सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 795, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 795

७७६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
यदुक्तम्—"नित्यात्मविपर्यासात्" इति । किमेतावेव द्वौ विपर्यासौ ?
दश मार्गदर्शनेनप्रहातव्या इति चत्वारिंशत् कामावचरा दर्शनहेया भवन्ति ।
भावनाहेयास्तु षट्—आकल्पिका सत्कार्यदृष्टिः, उच्छेददृष्टिः, सहजो रागः,
प्रतिघः, मानः, अविद्या चेति; षट्चत्वारिंशत् कामावचरा अनुशया भवन्ति ।
रूपावचरास्त्वेकचत्वारिंशत्, एत एव प्रतिघवर्ज्याः । यथा रूपावचरा एवमरू-
पावचरा इति ।
अत्र कश्चित् समाधिमाह—
यदुक्तम्—'अतिप्रसङ्गः, सर्वेषां सास्रवालम्बनानां दुःखे विप्रतिपन्नत्वात्'
इति, अत्र ब्रूमः—नातिप्रसङ्गः; दुःखादिमुखेन विप्रतिपत्तेः । यद्यपि सास्रवा-
लम्बना दुःखसत्यविप्रतिपन्नाः, तथापि तु केचिद् दुःखमुखेन विप्रतिपन्नाः,
केचित् समुदयमुखेन, केचिन्निरोधविप्रतिपन्नविप्रतिपन्नाः, केचिन्मार्गविप्रति-
पन्नविप्रतिपन्नाः । तत्र ये दुःखमुखेन दुःखे विप्रतिपन्नाः ते दुःखदर्शन-
प्रहातव्याः । शीलव्रतपरामर्शश्च दुःखमुखेन दुःखे विप्रतिपन्नः, नित्यात्म-
ग्रहणात्; तस्माद् दुःखदर्शनप्रहातव्यः । यस्तु मार्गदर्शनविप्रतिपन्नः, तद्यथा—
साङ्ख्यनिर्गन्थादयः स्वपरिकल्पितं मार्गं गृहीत्वा 'नास्ति बुद्धानां मोक्षमार्गः'
इति मिथ्यादृष्टिमुत्पादयन्ति, तां च मिथ्यादृष्टिं शीलव्रतपरामर्शोऽग्रतः पश्यति,
अयमेषां शीलव्रतपरामर्शो मार्गदर्शनप्रहातव्यः, मार्गविप्रतिपन्नविप्रतिपन्नत्वात् ।
नास्ति तु स शीलव्रतपरामर्शो यः समुदयमुखेन विप्रतिपद्यते । नापि यो
निरोधमुखेन विप्रतिपन्नविप्रतिपन्नः स्यात् । तस्माद् दुःखमार्गदर्शनप्रहातव्य
एवायं शीलव्रतपरामर्श इति ।
कथं पुनः समुदयनिरोधमुखेन विप्रतिपद्येत ?
अत्राचार्यः सङ्घभद्र आह—शीलव्रतपरामर्शः समुदयनिरोधदर्शनप्रहातव्यः,
तच्छरीरानुपपत्तेः । अकारणे हि कारणाभिनिवेशः, अमार्गे च मार्गाभिनिवेशः
शीलव्रतपरामर्शशरीरम् । समुदयापवादिकायां मिथ्यादृष्ट्यां शुद्धयभिनिवेशे
नन्वाकस्मिकाज्जन्मदर्शनमस्य स्यात्, क्वचिदपि कारणबुद्ध्यभावात् । दुःख-
समुदययोर्हि द्रव्यतोऽव्यतिरेकात् । ईश्वरादिस्कन्धा अपि तेनापोदिताः स्युः ।
निरोधापवादिकायां तु मिथ्यादृष्टौ शुद्धिप्रत्यागमनान्निरोधोपायकल्पनैव न
सम्भवति । कथम् ? 'नास्ति निरोधः' इति तद्दर्शनपृष्ठेन तदुपायकल्पना
व्यर्था भवेत् । एवं च शीलव्रतपरामर्शशरीरानुपपत्तिः । मार्गदर्शनप्रहातव्योऽपि
शीलव्रतपरामर्श एवं न सम्भवेत्, 'नास्ति मार्गः' इति दर्शनपृष्ठेन मार्गेपरि-
कल्पनानुपपत्तेः; यस्य हि मार्गालम्बना मिथ्यादृष्टिर्विचिकित्सा वास्ति, स