथं कृत्वा ? आत्मान-
मेव तत्र पञ्चोपादानस्कन्धेषु वासिनं पश्यन् आत्मीयं पश्यतीति । न केवल-
मात्मानं पश्यति, आत्मीयमपि पश्यतीत्यर्थः । आत्मदृष्टिरेवासौ द्विमुखेति ।
आत्मात्मीयमुखी एका द्रव्यतोऽस्तीति अहङ्कार-ममकारमुखद्वयवतीत्यर्थः ।
अथाहमिति । एतस्मात् प्रथमानिर्देशान्ममेति षष्ठीनिर्दिष्टं स्यात् । मया,
मह्यमित्येतदपि स्यात् । दृष्ट्यन्तरमिति प्रकृतम् । मयेति तृतीयानिर्देशात्,
मह्यमिति च चतुर्थीनिर्देशात् । अनिष्टं चैतत् । तस्मात् सकलेति सिद्धम् ।
कस्मादन्ये क्लेशा न विपर्यासा इति । सत्कायदृष्ट्यन्तग्राहदृष्टिपरामर्शे-
१. विपर्यासः-का० । २. वशिनं-का० ; वाशिनं-जा० ।
निर्देशः ] पञ्चमं कोशस्थानम् ७७६
एकान्तविपर्यस्तत्वादालम्बने नितीरकत्वात्, समारोपणाच्च । उच्छेददृष्टि-
र्मिथ्यादृष्टिश्च न समारोपिके; अभावमुखप्रवृत्तत्वात् । शीलव्रतपरामर्शो नैकान्त-
विपर्यस्तः, तन्मात्रशुद्ध्यालम्बनत्वात् । अन्ये क्लेशा न सन्तीरकाः, अतो न
विपर्यासाः ।
यत्तर्हि सूत्रे उक्तम्—“अनित्ये नित्यमिति संज्ञाविपर्यासः चित्तविपर्यासो
६दृष्टिविपर्यासः” ( ) इति ? दृष्टिरेवात्र विपर्यासः ।
संज्ञाचित्ते तु तद्वशात् ॥ ९ ॥
दृष्टिविपर्यासवशादेव तत्सम्प्रयुक्ते संज्ञाचित्ते विपर्यासावुक्तौ ।
वेदनादयोऽपि कस्मान्नोक्ताः ? लोकप्रसिद्ध्या । लोके हि विपर्यस्तसंज्ञो
विपर्यस्तचित्त इति प्रसिद्धम्, न पुनर्विपर्यस्तवेदन इति ।
त एते विपर्यासाः सर्वेऽपि स्रोतआपन्नस्य प्रहीणा भवन्ति; दर्शनप्रहेय-
त्वाद् दृष्टीनां ससम्प्रयोगानाम् । द्वादश विपर्यासाः—अनित्ये नित्यमिति
संज्ञादृष्टिचित्तविपर्यासास्त्रयः, एवं यावदनात्मन्यात्मेति । तत्राष्टौ दर्शनप्रहातव्याः,
भ्योऽन्ये उच्छेद-मिथ्यादृष्टिशीलव्रतपरामर्शरागादयः । त्रिभिः कारणैरिति ।
विपरीत-नितीरणा-समारोपैः । विपर्यासानां व्यवस्थापनम् । यत्रैतानि समस्तानि
कारणानि सन्ति, ते विपर्यासाः स्थापिताः; यत्र तु न समस्तानि ते न
विपर्यासाः—इत्युक्तं भवति ।
तन्मात्रशुद्ध्यालम्बनादिति । यस्माच्छीलव्रतमात्रेण शुद्धिरित्यालम्बते
नितीरयति, तस्मान्नैकान्तविपर्यस्तः शीलव्रतपरामर्शः । न हि शीलव्रतं शुद्धिकारणं
न भवति, केवलं तु न भवतीति । कथमस्य समारोपकत्वम् ? तन्मात्रेण
शुद्धिकारणभावसमारोपात् । यद्यसन्तीरको न विपर्यासः, यत्तर्हि सूत्र उक्तं तत्
कथम् ? न हि संज्ञा सन्तीरिका, नापि चित्तम् ।
द्वादश विपर्यासा इति । चतुर्षु विपर्यासेषु प्रत्येकं संज्ञा-चित्त-दृष्टिविपर्यासा
इति । कथम् ? इत्युच्यते-अनित्ये नित्यमिति विस्तरः । एवं यावदनात्मन्यात्मेति ।
दुःखे सुखमिति संज्ञा-दृष्टि-चित्तविपर्यासास्त्रयः । अशुचौ शुचीत्येत एव
त्रयः । यावदनात्मन्यात्मेति एत एव त्रय इति । तत्राष्टौ दर्शनप्रहातव्या इति ।
अनित्ये नित्यमिति संज्ञा-चित्त-दृष्टिविपर्यासास्त्रयः । अनात्मन्यात्मेति
पुनस्त्रयः । दुःखे सुखमिति दृष्टिविपर्यासः । अशुचौ शुचीति दृष्टिविपर्यास
चत्वारो भावनाप्रहातव्याः। दुःखे च संज्ञाचित्तविपर्यासावशुचौ चेति
निकायान्तरीयाः। इतरथा हि कथमन्तरेण सुखशुचिसंज्ञामवीतरागस्यार्यस्य
कामरागः सम्भवेदिति।
तदेतन्नेच्छन्ति वैभाषिकाः। यदि हि सुखशुचिसंज्ञाचित्तसमुदा-
चारादार्यस्य तद्विपर्यासावीक्ष्यते, सत्त्वसंज्ञाचित्तसमुदाचारात् तद्विपर्यासावपि किं
नेष्येते ! न हि स्त्रियामात्मनि च विना सत्त्वसंज्ञया कामरागो युक्त इति।
सूत्रेऽपि चोक्तम्—"यतश्च श्रुतवानार्यश्रावक इदं दुःखमार्यसत्यमिति
यथाभूतं प्रजानाति। यावत् तस्य तस्मिन् समये योऽनित्ये नित्यमिति संज्ञा-
विपर्यासः चित्तविपर्यासो दृष्टिविपर्यासः स प्रहीयते" इति ( ) विस्तरः।
तस्माद् दृष्टिसमुत्थे एव संज्ञाचित्ते विपर्यासौ, नान्ये; तत्कालभ्रान्तिमात्रत्वाद-
लातचक्र-चित्रयक्षभ्रान्तिवत्।
इति। चत्वारो भावनाप्रहातव्याः। कथम्? इत्याह—दुःखे च संज्ञाचित्तविपर्या-
सावशुचौ चेति। दुःखे सुखमिति संज्ञाचित्तविपर्यासौ द्वौ। अशुचौ शुचीति
संज्ञाचित्तविपर्यासावपरौ द्वाविति चत्वारः। अवीतरागस्यार्यस्येति। स्रोत-
आपन्नस्य सकृदागामिनश्च।
तद्विपर्यासाविति। सत्त्वसंज्ञासमुदाचारात्, सत्त्वचित्तसमुदाचाराच्च।
तद्विपर्यासावपि किं नेष्येते इति। सत्त्वालम्बनसंज्ञाचित्तविपर्यासावपि किं
नेष्येते। आत्मविपर्यासावपि किं नेष्येते इत्यभिप्रायः। किं कारणम्? इत्याह--
नहि स्त्रियामात्मनि च विना सत्त्वसंज्ञया कामरागो युक्त इति। तस्मादेतावप्य-
नात्मनि आत्मेति संज्ञाचित्तविपर्यासौ भावनाप्रहातव्याविति प्राप्तम्। विस्तर
इति वचनादेवं नेयम्—दुःखे सुखमिति अशुचौ शुचीति यावदनात्मन्यात्मेति
संज्ञाविपर्यासः, चित्तविपर्यासः, दृष्टिविपर्यासः प्रहीयत इति। तस्माद् दृष्टि-
समुत्थे एव दृष्टिसम्प्रयुक्तक एव संज्ञाचित्ते विपर्यासौ, नान्ये। नादृष्टिसम्प्रयुक्तके
इत्यर्थः। एतदुक्तं भवति—अस्त्यसौ संज्ञाचित्तविभ्रमः, न तु विपर्यासः;
यस्मादसौ दृष्टिसमुत्थो न भवति। कस्माद्? इत्याह—तत्कालभ्रान्तिमात्रत्वा-
दिति। स्त्रीदर्शनकाले भ्रान्तिमात्रत्वादित्यभिप्रायः। यस्मात् तत्कालमेव
दर्शनकालमेवार्याणां भ्रान्तिः। तथा मिथ्याज्ञानं भवति। अलातचक्र-चित्रयक्ष-
भ्रान्तिवत्। यथा अलात आशु भ्रम्यमाणे तत्कालमात्रं चक्रमिति भ्रान्तिरुत्पद्यते,
न पश्चात्। चित्रलिखितं च यक्षं दृष्ट्वा तत्कालं भ्रान्तिरुत्पद्यते—यक्ष इति।
निर्देशः ] पञ्चमं कोशस्थानम् ७८१
यत्तर्हि स्थविरानन्देनार्यवागीशमधिकृत्योक्तम्—
“विपर्यासेन¹ संज्ञानां चित्तं ते परिदह्यते ।
निमित्तं वर्जयतां तस्माच्छुभं रागोपसंहितम्” ॥
तस्मात् सर्व एवाष्टौ संज्ञाचित्तविपर्यासाः शैक्षस्याप्रहीणा इत्यपरे । तेऽपि
चार्यसत्यानां यथाभूतज्ञानात्² प्रहीयन्ते । न विना तेनेत्युपायसमाख्यानान्नास्ति
सूत्रविरोधः ॥ ९ ॥
तद्वत् । आर्यस्यात्र परिज्ञानान्मुहूर्तं सुखशुचिभ्रान्तिः, सत्त्वभ्रान्तिर्वा, न
त्वसौ विपर्यासः । उक्तं हि भगवता—“धन्धाः खलु भिक्षव श्रुतवत आर्य-
श्रावकस्य स्मृतिसम्प्रमोषा उत्पद्यन्ते, अथ च पुनः क्षिप्रमेवास्तं परिक्षयं पर्यादानं
गच्छन्ति” ( ) इति ।
यद्यसौ संज्ञाचित्तभ्रमो न विपर्यासः, यत्तर्हि स्थविरान
७८२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
अथ किं दृष्ट्यनुशयस्य एव भेदः, नान्यस्य ? मानस्याप्यस्ति । कथम् ?
इत्याह—
सप्त मानाः,
मानः, अतिमानः, मानातिमानः, अस्मिमानः, अभिमानः, ऊनमानः,
मिथ्यामानश्च ।
अभेदेन चित्तस्योन्नतिर्मान उक्तः । स प्रवृत्तिभेदात् सप्तधा भवति—१.
हीनाद् विशिष्टः समेन वा समोऽस्मीति मन्यमानस्योन्नतिर्मानः । २. समाद्वि-
शिष्टोऽस्मीत्यतिमानः¹ । ३. विशिष्टाद्विशिष्टोऽस्मीति मानातिमानः । ४.
पञ्चोपादानस्कन्धानात्मत आत्मीयतो वा मन्यमानस्यास्मिमानः । ५. अप्राप्ते
विशेषाधिगमे प्राप्तो मयेत्यभिमानः । . ६. बह्वन्तरविशिष्टादल्पान्तरहीनोऽ-
स्मीत्यूनमानः । ७. अगुणवतो गुणवानस्मीति मिथ्यामानः ।
यत्तर्हि शास्त्रे नव मानविधा उक्ताः—‘‘श्रेयानस्मीति मानविधा,
सदृशोऽस्मीति मानविधा, हीनोऽस्मीति मानविधा, अस्ति मे श्रेयान्, अस्ति मे
सदृशः, अस्ति मे हीनः, नास्ति मे श्रेयान्, नास्ति मे सदृशः, नास्ति मे हीनः’’
इति ? एभ्य एव मानेभ्य एताः
नवविधास्त्रिभ्यः,
कतमेभ्यस्त्रिभ्यः ? मानातिमानोनमानेभ्यः । तत्र प्रथमं त्रयम्—दृष्टिसंनि-
प्रवृत्तिभेदादिति । आकारभेदादित्यर्थः । अप्राप्ते विशेषाधिगमे इति ।
समाधिसन्निश्रिताः सास्रवाश्च धर्मा विशेषास्तस्याधिगमः प्राप्तो मयेत्यभिमानः ।
अगुणवतो गुणवानहमिति । अगुणान्वित गुणवानहमस्मीति विपरीतविषयो
मानो मिथ्यामानः । मिथ्यामानाभिमानयोः कः प्रतिविशेषः ? प्रतिलाभ-
विशेषाधिगम-प्रतिरूपकगुणस्याभिप्राय इति सवस्तुकोऽभिमानः । मिथ्या-
मानस्तु निर्गुणस्य सतो गुणवानहमस्मीति निर्हेतुकः । मानविधा इति । मान-
प्रकारः । सदृशो हीनोऽस्तीति मानविधा । सदृशोऽस्मीति मानविधा, हीनोऽ-
स्मीति मानविधेति वक्तव्यम् ।
दृष्टिसंनिश्रितास्त्रय इति । पृथग्जनमधिकृत्य ‘दृष्टिसंनिश्रिताः’ इत्यु-
च्यन्ते । आत्मदृष्टिः ‘पूर्वमहम्’ इति । पश्चाद् = अनन्तरम् इमे मानाः ।
१. ०त्यभिमानः—का० ।
श्रितास्त्रयो मानाः अतिमानमानोन्मानाः। द्वितीयं त्रयम्—ऊनमानमानातिमानाः।
तृतीयम्—मानातिमानोन्मानाः।
युक्तस्तावद् बह्वन्तरविशिष्टादल्पान्तरहीनोऽस्मीत्यूनमानः; उन्नतिस्थानत्वात्।
'नास्ति मे हीनः' इत्यत्र किमुन्नतिस्थानम् ? अस्ति सदृशो योऽभिप्रेते वरे
सत्त्वराशौ निहीनमप्यात्मानं बहु मन्यते।
अपि चास्त्येव ज्ञानप्रस्थानविहितो विधिः। प्राकरणं तु निर्देशं परिगृह्य
श्रेयानस्मीत्येकेषु मानोऽपि स्याद्, अतिमानोऽपि मानातिमानोऽपि, हीनसमविशि-
ष्टापेक्षया।
अथैते सप्त मानाः किम्प्रहातव्याः ? इत्याह—
दृग्भावनाक्षयाः।
दृग्भावनाभ्यामेषां क्षयः। एतदुक्तं भवति—सर्वे दर्शनभावनाप्रहातव्या
इति यद् भावनाहेयमप्रहीणं किमवश्यं तदार्याणां समुदाचरति ? नावश्यम्, तद्यथा
अतिमान-मानोन्मानाः यथाक्रममेते भवन्ति। कथम्? श्रेयानहमस्मीति
मानविधा दृष्टिसन्निश्रितोऽतिमानः। सदृशोऽस्मीति मानविधा दृष्टिसन्निश्रितो
मानः। हीनोस्मीति मानविधा दृष्टिसन्निश्रित उन्मानः। द्वितीयं त्रयमेतत्
प्रातिलोम्येन यथाक्रमं नेयम्। 'अस्ति मे श्रेयान्' 'अस्ति मे सदृशः', 'अस्ति
मे हीनः' इति दृष्टिसन्निश्रिता उन्मान-मानातिमानाः। तृतीयम् 'नास्ति मे
श्रेयान्', 'नास्ति मे सदृशः', 'नास्ति मे हीनः' इति
वधादिपर्यवस्थानं हेयं भावनया,
येन क्लेशपर्यवस्थानेन सञ्चिन्त्य प्राणिवधं कुर्याद् यावन्मृषावादम्, तद्
भावनाहेयम्; भावनाहेयधर्मालम्बनत्वात् ।
तथा ॥ १० ॥
विभवेच्छा;
विभवतृष्णाऽपि भावनाहेया । विभवो नाम क एष धर्मः ? त्रैधातुकी
अनित्यता । तत्र प्रार्थना विभवतृष्णा । तथाशब्देन भवतृष्णायाः प्रदेशो
गृह्यते । “अहो बताहमैरावणो नागराजः स्याम्” इत्येवमादि ।
मानविधा अपि भावनाप्रहातव्याः सन्तीत्युक्तमस्मिन्मानश्च ।
न चार्यस्य सम्भवन्ति विधादयः ।
नास्मिता,
“वधादिपर्यवस्थानम्” इति । आदिशब्देनादत्तादान-काम-मिथ्याचार-मृषा-
वादग्रहणम् । तद् भावनाहेयम्, भावनाहेयधर्मालम्बनत्वादिति । भावनाहेया
वधादिकसत्त्वाद्य एव धर्मा अस्यालम्बनमिति कृत्वा । सत्यदृष्ट्यादयोऽपि हि
यद्यपि भावनाहेयान् धर्मानालम्बन्ते, न तु केवलं भावनाहेया इत्यतो न ते
भावनाहेयाः । तत्र प्रार्थनेति । तत्र त्रैधातुकीयामनित्यतायां प्रार्थना । कि
तत्रापि प्रार्थना भवति ? भवतीत्याह । यथोक्तं सूत्रे – “यावदयमात्मा जीवति,
तिष्ठति, ध्रियते, यापयति ; तावत् सरोगः, सगन्धः, सशल्यः, सज्वरः, सपरि-
दाहकः । यतश्चायमात्मा उच्छिद्यते विनश्यति न भवति । इयताऽयमात्मा
सम्यक् समुच्छिन्नो भवति” ( ) इति । भवतृष्णायाः प्रदेशो गृह्यत
इति । अहो बताहमैरावणो नागराजः स्यामित्येवमादिका भवतृष्णा न समुदा-
चरति । आदिशब्देन 'कुबेरः स्याम्', 'स्त्री स्याम्' इत्येवमादिका गृह्यते ।
प्रदेशग्रहणात् 'इन्द्रः स्याम्' इत्येवमादिका समुदाचरतीति दर्शितं भवति ॥ १० ॥
मानविधा अपि भावनाप्रहातव्याः सन्तीत्युक्तमिति । 'दृग्भावनाक्षयाः'
(अभि० को० ५.१०) इति वचनात् ।
“न चार्यस्य सम्भवन्ति विधादयो नास्मिता” इति । पूर्वं भावनाहेयपरिग्रहणं
कृतम्, “दृग्भावनाक्षयाः वधादिपर्यवस्थानं हेयं भावनया तथा विभवेच्छा”
(अभि० ५.१०) इत्यनेन ग्रन्थेन । सम्प्रति तेषां विधादीनामार्यस्यासमुदाचार
उच्यते—न चार्यस्य सम्भवन्ति विधादयो नास्मितेति ।
निर्देशः ] पञ्चमं कोशस्थानम् ७८५
आदिग्रहणेन यावद् भवतृष्णाया¹ ग्रहणम्।
किं कारणमप्रहीणा अप्येते न सम्भवन्ति² ?
दृष्टिपृष्टत्वात्
सत्कायदृष्टिपृष्टा हि मानविधा अस्मिमानश्च, अतो भग्नपृष्ठत्वान् नोत्थातुं
पुनरुत्सहन्ते। वधादिपर्यवस्थानं मिथ्यादृष्टिपृष्टत्वात्। विभवतृष्णा उच्छेद-
दृष्टिपृष्टत्वात्। भवतृष्णायाः प्रदेशः शाश्वतदृष्टिपृष्टत्वात्।
कौकृत्यं नापि चाशुभम् ॥ ११ ॥
अकुशलं चापि कौकृत्यं भावनाप्रहातव्यम्। न चार्यस्य तत् सम्भवति
विचिकित्सासमुत्थितत्वात् ॥ १०-११ ॥
अथैषामष्टानवतेरनुशयानां कति सर्वत्रगाः ? कत्यसर्वत्रगाः ?
सर्वत्रगा दुःखहेतुदृग्घेया दृष्टयस्तथा।
विमतिः सह ताभिश्च याऽविद्याऽऽवेणिकी च या ॥ १२ ॥
दुःखसमुदयदर्शनप्रहातव्या दृष्टयो विचिकित्सा च, ताभिश्च सम्प्रयुक्ता
अविद्या आवेणिकी च दुःखसमुदयप्रहातव्ये चाविद्या। इतीमे एकादशानुशयाः
सभागधातुसर्वत्रगाः—सप्त दृष्टयः, द्वे विचिकित्से, द्वे अविद्ये; सकलस्वधात्वा-
लम्बनत्वात्।
आदिग्रहणेन यावद् भवतृष्णाया ग्रहणमिति। वधादिपर्यवस्थानस्य
विभवतृष्णायाः प्रदेशस्य भवतृष्णायाश्च ग्रहणमित्यर्थः। न सम्भवन्ति न समुदा-
चरन्ति। दृष्टिपृष्टत्वादिति। तत्पूर्वकत्वेन तदुपबृंहितत्वात् वधादिपर्यवस्थानं
मिथ्यादृष्टिपृष्टम्; तदभ्यासेन कर्मफलापवादित्वात्। भग्नपृष्ठत्वात्। तत्पोषका-
भावेन भग्नपृष्ठत्वादित्यर्थः।
कौकृत्यं भावनाप्रहातव्यम्, भावनाहेयधर्मालम्बनत्वात् ॥ ११ ॥
“सर्वत्रगाः” इति। सर्वत्र गच्छतीति सर्वत्रगः, पञ्चापि निकायान् आलम्बत
इत्यर्थः। पञ्चानामपि निकायानां हेतुभावेनावतिष्ठन्त इत्यपरे। वक्ष्यति हि—
“एषां प्रभावेणान्यनैकायिका अपि क्लेशा उपजायन्ते” इति। एकादशानुशया
इति विस्तरः। सप्त दृष्टयो दुःखदर्शनप्रहातव्याः सत्कायदृष्ट्यादयः पञ्च,
समुदयदर्शनप्रहातव्ये द्वे दृष्टीमिथ्यादृष्टि-परामर्शदृष्टीति—सप्त। द्वे विचिकित्से
१. विभवतृष्णायाः—का०। २. समुदाचरन्ति—का०।
किमेभिर्युगपदालम्बते, आहोस्वित् क्रमेण ? यदि क्रमेण, अन्येषामपि
प्रसङ्गः ? अथ युगपत्, कः सकलेन कामधातुना शुद्धिं प्रत्येत्यकारणं वा
कारणतः ? नोच्यते^१ सकलं^१ स्वधातुं युगपदालम्बन्त इति, अपि तु पञ्चप्रकारमपि
सर्वं युगपत् ।
एवमपि यत्रात्मदृष्टिस्तत्रात्मतृष्णा, यत्राग्रशुद्धिदृष्टी तत्र प्रार्थना^२, तेन च
मान इति तृष्णामानयोरपि सर्वत्रगत्वं प्राप्नोति, एवं सति दर्शनभावनाहेयालम्ब-
नत्वादेतदुभयं किम्प्रहातव्यं स्यात् ? भावनाप्रहातव्यम् ; व्यामिश्रालम्बनत्वात् ।
दुःख-समुदयदर्शनप्रहातव्ये । द्वे अविद्ये दुःख-समुदयदर्शनप्रहातव्ये एव ।
एकदेशतो न साकल्यतः । ये ह्यविद्ये एतत्सर्वत्रगसम्प्रयुक्ते, आवेणिक्यौ च ते
सर्वत्रगे भवतः, न रागादिसम्प्रयुक्ते । इत्येवमेकादशानुशयाः सर्वत्रगाः ।
नवानुशयाः साकल्यतः, द्वावेकदेशत इति कृत्वा । धातुभेदेन तु त्रयस्त्रिंशत् ।
आवेणिकीति कोऽर्थः ? एवमाहुः- सम्पर्को वेणीत्युच्यते, न वेणिरवेणिः
पृथग्भाव इत्यर्थः । एवं ह्युक्तम् 'अवेणिर्भगवान्, अवेणिर्भिक्षुसङ्घः' इति ।
पृथग् भगवान्, पृथग् भिक्षुसङ्घ इत्यभिप्रायः । अवेण्या चरतीत्यावेणिकी ।
नान्यानुशयसहचारिणीत्यर्थः । सकलस्वधात्वालम्बनत्वादिति । यस्मादेते सकलं
स्वधातुमालम्बन्ते, तस्मात् सर्वत्रगा इत्युच्यन्ते ।
कः सकलेनेति विस्तरः । कः सकलेन कामधातुना शुद्धि प्रत्येति । अकारणं
वा कारणतः सकलं कामधातुं प्रत्येतीत्यधिकृतम् । तस्माच्छीलव्रतपरामर्शो न
सर्वत्रग इत्यभिप्रायः । नोच्यते सकलं निरवशेषमनेकं भेदभिन्नं स्वधातुं युगपद्
आलम्बन्त, अपि तु पञ्चप्रकारमपि सर्वं युगपदालम्बन्ते । दुःखदर्शनप्रहातव्यं
यावद् भावनाप्रहातव्यमिति । प्रकारसर्वतायां सर्वशब्दोऽयं द्रष्टव्यः - इत्येष
वैभाषिकाणां परिहारः ।
यत्रात्मदृष्टिरिति । पञ्चसूपादानस्कन्धेषु । तत्रात्मतृष्णा तेषामात्माभिनिवेश-
वस्तुत्वात् । यत्राग्रशुद्धदृष्टी । यत्र वस्तुनि पञ्चोपादानस्कन्धलक्षणेऽग्रदृष्टिर्दृष्टि-
परामर्शः, शुद्धिदृष्टिश्च शीलव्रतपरामर्शः । तत्र प्रार्थना तृष्णालक्षणा । तत्र
तत्प्रार्थनेति केचित् पठन्ति । तत्र = वस्तुनि तस्य = पुद्गलस्य प्रार्थना = तत्प्रार्थ-
नेत्यर्थः । तेन च मान इति । तेन च वस्तुना मानः । तद्वारेणोन्नतिरित्यर्थः ।
एवं सतीति । एवं तृष्णामानयोः सर्वत्रगत्वे सति । सत्कायदृष्ट्यादिवद् दर्शन-
भावनाहेयालम्बनत्वादेतदुभयं तृष्णामानलक्षणं किम्प्रहातव्यं केन प्रहातव्यम्-
१-१. सकलं नोच्यते सकलं-का० । २. तत्प्रार्थना-का० ।
निर्देशः ] पञ्चमं कोशस्थानम् ७८७
अथवा पुनरस्तु दर्शनप्रहातव्यम् ; दृष्टिबलाधानवर्तित्वात् ।
स्वलक्षणक्लेशावेतौ न सामान्यक्लेशौ । तस्मान्न सर्वत्रगाविति
वैभाषिकाः ॥१२॥
य एते सभागधातुसर्वत्रगा एकादशानुशया उक्ताः,
नवोर्ध्वालम्बना एषां दृष्टिद्वयविवर्जिताः ।
सत्कार्यदृष्टिमन्तग्राहदृष्टिं च वर्जयित्वाऽन्ये नवानुशया विसभागधातुसर्व-
त्रगाः । कदाचित्¹ विसभागमेकं धातुमालम्बन्ते², कदाचिद् द्वौ ; “येऽनुशयाः
कामप्रतिसंयुक्ता रूपप्रतिसंयुक्तालम्बनाः, कामप्रतिसंयुक्ता आरूप्यप्रतिसंयुक्ता-
लम्बनाः, कामप्रतिसंयुक्ता रूपारूप्यप्रतिसंयुक्तालम्बनाः” ( ) इति वचनात् ।
यदा कामधातौ स्थितो ब्रह्मणि सत्त्वदृष्टिं नित्यदृष्टिं चोत्पादयति, तदा कथं
किं दर्शनप्रहातव्यम् ? उताहो भावनायेति ? ये यद्दर्शनहेयालम्बनास्ते तद्दर्शनहेया
इति नियमं मनसिकृत्वा पृच्छति । अन्यथा हि सत्कार्यदृष्ट्यादिवदेवैतदुभयं
दर्शनप्रहातव्यमेव स्यादिति किमत्र प्रष्टव्यं स्यात् । नहि सत्कार्यदृष्ट्यादयो
न दर्शनभावनाहेयालम्बनाः, न च ते नदर्शनहेया भवन्तीति । अत्राचार्यः समाधि-
माह--भावनाप्रहातव्यम्, व्यामिश्रालम्बनत्वादिति । यदि तृष्णामानौ दर्शन-
प्रहातव्यालम्बनावेव, स्यातां दर्शनप्रहातव्यौ; न त्वेवम्, अतो व्यामिश्रालम्ब-
नत्वाद् भावनाप्रहातव्यौ ; अवशिष्टा भावनाहेयाः' इति लक्षणनियमात् ।
अथ वेति । स एवाचार्यः परावृत्य पुनर्न्रवीति । पुनरस्तु दर्शनप्रहातव्या-
विति । किम् ? एतदुभयमिति वर्तते । कस्माद् ? इत्याह—दृष्टिबलाधानवर्तित-
त्वादिति । दृष्टेर्बलाधानम् = सामर्थ्यम्, दृष्टिबलाधानेन वर्तितुं शीलमस्येति
दृष्टिबलाधानवर्ति तदुभयं दर्शनप्रहातव्यमस्त्विति ।
वैभाषिका इदानीं स्वपक्षं स्थापयन्ति—स्वलक्षणक्लेशावेतौ, न सामान्य-
क्लेशौ भवतः, तस्मान्न सर्वत्रगाविति । यत्रात्मदृष्टिस्तत्र तृष्णामानौ, न
तु युगपत् सर्वस्मिन् ; स्वलक्षणक्लेशत्वात् । एकदेशालम्बनौ हि तौ, तस्मान्न
सर्वत्रगौ । न चेत् सर्वत्रगौ, तेन यौ यद्दर्शनहेयालम्बनौ तौ तद्दर्शनहेयौ ।
परिशिष्टौ भावनाहेयौ—इति सिद्धम् ॥ १२ ॥
कदाचिद् विसभागमेकं धातुमालम्बन्ते, कदाचिद् द्वे इति । कदाचित् त्रीन्
१. कदाचित्तु-का० । २. ०मालम्बते-जा० ।
७८८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
सत्कायान्तग्राहदृष्टी विसभा गधात्वालम्बने न भवतः ? आत्मात्मीयत्वेनाग्रहणात् ।
अन्तग्राहदृष्टिश्च ? तत्समुत्थितत्वात् ।
का तर्हीयं दृष्टिः ? नेयं दृष्टिः, मिथ्याज्ञानं पुनरेतदित्याभिधार्मिकाः ।
कुतो नु खल्वेतदन्या तदालम्बना दृष्टिः ! एषा न दृष्टिरिति सिद्धान्तस्तु
प्रमाणयितव्यः ।
किं खल्वनुशयाः एव सर्वत्रगाः ? नेत्याह ।
प्राप्तिवर्ज्याः सहभुवो येऽप्येभिस्तेऽपि सर्वगाः ॥ १३ ॥
सर्वत्रगैरनुशयैः सहभुवो येऽप्यन्ये धर्मास्तेऽपि सर्वत्रगाः । प्राप्तयस्तु
नैवम्; अनेकफलत्वात् ।
अत एव 'स्युः सर्वत्रगानुशया न हेतुः' इति चतुष्कोटिकं क्रियते । प्रथमा
कोटिः—अनागताः सर्वत्रगा अनुशयाः। द्वितीया — अतीतप्रत्युत्पन्नास्तत्सहभुवः ।
तृतीयचतुर्थ्यो¹ योज्ये ॥ १३ ॥
धातून् इति नोक्तमेतत् । कामधातुस्यास्तु कदाचिद् विसभा गमेकरूपधातु-
मारूप्यधातुं चालम्बन्ते, कदाचिद् रूपारूप्यौ द्वाविति ।
आत्मात्मीयत्वेनाग्रहणादिति । यस्माच्च ब्रह्माणमात्मत्वेन आत्मीयत्वेन न
गृह्णाति, अथ सत्कायदृष्टिर्न भवति ब्रह्मणि सत्त्वदृष्टिः । यस्माच्चा-
न्तग्राहदृष्टिः सत्कायदृष्टिसमुत्थिता, अतो नित्यदृष्टिरपि ब्रह्मणि नान्तग्राह-
दृष्टिरिति । का तर्हीयं दृष्टिरिति । येयं ब्रह्मणि सत्त्वदृष्टिः, नित्यदृष्टिश्च, नेयं
दृष्टिः, मिथ्याज्ञानं पुनरेतदिति । विपरीतालम्बनत्वात् मिथ्याज्ञानमेतत् । नहि
सर्वा विपरीतालम्बना प्रज्ञा दृष्टिरिष्यते, अनात्मन्येवात्मनि विपरीता प्रज्ञा
सत्कायदृष्टिरिष्यते । तत्समुत्थापिता च नित्यदृष्टिरन्तग्राहदृष्टिः, नान्या । यैव
ह्यहङ्कारस्य संनिश्रयीभवति, सैव सत्कायदृष्टिः । महाब्रह्मणि च सत्त्वदृष्टिरह-
मित्यहङ्कारस्य न संनिश्रयीभवति । तेनोक्तम्—आत्मात्मीयत्वेनाग्रहणादिति ।
“प्राप्तिवर्ज्याः सहभुवः” इति । वेदनादयः । प्राप्तयस्तु नैवम्, अनेक-
फलत्वादिति । अनेकफलविपाकनिष्यन्दा हि प्राप्तयः प्राप्तिमतेत्युक्तम् । अतो
न सर्वत्रगधर्मप्राप्तयः सर्वत्रगाः व्यवस्थाप्यन्ते । अत एवेति । यस्मात् सहभुवो-
ऽपि सर्वत्रगा व्यवस्थाप्यन्ते, तस्माच्चतुष्कोटिकं क्रियते। प्रथमा कोटिरनागताः
सर्वत्रगा अनुशया इति । एते सर्वत्रगस्य स्वामान्यात् । न सर्वत्रगहेतुरनागता-
१. तृतीया०-का०; तृतीयचतुर्थ्यो-जा० ।
निर्देशः ] पञ्चमं कोशस्थानम् ७८६
एषामष्टानवतेरनुशयानां कति सास्रवालम्बनाः ? कत्यनास्रवालम्बनाः ?
मिथ्यादृग्बिमती ताभ्यां युक्ताऽविद्याऽथ केवला ।
निरोधमार्गदृग्घेयाः षडनास्रवगोचराः ॥ १४ ॥
निरोधदर्शनप्रहातव्यास्त्रयोऽनुशया मिथ्यादृष्टिविचिकित्साऽविद्या च, ताभ्यां
सम्प्रयुक्ताऽऽवेणिकी च । मार्गदर्शनप्रहातव्या अप्येत एव त्रयः ।
इत्येते षडनास्रवालम्बनाः, शेषाः सास्रवालम्बना इति सिद्धम् ॥ १४ ॥
तत्र पुनः—
स्वभूम्युपरमो मार्गः षड्भूमिनवभूमिकः ।
वस्थायां सर्वत्रगहेतोरनवस्थापनात् । द्वितीया अतीतप्रत्युत्पन्नाः तत्सहभुवः ।
सर्वत्रगसहभुवोऽतीतप्रत्युत्पन्नत्वात् सर्वत्रगहेतुर्भवन्ति । न सर्वत्रगा अनुशयाः,
अननुशयस्वभावत्वात् । तृतीयचतुर्थ्यो १ योज्ये । तृतीया—अतीतप्रत्युत्पन्नाः
सर्वत्रगा अनुशयाः । चतुर्थी—तानाकारान् स्थापयित्वा । तद्यथा—अनागतास्त-
त्सहभुवः, प्राप्त्यादयश्च ॥ १३ ॥
"षडनास्रवगोचराः” इति । षडेवेत्यवधारणम् । तस्मान्न रागादयोऽनास्रवा-
लम्बना युज्यन्ते । 'न रागस्तस्य वर्ज्यत्वान्न द्वेषोऽनपकारतः' (अभि० को० ५.१६)
इत्यादिवचनात् । अविद्या च ताभ्यामिति । मिथ्यादृष्टिविचिकित्साभ्यां या
सम्प्रयुक्ता । या चावेणिकी अविद्या । स एकोऽविद्यानुशय इति । त्रयो निरोध-
दर्शनप्रहातव्या अनास्रवालम्बनाः । एवं मार्गदर्शनप्रहातव्या अप्येत एव त्रय
इति । षड् भूमौ भूमौ भवन्ति ॥ १४ ॥
“तद्गोचराणां विषयः” इति । तौ निरोधमार्गौ गोचर एषामिति
तद्गोचराः, तेषां यथाक्रमं त्रयाणाम् ।
“स्वभूम्युपरमः” । स्वभूमिनिरोधः । गोचरः आलम्बनम् । मार्गस्तु धर्मज्ञान-
पक्ष्यः षड्भूमिकोऽन्वयज्ञानपक्ष्यो नवभूमिको मार्गगोचराणामपरेषां त्रयाणा-
मनुशयानामालम्बनम् । कथं कृत्वा ? निरोधालम्बना एते त्रयोऽनुशया २ नवभूमिका
भवन्ति कामावचरा यावद् भवाग्रिकाः । तेषां कामावचराणां कामावचरधर्म-
निरोध एवालम्बनम् । प्रथमध्यानभूमिकानां प्रथमध्यानभूमिकधर्मनिरोध
एवालम्बनम् । तेषां यावद् भवाग्रभूमिकानां भवाग्रभूमिकधर्मनिरोध एवा-
लम्बनम् । मार्गस्तु धर्मज्ञानपक्ष्यः षड्भूमिकः । अनागम्यध्यानान्तरभूमिकः,
१. ०चतुष्टयो—जा० । २. त्रयानुशगा—जा० ।
अभि० को० ३:३
Here is the line-by-line transcription of the Sanskrit text from the provided image:
७९० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
तद्गोचराणां विषयो मार्गो ह्यन्योऽन्यहेतुकः ॥ १५ ॥
निरोधालम्बनानां मिथ्यादृष्ट्यादीनां स्वभूमिनिरोध एवालम्बनं कामावचराणां
कामधातोरेव, यावद् भवाग्रभूमिकानां भवाग्रस्यैव । मार्गालम्बनानां कामावचराणां
षड्भूमिको धर्मज्ञानपक्षो मार्गः सर्व एवालम्बनम् । योऽपि रूपारूप्यप्रतिपक्षः
रूपारूप्यावचराणामप्यष्टभूमिकानां नवभूमिकः, स एवान्वयज्ञानपक्ष्यो मार्ग
आलम्बनम्; मार्गस्यान्योन्यहेतुकत्वात् ।
यद्यपि धर्मज्ञानान्वयज्ञाने अप्यन्योन्यहेतुके अन्वयज्ञानं$^१$ न$^१$ कामधातुप्रति-
पक्ष इति; न कामावचरा मार्गालम्बना अन्वयज्ञानपक्षानालम्बन्ते ।
धर्मज्ञानं तर्हि रूपारूप्यप्रतिपक्षत्वात् तद्भूमिकानां मार्गालम्बनामालम्बनं
चतुर्थध्यानभूमिकञ्च । स सर्व एव कामावचराणामेषां त्रयाणामनुशयानामा-
लम्बनम् । अन्वयज्ञानपक्ष्यः पुनर्नवभूमिकः । अनागम्यध्यानान्तरचतुर्थध्याना-
काशविज्ञानाकिञ्चन्यायतनभूमिकः । स सर्व एव प्रथमध्यानभूमिकानामेषां
त्रयाणामनुशयानामालम्बनम् । एवं यावद् भवाग्रभूमिकानामिति ।
कस्मात् पुनः स्वभूमिनिरोध एव तद्गोचरा लम्बनम्, मार्गस्तु षड्भूमिकोऽपि
वा नवभूमिकोऽपि वा तेषामालम्बनमिति ? अत्र हेतुं दर्शयति—"मार्गो ह्यन्योन्य-
हेतुकः" इति । कथमन्धोग्यहेतुकः ? षड्भूमिको धर्मज्ञानपक्ष्यो मार्गोऽधरभूमि-
कस्योर्ध्वभूमिकस्य वा, समस्य विशिष्टस्य वा धर्मज्ञानपक्ष्यान्तरस्यान्यवयज्ञान-
पक्ष्यस्यापि च मार्गस्य हेतुर्भवति । सोऽपि तस्यान्यवयज्ञानपक्ष्यो$^२$ नवभूमिको
योज्यः । विस्तरेणैतद् व्याख्यातम्—"अन्योन्यनवभूमिस्तु मार्गः समविशि-
ष्टयोः" (अभि० को० २. ५३) इत्यत्र ।
तदेवं कामावचराणां मार्गालम्बनानामनागम्यभूमिको धर्मज्ञानपक्ष्यो याव-
कचतुर्थध्यानभूमिक आलम्बनम् । अन्वयज्ञानपक्ष्योऽपि मार्गोऽनागम्यभूमिको
यावदाकिञ्चन्यायतनभूमिकः प्रथमध्यानभूमिकानामेषां मार्गालम्बनानामा-
लम्बनम् । एवं यावद् भवाग्रभूमिकानामिति ।
यदि कामावचरा मार्गालम्बना मिथ्यादृष्ट्यादयो रूपारूप्यप्रतिपक्षमपि
निरोधमार्गाख्यं धर्मज्ञानमालम्बन्ते, सकलोऽपि हि धर्मज्ञानपक्ष्योऽन्योन्यहेतुक
इति; कस्मात् त एव मिथ्यादृष्ट्यादयोऽन्वयज्ञानपक्ष्यमपि मार्गं नालम्बन्ते;
धर्मज्ञानान्वयज्ञानयोरन्योन्यहेतुत्त्वाद् ? इत्याह -- यद्यपि धर्मज्ञानान्वयज्ञान
१-१. नत्वन्वयज्ञान-का० । २. ०पक्षो-जा० ।
निर्देशः ] पञ्चमं कोशस्थानम् ७६१
भविष्यति । न तत् सकलं प्रतिपक्षः, दुःखसमुदयधर्मज्ञानयोरेतदप्रतिपक्षत्वात्¹ ।
नापि सकल्यो रूपारूप्ययोर्दर्शनप्रहातव्यानामप्रतिपक्षत्वादित्याद्याभावाच्च भवत्या-
लम्बनम् ॥ १५ ॥
अथ कस्माद्रागप्रतिघमाना दृष्टिशीलव्रतपरामर्शौ चानास्रवालम्बना नेष्यन्ते ?
न रागस्तस्य वर्ज्यत्वात्
वर्जनीयो हि रागः यदि चानास्रवालम्बनः स्यान्न वर्जनीयः स्यात् ;
कुशलधर्मच्छन्दवत् ।
इति । विस्तरः—अन्वयज्ञानं न कमधातुप्रतिपक्ष इति । न ते तदालम्बन्ते । धर्म-
ज्ञानं तर्हीति विस्तरः ।
“धर्मज्ञानं निरोधे यन्मार्गे वा भावनापथे ।
त्रिधातुप्रतिपक्षस्तद्” (अभि० को० ६.९) इति सिद्धान्ताद् धर्मज्ञानं
रूपारूप्यप्रतिपक्ष्यस्तदभावात् तद्भूमिकानं रूपारूप्यभूमिकानां मिथ्यादृष्ट्या-
दीनामालम्बनं भविष्यति । न तत्सकलमिति विस्तरः । न तद् धर्मज्ञानं सकलं
प्रतिपक्षो रूपारूप्यधात्वोः । किं तर्हि ? किं कारणम् । दुःखसमुदयधर्मज्ञानयो-
र्भावनामार्गसंगृहीतयोरेतदप्रतिपक्षत्वात् । रूपारूप्यधात्वोरप्रतिपक्षत्वादित्यर्थः ।
अतो न रूपारूप्यावचराणां मिथ्यादृष्ट्यादीनां तद्धर्मज्ञानमालम्बनम् । किञ्च
नापि सकलयोरिति विस्तरः । नापि सकलयो रूपारूप्यधात्वोस्तद्धर्मज्ञानं
प्रतिपक्षः । कि कारणम् ? दर्शनप्रहातव्यानामप्रतिपक्षत्वात् “धर्मज्ञानं निरोधे
यन्मार्गे वा भावनापथे” (अभि० को० ६ ६) इति वचनात् ।
अत्र निगमनं करोति—इत्याद्याभावाच्च भवत्यालम्बनमिति । दुःख-समुदय-
निरोधमार्गाणामद्यायोर्दुःखसमुदयधर्मज्ञानयोर्यथोक्तरूपारूप्यप्रतिपक्षत्वं प्रत्य-
भावात् । रूपारूप्यावचराणां दर्शनभावनाप्रहातव्यानां चाद्येषु दर्शनप्रहातव्येषु
प्रतिपक्षत्वं प्रति तस्य धर्मज्ञानस्याभावात् । न तद्भूमिकानां मिथ्यादृष्ट्यादीनां
मार्गालम्बनानां रूपारूप्यभूमिकानां धर्मज्ञानमालम्बनं भवति । तदेवं त्रैधातुका-
नष्टादशानास्रवालम्बनानपास्य शेषा अशीतिरनुशयाः सर्वालम्बनाः—इति
स्थापितम् ॥ १५ ॥
न वर्जनीयः स्यादिति । न प्राप्तिच्छेदेन प्रहेयः स्यादित्यर्थः । यथा कुशलो
धर्मच्छन्दोऽभिलाषरूपः सम्यग्दृष्टिरिति न प्राप्तिच्छेदेन प्रहेयः, तद्वदयं स्यात् ।
अतो नाऽनास्रवालम्बनः।
१. • र्तत्प्रतिपक्ष०—का० ।
७६२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ अनुशय-
न द्वेषोऽनपकारतः ।
अपकारवस्तुनि हि प्रतिघ उत्पद्यते । न चैवं निरोधमार्गौ ।
न मानो न परामर्शौ शान्तशुद्धयग्रभावतः ॥ १६ ॥
निरोधमार्गयोः शान्तत्वान्न ताभ्यामुन्नतिर्भवितुमर्हति । भूतार्थशुद्धित्वाच्च तयोः
शुद्धिग्राहः शीलव्रतपरामर्शः । अग्रौ च तौ । हीने चाग्रग्राहो दृष्टिपरामर्शः ।
तस्माद्युक्तमेषामानास्रवालम्बनत्वम् ॥ १६ ॥
एषामष्टानवतेरनुशयानां कत्यालम्बनतोऽनुशेरते ? कति सम्प्रयोगत एव ?
सर्वत्रगा अनुशयाः सकलामनुशेरते ।
स्वभूमिमालम्बनतः स्वनिकायमसर्वगाः ॥ १७ ॥
ये सर्वत्रगा अनुशयास्ते सकलां पञ्चप्रकारामपि स्वां भूमिमालम्बनतोऽनु-
शेरते । असर्वत्रगास्तु स्वस्यां भूमौ स्वमेव निकायमालम्बनतोऽनुशेरते, नान्यम् ।
तद्यथा—दुःखदर्शनप्रहातव्या दुःखदर्शनप्रहातव्यमेव निकायम्, एवं यावद्भावना-
प्रहातव्या भावनाप्रहातव्यमेव, नान्यम् ॥ १७ ॥
उत्सर्गं कृत्वाऽपवादं करोति—
नानास्रवोर्ध्वविषयाः,
“न द्वेषोऽनपकारतः” इति । नवाघातवस्तुलक्षणव्यतीतत्वान्निरोधमार्ग-
योर्नात्र द्वेषः; भूतार्थशुद्धित्वादिति । भूतार्थेन शुद्धिः = निरोधः । क्लेशमल-
प्रहीणत्वात् । मार्गोऽपि परमार्थशुद्धिः, परमार्थेन शुद्धयत्यनयेति कृत्वा ।
यस्तयोः शुद्धिरिति ग्राहो न शीलव्रतपरामर्श इति युज्यते व्यवस्थापयितुम् ।
अग्रौ च ताविति । भूतार्थशुद्धित्वात् तौ निरोधमार्गौ अग्रौ । अपि च—परामर्शौ
यद्यनास्रवालम्बनौ स्याताम्, सम्यग्दृष्टिलक्षणं भजेताम्; शुद्धत्वादग्रत्वाच्चाना-
स्रवाणाम् । अतश्च न दर्शनहेयौ स्यातामग्रौ । हीने च वस्तुन्यग्र इति ग्राहो दृष्टि-
परामर्शो युज्यते, न चैवं निरोधमार्गाविति । न तयोरग्रग्राहो दृष्टिपरामर्शो
भवति ॥ १६ ॥
कत्यालम्बनतोऽनुशेरते, कति सम्प्रयोगत एवेति । कत्यालम्बनत एवेति
नावधारणेन पृच्छति; यस्माद् य आलम्बनतोऽनुशेरते, तेऽवश्यं सम्प्रयोगतो-
ऽनुशेरत इति । ये तु सम्प्रयोगत एवानुशेरते, ते नालम्बनतोऽनास्रवविसभाग-
भूम्यालम्बना अनुशया इति ॥ १७ ॥