अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
[निर्देशः ] | चतुर्थं कोशस्थानम् | ७५३
पुण्यज्यानिं कुर्वन्ति, ये विपरीतधर्मं देशयन्ति । क्लिष्टचित्ता वा लाभसत्कारयशांसि
वाञ्छन्तः ।
उक्तं पुण्यक्रियावस्तुभेदेन त्रिविधं कुशलम् ॥
पुनः—
पुण्यनिर्वाणनिर्वेधभागीयं कुशलं त्रिधा ॥ १२५ ॥
पुण्यभागीयं यदिष्टविपाकं मोक्षभागीयम्, यस्मिन्नुत्पन्ने नियतं परिनिर्वाण-
धर्मा भवति । यस्य संसारादीनवन्नैरात्म्यनिर्वाणगुणद्योतिकां कथां श्रुत्वा रोमहर्षाश्रु-
पातौ भवतः, तस्यास्ति मोक्षभागीयं कुशलमूलमित्यवसेयम् । प्रावृषीवाङ्कुरप्ररोहात्
खलेविलेषु बीजास्तित्वम् ।
निर्वेधभागीयमूष्मादि चतुर्विधं पश्चाद् व्याख्यास्यामः ॥ १२५ ॥
यदिदं लोक उच्यते लिपिमुद्रागणना काव्यं संख्येति, क एषां स्वभावः ?
योगप्रवर्तितं कर्म ससमुत्थापकं त्रिधा ।
लिपिमुद्रे सगणनं काव्यं संख्या यथाक्रमम् ॥ १२६ ॥
योगप्रवर्तितमिति उपायविशेषप्रवर्तितम् । त्रिधा कर्मेति कायवाङ्मनस्कर्म ।
तत्र-लिपिमुद्रे तावद् योगप्रवर्तितं कायकर्म ससमुत्थानम्¹ । गणना काव्यं च
इति द्वादशानामङ्गानाम् । अक्लिष्टदेशनेति । अक्लिष्टचित्तसमुत्थापितेत्यर्थः ।
पुण्यभागीयमिति । पुण्यस्य भागः प्राप्तिरिति पुण्यभागः । इष्टफलप्राप्ति-
रित्यर्थः । तस्मै हितं पुण्यभागीयम् । अतएवोक्तम्-यदिष्टविपाकमिति । तत्प्राप्त्य-
नुकूलमिति । अथवा त्रयो भागाः—पुण्यो भागः, अपुण्यो भागः, अनिञ्ज्यो
भागः; तस्मै हितं पुण्यभागीयम् । अथवा—पुण्यं भजत इति पुण्यभाक्,
पुण्यभागैव पुण्यभागीयम् । स्वार्थे क-प्रत्ययः । एवं मोक्षभागीयम् । अथ वा
संसारभागः, मोक्षभागश्चेति द्वौ भागौ । तत्र यन्मोक्षभागाय हितं तन्मोक्ष-
भागीयम् । मोक्षप्राप्तिर्वा मोक्षभागः, तस्मै हितम् तत्प्राप्त्यनुकूलमिति
मोक्षभागीयम् । तस्य लक्षणं पश्चाद् वक्ष्यते । एवं निर्वेधभागीयमपि योज्यम् ।
पश्चाद् व्याख्यास्याम इति । "तत ऊष्मगतोत्पत्तिः" ( अभि० को० ६.१७ )
इत्यत्र । कर्माधिकारेणैषां कर्मस्वभावानां लक्षणमुच्यते ॥ १२५ ॥
यदिदं लोक इत्यादि । ससमुत्थानमिति । सचित्तचैतसिककलापम् । येन
तत् कायकर्मोत्थाप्यते । तत् कायकर्मससमुत्थानं योगप्रवर्तितम् । लिपिर्मुद्रा
१. समुत्थापनम्—का० ।
७५४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
वाक्कर्म । इत्येतानि पञ्चस्कन्धस्वभावानि । संख्या मनस्कर्म, यन्मनसा
सङ्कलनं धर्माणां ॥ १२६ ॥
धर्माणांमिदानीं केचित् पर्याया उच्यन्ते—
सावद्या निवृता हीनाः क्लिष्टा धर्माः,
क्लिष्टानां धर्माणां सावद्या निवृता हीना इति पर्यायाः ।
शुभामलाः ।
प्रणीताः,
कुशलानास्रवाणां प्रणीता इति पर्यायः ।
हीनप्रणीतेभ्योऽन्ये मध्या इति सिद्धं भवति ।
संस्कृतशुभाः सेव्याः,
च । कारणे कार्योपचारात् । येन हि कायकर्मणा लिपिर्लिख्यते, मुद्रा वा
खन्यते, सा लिपिर्मुद्रा च शास्त्रेऽभिप्रेते; न यथा लोके ह्यक्षरचिह्नं पुस्तकादौ
लिपिरिष्यते । अक्षरानक्षरचिह्नं च मुद्रेति । गणना काव्यञ्च वाक्कर्म । योग-
प्रवर्तितं ससमुत्थानमिति वर्तते । पञ्चस्कन्धस्वभावानीति । लिपिमुद्रयोः काय-
कर्म रूपस्कन्धः । गणनाकाव्ययोर्वाक्कर्म रूपस्कन्धः । वेदनादयस्तृभयत्रापि-
समुत्थानभूताश्चत्वारः स्कन्धा इति । पञ्चस्कन्धस्वभावान्येतानि भवन्ति ।
यन्मनसा संकलनं धर्माणामिति । एकं द्वे त्रीणीत्येवमादि सा संख्या । यत्तु वाचा
न मनसा सा गणनेत्याभिधार्मिकाः । इयं च संख्या सपरिवारग्रहणाच्चतुःस्कन्ध-
स्वभावा ॥ १२६ ॥
लिप्यादिलक्षणनिर्देशानुषङ्गेण सावद्यादीनामपि धर्माणां लक्षणनिर्देशो-
पन्यासः । धर्मस्कन्धकविभाषायामेते पर्याया निर्दिष्टाः । तत्प्रत्यासन्नेयमिति ।
इमे पर्याया उपन्यस्यन्त इत्यपरः सम्बन्धः । सहावद्येन क्लेशलक्षणेन वर्तन्त
इति सावद्याः । क्लेशाच्छादितत्वान्निवृताः । क्लेशा अपि हि सम्प्रयोगिणा
क्लेशान्तरेण निवृताः । निष्कृष्टत्वादार्यैस्त्यक्तत्वाद् वा हीनाः । क्लिष्टास्तु क्लेश-
योगतोऽवगन्तव्याः ।
शुभामलाः । कुशलानास्रवाः । ते प्रणीताः । शुद्धिप्रकर्षगतत्वात् । हीन-
प्रणीतेभ्योऽन्ये मध्या इति सिद्धमिति । क्लिष्टा एव हीनाः । शुभामला एव च
प्रणीता इत्यवधारणादतोऽन्ये न हीनाः । न प्रणीता इति मध्याः सिद्धाः ।
संस्कृतशुभाः सेव्या इति । अविशेषेण सास्रवा अनास्रवा वा सेवितव्याः ।
चतुर्थं कोशस्थानम्
कुशलसंस्कृतानां सेवितव्या इति पर्यायः । शेषा असेवितव्या इति सिद्धं
भवति ।
कस्मादसंस्कृतं न सेव्यम् ? अनभ्यसनीयत्वाद्, अफलत्वाच्च । फलार्थं हि
सेवा भवति ॥
सोत्तरा अन्ये सर्वधर्माः ।
मोक्षस्त्वनुत्तरः ॥ १२७ ॥
नहि निर्वाणाद् विशिष्टतरमस्ति । तच्च सर्वेभ्यो विशिष्टम्; कुशल-
नित्यत्वात् ॥ १२७ ॥
अभिधर्मकोशभाष्ये कर्मनिर्देशो नाम
चतुर्थं कोशस्थानमिति ॥
पर्युपासितव्याः । सन्तानाध्यारोपणतः । शेषा असेवितव्या इति । के शेषाः ?
असंस्कृताश्च, ये च न कुशलाः । क्लिष्टा निवृताव्याकृता इत्यर्थः ।
अनभ्यसनीयत्वादिति । पौनःपुन्येन कर्तुमशक्यत्वादित्यर्थः । अनुत्पाद्यत्वा-
दित्यपरे । अफलत्वाच्चेति । संस्कृतस्य हि हेतुफले । नासंस्कृतस्य ते इति ।
सोत्तरा इति सातिशयाः । अकुशला निवृताव्याकृतानामनिष्टविपाकाभावात् ।
निवृताव्याकृता अनिवृताव्याकृतैः संस्कृताः सोत्तरा; तेषामक्लिष्टत्वात् । तेऽपि
कुशलसास्रवैः सोत्तराः; कुशलसास्रवाणामिष्टफलत्वात् । तेऽप्यनास्रवैः सोत्तराः;
निष्क्लेशत्वात् । अनास्रवा अपि संस्कृता असंस्कृतैः सोत्तरा; असंस्कृतानां
नित्यत्वात् । संस्कृतावप्याकाशाप्रतिसंख्यानिरोधौ प्रतिसंख्यानिरोधेन सोत्तरौ;
प्रतिसंख्यानिरोधस्य कुशलनित्यत्वात् ।
मोक्षस्त्वनुत्तरः । न हि निर्वाणाद् विशिष्टतममस्ति । तथा ह्युक्तम्—“ये
केचिद् भिक्षवो धर्माः संस्कृता वा असंस्कृता वा विरागस्तेषामग्र आख्यायते”
( ) इति । प्रतिसंख्यानिरोधो हि नित्यत्वात् सर्वसंस्कृतेभ्य उत्कृष्टः ।
कुशलत्वाच्चासंस्कृताभ्यामाकाशाप्रतिसंख्यानिरोधाभ्यामुत्कृष्टतर इति ॥ १२७ ॥
आचार्ययशोमित्रकृतायां स्फुटार्थायामभिधर्मकोशव्याख्यायां
चतुर्थकोशस्थानं समाप्तम् ॥
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणः ॥
अभिधर्मकोशम्
भाष्यस्फुटार्थसहितम्
The provided image is completely blank and contains no readable text or manuscript content to transcribe.
❀ ॐ नमो बुद्धाय ❀
पञ्चमं कोशस्थानम्
(अनुशयनिर्देशः)
“कर्मजं लोकवैचित्र्यम्” (अभि. ४.१) इत्युक्तम्। तानि¹ च² कर्माण्यनु-
शयवशादुपचयं गच्छन्ति, अन्तरेण चानुशयान् भवाभिनिर्वर्त्तने न समर्थानि
भवन्ति। अतो वेदितव्याः—
स्फुटार्थाव्याख्यायां
पञ्चमं कोशस्थानम्
'कर्मजं लोकवैचित्र्यम्' इत्युक्तमिति। चतुर्थस्यादावुक्तम्। अतोऽनेन
सम्बन्धेनानुशयोपन्यास इति सम्बन्धं दर्शयति। तानि च कर्माणि यथोक्त-
लक्षणप्रभेदानि अनुशयवशादुपचयं गच्छन्ति। विपाकनैयत्येनात्र उत्तिष्ठन्ते।
विपाकदानाय नियतीभवन्तीत्यर्थः। अन्तरेण चानुशयान् विनानुशयैर्भवस्य
जन्मनोऽभिनिर्वर्त्तने उत्पादने न समर्थानि भवन्ति कुशलान्यकुशलानि वा
कर्माणि। न ह्यर्हतः पौनर्भविकानि कर्माण्यनित्यानि न सन्ति, अनुशयाभावात्तु
पुनर्भवाभिनिर्वर्त्तने न समर्थानि भवन्ति। अत एवैषामनित्यत्वं सिद्धयति।
ह्यर्थे चायं चः पठितव्यः; यस्मादन्तरेणानुशयान् भवाभिनिर्वर्त्तने न
समर्थानि भवन्ति, तस्मादनुशयवशादुपचयं गच्छन्तीत्यभिप्रायः।
अपरे पुनरेतद् व्याख्याद्वयमेवं व्याचक्षते—तानि च कर्माण्यनुशयवशादु-
पचयं गच्छन्ति। यान्यकृतानि कर्माणि, तान्यनुशयवशात् पुनर्भवाभिनिर्वर्तने
उपचीयन्त इत्यर्थः। न ह्यर्हतां कर्माणि पुनर्भवाभिनिर्वर्तने उपचीयन्ते, अन्तरेण
चानुशयान् भवाभिनिर्वर्तने न समर्थानि भवन्तीति। यानि च कृतानि,
तान्यप्यन्तरेणानुशयान् भवाभिनिर्वर्तने न शक्तानि भवन्ति। न ह्यर्हतां पृथग्ज-
नावस्थायां कृतानि कुशलाकुशलानि पौनर्भविकान्यनित्यानि कर्माणि न सन्ति,
अनुशयावैकल्यात्तु तानि भवाभिनिर्वर्तने न समर्थानि—इत्येवं पृथगर्थाभिधानात्
समुच्चयेऽयं चकार इति !
१-१. तानि-का०
मूलं भवस्यानुशयाः,
क्लेशो हि प्रवर्तमानो दश कृत्यानि करोति—मूलं¹ दृढीकरोति, सन्ततिमव-
स्थापयति, क्षेत्रमापादयति, निःष्यन्दं निर्वर्तयति, कर्मभवमभिनिर्हरति, स्वसम्भारं
परिगृह्णाति, आलम्बने संमोहयति, विज्ञानस्रोतो नमयति, कुशलपक्षाद्व्युत्क्रामयति²,
बन्धनार्थं च स्फरति धात्वनतिक्रमणयोगेनेति³ ।
कति चेमेऽनुशयाः ? समासेन षट् ।
कतमे ?
मूलं भवस्यानुशया इति । पुनर्भवस्य कर्मभवस्य वा मूलम् अनुशया
इत्यभिप्रायः । मूलं दृढीकरोतीति । प्राप्तहिं मूलम् । तामनुच्छेदधार्थेन
दृढीकरोतीत्यर्थः । सन्ततिमवस्थापयतीति । परम्परया क्लेशप्रबन्धं स्थापय-
तीत्यर्थः । क्षेत्रमापादयतीति । आश्रयमात्मोत्पत्त्यनुकूलं करोतीत्यर्थः । निःष्यन्दं
निर्वर्तयतीति । स्वनिष्यन्दमुपक्लेशं जनयति । तद्यथा—राग आहीक्योद्धत्य-
मत्सरांन् जनयति, द्वेषः क्रोघेर्ष्या इत्यादि । कर्मभवमभिनिर्हरतीति । कर्म एव
भवः = कर्मभवः, तं पुनर्भवाभिनिर्वृत्तये जनयतीत्यर्थः । इदमस्य 'मूलं
भवस्यानुशयाः' इत्यर्थसन्दर्शनार्थम् । स्वसम्भारं परिगृह्णातीति । स्वसम्भारः =
क्लेशस्यायोनिशो मनस्कारः, तं परिगृह्णाति । तस्यानागतस्य हेतुभावेनावतिष्ठत
इत्यर्थः । आलम्बने संमोहयतीति । यथाभूतग्रहणात्, बुद्धद्युपघाताद् वा
संमोहयतीति । विज्ञानस्रोतो नमयतीति । विज्ञानसन्ततिमालम्बने पुनर्भवे
वा नमयति ।
यदि 'मूलं भवस्य' इति पुनर्भवग्रहणम्, इदमस्योदाहरणम् । कुशलपक्षाद्
व्युत्क्रामयतीति । कुशलपक्षात् परिहापयति । बन्धनार्थं च स्फरति ; बन्धनकार्ये
व्याप्नोति, तनोतीत्यर्थः । कथम् ? इत्याह—धात्वनतिक्रमणयोगेन । धात्वनति-
क्रमणप्रकारेणेत्यर्थः । तादिदमुक्तं भवति—यः क्लेशो यद्धातुक स तं धातुं
नातिक्रामयतीति ।
षोडशोत्यन्येः । एषु षट् प्रक्षिप्य । आश्रयदौष्ठुल्यं जनयति, अकर्मण्यता-
पादनात् । गुणान् द्वेष्टि, तद्विरोधित्वात् । अपवादानास्पदीकरोति, विद्वद्विगर्हित-
कायकर्मोत्थापनात् । सत्पथादुद्वर्तयति, विपरीतदैशिकसंसेवाभिमुखीकरणात् ।
विविधानर्थबीजं रोपयति सर्वसंसारव्यसनानां तत्प्रभवत्वात् । आधिपत्यफलेन
च लोकस्यानिष्टमुपसंहरति, तद्द्वेगेन बाह्यभावविकारापत्तेः ।
१. मूलं च-का० । २. व्युत्क्रामति-का० । ३. ०नतिक्रमयो०-का० ।
पञ्चमं कोशस्थानम् ७६१
षड्रागः प्रतिघस्तथा ।
मनोऽविद्या च दृष्टिश्च विचिकित्सा च,
तथाग्रहणं रागवशेनान्येषामप्यालम्वनानुशयितज्ञापनार्थम्¹ । एतच्च पश्चात्
प्रवेदयिष्यामः ।
ते पुनः ॥ १ ॥
षड्रागभेदा सप्तोक्ताः,
त एते षडनुशयाः सूत्रे रागस्य द्विधा भेदं कृत्वा सप्तोक्ताः—
कामरागानुशयः, प्रतिघानुशयः, भवरागानुशयः, मानानुशयः, दृष्ट्यनुशयः,
विचिकित्सानुशय इति ।
कथमिदं ज्ञातव्यम्--कामराग एवानुशयः कामरागानुशयः, अहोस्वित्
कामरागस्यानुशयः कामरागानुशयः ? किं चातः ? कामराग एवानुशयश्चेत्
सूत्रविरोधः--"इहैकत्यो न कामरागपर्यवस्थितेन चेतसा बहुलं विहरति ।
उत्पन्नस्य कामरागपर्यवस्थानेस्योत्तरनिःसरणं² यथाभूतं प्रजानाति । तस्य
तत्कामरागपर्यवस्थानं स्थामशः सम्यक्त्वसुसमवहतं³ सानुशयं प्रहीयते" इति ।
रागवशेनान्येषामपीति । यत्र रागः तत्रालम्बनेऽन्ये प्रतिघादयोऽप्यनु-
शेरते । "प्रेमाद् द्वेषो जायते, मानादयोऽपि" ( ) इति सूत्रम् । अत
एव च रागानुशयनाभावाद् अनास्रवविसभागधात्वोः क्लेशा नानुशेरत इति ।
एतच्च पश्चात् प्रवेदयिष्याम इति । "यद्धि वस्तु आत्मदृष्टितृष्णाभ्यां स्वीकृतम्,
तत्रान्येऽप्यनुशया अनुशयितुमुत्सहन्ते, आर्द्र इव पटे रजांसि संस्थातुम्"
( ) इत्येतत् ज्ञापयिष्यामः ॥ १ ॥
आहोस्वित् कामराग एवानुशय इति । वैभाषिकनयेन पर्यवस्थानमेवानुशयः ।
वात्सीपुत्रनयेन प्राप्तिरनुशयः । सौत्रान्तिकनयेन बीजम् । उत्तरनिःसरणमिति ।
पश्चान्निःसरणमित्यर्थः । स्थामशः सुसमवहतम् । बलशः सुष्ठु सम्यग्
अवहतमित्यर्थः । सानुशयं प्रहीयत इति । इदमत्रोदाहरणम् । इदमत्र
विरुद्धयते । सहयोगसमासे हि अन्यत्वं दृष्टम्, तद्यथा--सपुत्रो देवदत्त इति ।
१. ०षामलम्बना०-का० । २. ०स्योत्तरि-का० ।
३. ०वस्वसम०-का० ।
कामरागस्यानुशयश्चेद् विप्रयुक्तानुशयप्रसङ्गादभिधर्मविरोधः - "कामराग-
नुशयस्त्रिभिरिन्द्रियैः सम्प्रयुक्तः" इति ?
कामराग एवानुशय इति वैभाषिकाः । एवं यावद्विचिकित्सैवानुशय इति ।
ननु चोक्तम् — एवं सूत्रविरोध इति ? नास्ति विरोधः । सानुशय सानु-
बन्धमित्यर्थात्¹ । औपचारिको वा सूत्रेऽशयनुशब्दः प्राप्तौ । तद्यथा --
दुःखोऽग्निरिति । लाक्षणिकस्त्वभिधर्मे क्लेश एवानुशयशब्दः । तस्मात् सम्प्रयुक्ता
एवानुशयाः ।
कथमिदं गम्यते ? अनुशयानां
“चित्तक्लेशकरत्वादावरणत्वाच्छुभैर्विरुद्धत्वात्” ।
यस्मादनुशयैः क्लिष्टं चित्तं भवत्यपूर्वं कुशलं नोत्पद्यते, उत्पन्नाच्च परि-
हीयते, तस्मान्न विप्रयुक्ताः । अथ विप्रयुक्तैरेवैवं स्यात्, कुशलं न कदा-
चिदप्युपलभ्येत², तेषां नित्यं सन्निहितत्वात् । उपलभ्यते च, अतः
“कुशलस्य चोपलम्भादविप्रयुक्ता इहानुशयाः³” ॥ ( ) इति ।
तथा च सति सूत्रविरोधः । अभिधर्मविरोध इति । कामरागानुशयस्त्रिभिरिन्द्रियैः
सम्प्रयुक्तः, कतमैस्त्रिभिः ? सुख-सौमनस्य उपेक्षेन्द्रियैः सम्प्रयुक्त इति ।
न हि विप्रयुक्तस्य प्राप्तिलक्षणस्य एभिरिन्द्रियैः सम्प्रयोगो युज्यत इति शास्त्र-
विरोधः ।
सानुशयं सानुबन्धमित्यर्थादिति । कामरागस्यानुबन्धोऽनुशयशब्देनोक्त
अनुबन्धः पुनः क्लेशान्तरोत्पादानुकूल्येनावस्थानम् । अनिवृर्त्तानुशयः
सानुशयं प्रहीयते, न पुनरनुवर्तते संक्लेश इत्यर्थः । औपचारिको वा सूत्रेऽनु-
शयशब्दः । उपचारे भव औपचारिकः । कुत्रौपचारिकः ? इत्याह — प्राप्तौ ।
मुख्यवृत्त्या पर्यवस्थानेऽनुशयशब्दो वर्तते, उपचारेण तु प्राप्तौ; तस्यानुशय-
हेतुभावात् । तद्यथा दुःखवेदनाहेतुत्वाद् अग्निर्दूःख इत्युच्यते, तद्वत् ।
लाक्षणिकस्त्वभिधर्मेऽनुशयशब्दः । लक्षणे भवः, लक्षणेन वा दीप्यंत
लाक्षणिक इत्याह — क्लेश एवेति । आलम्बनसम्प्रयोगात्त्वनुशेरत इत्यनुशया
इति । तस्मात् सम्प्रयुक्ता एवानुशयाः । अत्र चार्थे श्लोकमुदाहरन्ति —
चित्तक्लेशकरत्वादावरणत्वाच्छुभैर्विरुद्धत्वात् ।
कुशलस्य चोपलम्भादविप्रयुक्ता इहानुशयाः ॥ इति ॥
१. ०मित्यर्थः-का० । २. कदाचिदुपल०-का० ।
३. अथ इहा०-का० ।
तदिदमज्ञापकम् ; यस्माद्यो हि¹ विप्रयुक्तमनुशयमिच्छति स एतत् सर्वमनु-
शयकृतं नेच्छति, क्लेशकृतमेवेच्छति। एवं तु साधु यथा सौत्रान्तिकानाम्।
कथं च सौत्रान्तिकानाम् ? कामरागस्यानुशयः कामरागानुशय इति। न
चानुशयः सम्प्रयुक्तो न विप्रयुक्तः, तस्याद्रव्यान्तरत्वात् । प्रसुप्तो हि क्लेशोऽनु-
शय उच्यते, प्रबुद्धः पर्यवस्थानम् । का च तस्य प्रसुप्तिः ? असम्मुखीभूतस्य
बीजभावानुबन्धः । कः प्रबोधः ? सम्मुखीभावः ।
कोऽयं बीजभावो नाम ? आत्मभावस्य क्लेशजा क्लेशोत्पादनशक्तिः ।
चित्तक्लेशकरत्वादिति । अस्य विवरणम्—यस्मादनुशयैः क्लिष्टं चित्तं भवति,
न विप्रयुक्तैः क्लिष्टं चित्तं भवति । आवरकत्वादिति । अस्य पदस्य विवरणम्—
अपूर्वं कुशलं नोत्पद्यत इति । सानुशये चित्ते कुशलमपूर्वं नोत्पद्यत इति ।
अनुशयाः शुभैविरुद्धः। यस्मादुत्पन्नात् कुशलात् परिहीयते, तस्मात्तु कुशलै-
र्विरुद्धा अनुशयाः । तस्मान्न विप्रयुक्ता इति । यस्माच्चेतस्यविद्यमानैस्तैर्यथोक्त-
क्लिष्टादि न सम्भवति, सम्प्रयुक्तैः पुनः सर्वमेतद् युज्यत इति ।
अथ विप्रयुक्तैरेवैवं स्यादिति । विप्रयुक्तैः क्लिष्टं चित्तं भवति । अपूर्वं
कुशलं नोत्पद्यते, उत्पन्नाच्च परिहीयत इति । यद्येवम्, कुशलं कदाचिदप्युप-
लभ्येत, तेषां विप्रयुक्तानां नित्यसन्निहितत्वात् । यस्मात् क्लिष्टावस्थायां
कुशलावस्थायामन्यस्यां वा ते विप्रयुक्ता वर्तन्त इति उपलभ्येत च कुशलम्,
अथ 'कुशलस्य चोपलम्भादविप्रयुक्ता इहानुशयाः' इति स्थितमेतद् ।
आचार्य आह—तदिदमज्ञापकम् । यदिदं वैभाषिकैरुक्तम्—'चित्तक्लेश-
करत्वाद्' इत्यादि । यो हि विप्रयुक्तमनुशयमिच्छतीति वात्सीपुत्रीयः । सर्वमेत-
दिति । चित्तक्लेशादि । क्लेशकृतमेवेच्छतीति । पर्यवस्थानकृतमेवेत्यर्थः ।
पर्यवस्थानं च न नित्यसन्निहितं भवतीति कुशलोपलम्भसिद्धिः । कामराग-
स्यानुशया इति पक्षपरिग्रहे सानुशयं परिहीयत इति नास्ति सूत्रविरोधः; किन्तु
विप्रयुक्तोऽनुशय इति प्राप्नोति । अत आह न चानुशयः सम्प्रयुक्तो न विप्रयुक्त
इति । कथम् ? इत्याह-- तस्याद्रव्यान्तरत्वादिति । शक्तिरूपस्य बीजस्य
रागादिभ्योऽनर्थान्तरत्वात् ।
आत्मभावस्य आश्रयस्य । क्लेशजा पूर्वोत्पन्नक्लेशजनिता । क्लेशोत्पादन-
शक्तिः ।
१. का० पुस्तके नास्ति ।
७६४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
यथानुभवज्ञानजा स्मृत्युत्पादनशक्तिः, यथा चाङ्कुरादीनां शालिफलजा शालिफलो-
त्पादनशक्तिरिति । यस्तु क्लेशानां बीजार्थमर्थान्तरं विप्रयुक्तमनुशयं कल्पयति
तेन स्मृतिबीजमप्यर्थान्तरं कल्पयितव्यं जायते ।
यत्तर्हि सूत्रे क्लेश एवानुशय उक्तः षट्षट्के—"सोऽस्य पुद्गलस्य¹
भवति सुखायां वेदनायां रागानुशयः" इति । भवतीति वचनान्नासौ तदैवा-
नुशयः । कदा तर्हि भवति ? यदा प्रसुप्तो भवति । हेतौ वा तदुपचार एष
द्रष्टव्यः ॥
तिष्ठतु प्रसङ्गः । शास्त्रं प्रवर्त्तताम् ।
य एष सूत्रे रागस्य भेदः कृतः—'कामरागो भवरागः' इति, कोऽयं
भवरागः ?
भवरागो द्विधातुजः ।
यथानुभवज्ञानजा स्मृत्युत्पादनशक्तिर्न द्रव्यान्तरभूता, तद्वत् । स्मृत्युत्पादन-
हेतुर्द्रव्यान्तरभूतः कश्चिद् विप्रयुक्त इत्याशङ्क्य दृष्टान्तान्तरमुपन्यस्यति—
यथा चाङ्कुरादीनामिति । विस्तरः—यथा चाङ्कुरादीनां पूर्वोत्पन्ना शालिफलजा
शालिफलान्तरोत्पादनाय शक्तिर्न द्रव्यान्तरभूता, तद्वत् ।
यस्त्विति । वात्सीपुत्रीयः । यदि 'क्लेशास्यानुशयः' इतीष्यते । यत्तर्हि सूत्र
एव क्लेशोऽनुशय उक्त षट्षट्के² सूत्रे—"अस्य पुद्गलस्य भवति सुखायां
वेदनायां रागानुशयाः" ( ) इति ? राग एव अनुशयः । सुखवेदना-
वस्थायां हि रागः समुदाचरन्नेवमुक्तः, न तु तस्य बीजमित्यभिप्रायः ।
भवतीति वचनान्नासौ तदैवानुशय इति । अनुशय एव रागस्यायमुक्तः, न रागः;
भवतीति वचनात् । तस्यामवस्थायामुत्पद्यमानस्य रागस्यानुशयो भवतीति ।
बीजमुत्पद्यते, न तूत्पन्नमिति । बीजप्रकृतावस्थात्र कथ्यते इत्यभिप्रायः ।
कदा तर्हि भवतीति । कदानुशयोऽस्तीत्यर्थः । यदा प्रसुप्तो भवति । यदोपरतो
भवतीत्यर्थः । हेतौ वा तदुपचार इति । हेतौ = रागे अनुशयोपचारः । रागो
हि रागानुशयस्य हेतुः । तथा हि रागजा रागोत्पादनशक्ती रागानुशय
इत्युक्तमिति । तदिदमुक्तं भवति—क्वचिदनुशयशब्देन बीजमुच्यते, क्वचित्
पर्यवस्थानमिति ।
१. का० पुस्तके नास्ति । २. सट्पट्के—जा० ।
निर्देशः ] पञ्चमं कोशस्थानम् ७६५
रूपारूप्यधातुजो रागो भवरागः कृतः । किं कारणमेवं कृतः ?
अन्तर्मुखत्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृतः ॥ २ ॥
समापत्तिरागो हि तेषां प्रायेण । स चान्तर्मुखप्रवृत्तः, तस्माद् भवरागः
उक्तस्तयोः किल धात्वोर्मोक्षसंज्ञाविच्छेदनार्थमेकेषामिति¹ । आत्मभाव एव तु
भवः । ते च सत्त्वाः समापत्तिं साश्रयामास्वादयन्त आत्मभावमेवास्वादयन्ति;
कामवीतरागत्वात् । अतः स रागो भवराग इत्युक्तः ॥ २ ॥
पुनरेते षडनुशया अभिधर्मे दश क्रियन्ते । कथं कृत्वा ?
दृष्टयः पञ्च सत्कायमिथ्यान्तग्राहदृष्टयः ।
दृष्टिशीलव्रतपरामर्शाविति पुनर्द्दश ॥ ३ ॥
षण्णामनुशयानां दृष्टिं पञ्चधा कृत्वा दश भवन्ति । पञ्च दृष्टिस्वभावाः—
सत्कायदृष्टिः, अन्तग्राहदृष्टिः, मिथ्यादृष्टिः, दृष्टिपरामर्शः, शीलव्रतपरामर्शश्च ।
यथा दृष्टिस्वभावाः—रागः, प्रतिघः, मानः, अविद्या, विचिकित्सा ॥ ३ ॥
एते पुनरेते दशानुशया अभिधर्मेऽष्टानवतिः क्रियन्ते—कामावचराः
षट्त्रिंशद्, रूपावचरा एकत्रिंशत्, आरूप्यावचरा एकत्रिंशत् । कथं कृत्वा ?
समासतो ह्येतेऽनुशयास्त्रैघातुका दर्शनप्रहातव्या भावनाप्रहातव्याश्च । तत्र तावत्
कामावचरा दर्शनप्रहातव्या द्वात्रिंशत् । कतमे ते ? इत्याह—
दशैते सप्तसप्ताष्टौ त्रिद्विदृष्टिविवर्जिताः ।
यथाक्रमं प्रहीयन्ते कामे दुःखादिदर्शनैः ॥ ४ ॥
समापत्तिरागो हि तेषा प्रायेणेति । आस्वादनासम्प्रयुक्ते ध्याने प्रायेण तेषां
रागः । विमानादिष्वपि तेषां रागोऽस्तीत्यतः प्रायेणेतिग्रहणम् । स चान्तर्मुख-
प्रवृत्तः, समाहितरूपत्वाद् । तथा च सति मोक्षसंज्ञोपतिष्ठते । तद्विच्छेदनार्थं
भगवान् देशयामास—'कामरागो भवरागः' इत्येवमादि । भवे रागः, नैव
मोक्षे । मोक्षे कुशलो धर्मच्छन्द इति । आत्मभाव एव तु भव इत्याचार्यमतम् ।
समापत्ति साश्रयामिति । समापत्तिम् = सात्मभावम् । आस्वादयन्त आत्मभाव-
मेवास्वादयन्ति; न कामगुणान् । कामवीतरागतात् । अतः स रागो भवराग
इत्युक्तो न कामराग इति दर्शयति ॥ २ ॥
अभिधर्म इति । न सूत्र इत्यभिप्रायः ॥ ३ ॥
१. ॰संज्ञाव्यावर्त्तनार्थं०-का० ।
य एते दशानुशया उक्ता एते कामधातौ दशापि दुःखदर्शनहेयाः सन्ति ।
एभ्य एव सप्त समुदयदर्शनहेयाः १। सप्त निरोधदर्शनहेयाः, सत्कायदृष्टिमन्त-
ग्राहदृष्टि शीलव्रतपरामर्शं च वर्जयित्वा । अष्टौ मार्गदर्शनहेयाः २, सत्कायदृष्टि-
मन्तग्राहदृष्टिं च वर्जयित्वा । इत्येते कामावचरा द्वात्रिंशदनुशया दर्शनप्रहातव्याः,
सत्यानां दर्शनमात्रेण प्रहाणात् ॥ ४ ॥
चत्वारो भावनाहेयाः
तद्यथा—रागः, प्रतिघः, मानः, अविद्या च । दृष्टसत्यस्य पश्चात्
मार्गाभ्यासेन प्रहाणात् । तदेवं सत्कायदृष्टिरेकप्रकारा भवति दुःखदर्शनहेया ।
एवमन्तग्राहदृष्टिः । मिथ्यादृष्टिश्चतुष्प्रकारा भवति चतुःसत्यदर्शनहेया ।
एवं दृष्टिपरामर्शो विचिकित्सा च । शोलव्रतपरामर्शो द्विप्रकारः दुःखमार्गदर्शनहेयः ।
रागप्रतिघमानाविद्याः पञ्चप्रकाराश्चतुःसत्यदर्शनहेयाः, भावनाहेयाश्च ।
सप्त समुदयदर्शनहेया इति । सत्कायदृष्टिः फलभूतान् पञ्चोपादानस्कन्धान्
आलम्बत इति दुःखदर्शनहेयैव । एवमन्तग्राहदृष्टिः तेषामेव स्कन्धानां शाश्वतो-
च्छेदान्तग्रहणात् । शीलव्रतपरामर्शोऽपि तानेव स्कन्धान् शुद्धितो मुक्तितो
नैर्याणिकतश्चालम्बत इति न समुदयदर्शनहेयः ।
एवं निरोधदर्शनहेया अपि योज्याः ।
अष्टौ मार्गदर्शनहेया इति । शीलव्रतपरामर्शमधिकं प्रक्षिप्य । मार्गेण
शुद्धयति, तमपास्यान्येन शीलव्रतेन शुद्धि प्रत्येतीति विप्रतिपन्नत्वात् मार्ग-
दर्शनप्रहातव्यो भवति । यो हि क्लेशो यस्य सत्यस्यापवादाय प्रवृत्तः, स
तस्मिन् दृष्टे प्रहीयते; सर्पभ्रान्तिरिव रज्जुदर्शनान् । सत्यानां दर्शनमात्रेण
प्रहाणादिति । नाभ्यासेन प्रहाणादित्यभिप्रायः । दृष्टसत्यस्य पश्चान्मार्गाभ्यासेन
प्रहाणात् । किमेते भावनाहेया इत्यधिकारः । तदेवमभ्यासो भावना, पुनः
पुनरुत्पादनमित्यर्थः । सत्कायदृष्टिरेकप्रकारेति । आत्मात्मीयाकारेण दुःखे
विप्रतिपन्नत्वाद् दुःखदर्शनहेयैव । एवमन्तग्राहदृष्टिरिति । असावप्यात्माभि-
मतस्य वस्तुनः शाश्वतोच्छेदान्तारोपाद् दुःख एव विप्रतिपन्नेति दुःखदर्शन-
हेयैव । मिथ्यादृष्टिश्चतुष्प्रकारेति । दुःखादिसत्यलक्षणापवादप्रवृत्तत्वात् सत्य-
चतुष्टयेऽपि विप्रतिपन्नेति । चतुःसत्यदर्शनहेया । एवं दृष्टिपरामर्शोऽपि
१. ०दर्शनप्रहेयाः—का० । २. दुःखसमुदयनिरोधदर्शनहेया—का० ।
निर्देशः ] पञ्चमं कोशस्थानम् ७६७
कीदृशा एते दुःखदर्शनहेयाः ? कीदृशा यावद् भावनाहेयाः ? ये यद्दर्शन-
हेयालम्बनास्ते तद्दर्शनहेयाः । अवशिष्टा भावनाहेयाः ।
चतुष्प्रकार एव । स हि हीनेऽग्रदर्शनम् । तत्र समुदाय-निरोध-मार्गप्रहेया-
लम्बनाः समुदाय-निरोध-मार्गदर्शनहेयाः । शेषो दुःखदर्शनहेयः । एवं विचिकित्सा
सर्वत्र संशयाकारेति सर्वत्र विप्रतिपन्नत्वाच्चतुःसत्यदर्शनहेया । शीलव्रत-
परामर्शो द्विप्रकार इति । ईश्वरादिष्वहेतुषु हेतुग्रहो नित्यात्मविपर्यासात्
प्रवर्तत इति दुःखदर्शनहेयाः । अमार्गे मार्गदर्शनं मार्गदर्शनहेयः ।
कीदृशा एता इति । रागादयश्चत्वारः क्लेशाः । पर्यनुयुज्यन्ते हि राग-
प्रतिघ-मानाविद्या इत्यनन्तराधिकृताः । ते चेमे दर्शनहेयाः । इमे भावनाहेया
इति दुष्परिच्छेदाः । न तु सत्कायदृष्ट्यादयश्चिन्त्यन्ते । ये हि दुःखसत्यवि-
प्रतिपन्नाः, ते दुःखदर्शनहेया इति । एवं यावद् ये मार्गसत्यविप्रतिपन्ना ते
मार्गदर्शनहेया इति सुपरिच्छेदमेतत् । तत्र य इति रागादयः । यस्य सत्यस्य
दर्शनम् = यद्दर्शनम् । यद्दर्शनेन हेयाः त आलम्बनमेषाम् त इमे
यद्दर्शनहेयालम्बनाः । ते तद्दर्शनहेयाः । ते रागादयः । तस्य सत्यस्य दर्शनं
तद्दर्शनम्, तद्दर्शनेन हेयास्तद्दर्शनहेयाः । एतदुक्तं भवति—ये रागादयो
दुःखदर्शनहेयम्, यावन्मार्गदर्शनहेयं क्लेशमालम्बन्ते, ते तद्दर्शनहेया इति ।
यदालम्बना यद्दर्शनहेयालम्बनाश्चेति वक्तव्यम् ; चतुरार्यसत्यालम्बनोऽ-
प्यविद्यानुशयो भवतीति ? न वक्तव्यम्; एकशेषविधानसिद्धेः । यच्च सत्यम्,
यद्दर्शनहेयाश्च क्लेशा आलम्बनमेषाम्, त इमे दर्शनहेयालम्बनाः, ते तद्दर्शन-
हेया इति ।
ननु च समुदायदर्शनप्रहातव्यः सर्वत्रगोऽविद्यानुशयो दुःखनिरोधादि-
- त्यदर्शनहेयाद्यालम्बनोऽपि भवति, पञ्चनिकायालम्बनत्वात्, ततश्चास्य
दुःखनिरोधादिसत्यदर्शनहेयत्वप्रसङ्गः स्यादिति ? न दोषः; यद्यपि हि स
पञ्चनिकायालम्बनः, समुदायरूपाकारतस्तु तान् निकायानालम्बते; तेन तथा-
लम्बनतः समुदायदर्शनप्रहातव्य एव स इति । एवं दुःखदर्शनप्रहातव्योऽपि
संयोज्यः । एवं च सति येऽपि व्याचक्षते—'ये यद्दर्शनहेयालम्बना इति सर्वे
एव दर्शनहेया अधिक्रियन्ते, न केवला रागादय इति; तेषामपि व्याख्याने
इमावेव चोद्यपरिहारौ वक्तव्यौ ।
रूपारूप्यधात्वोर्दुःखाभावात् प्रतिघाभावः । दुःखायां हि वेदनायां प्रतिघो-
ऽनुशेते । सा चोपरि नास्तीति । द्वेषश्च रूक्षो वातव्याधिवत् । ते च सत्त्वाः
शमथस्निग्धसन्ततय इति । विपाकाभावाच्च । अनिष्टो ह्यस्य विपाकः । तौ धातु
विगतानिष्टविपाकौ । आघातवस्त्वभावाच्च । न हि तत्र बाह्याः कुश-क्षार-
ता एव द्वादश दृष्टयो भवन्ति, चतस्रो विचिकित्साः, पञ्च रागाः, पञ्च
प्रतिघाः, पञ्च मानाः, पञ्चाविद्या इत्येते कामावचराः षट्त्रिंशदनुशया भवन्ति ।
त एवाप्रतिघाः पुनः ।
रूपधातौ,
पञ्चप्रकारं प्रतिघमपहाय त एव रूपावचरा एकत्रिंशदनुशया भवन्ति ।
यथा रूपधातौ
तथारूप्ये
एकत्रिंशदनुशया भवन्ति ।
इत्यष्टानवतिर्मताः ।। ५ ।।
त एवमेते षडनुशया आकारप्रकारधातुभेदैरष्टानवतिर्मता आभि-
धर्मिकाणाम् ।। ५ ।।
य इमे दर्शनप्रहातव्यानुशया उक्ताः किमेते नियतं दर्शनेनैव प्रहीयन्ते ?
नेत्याह । किं तर्हि ?
भवाग्रजाः क्षान्तिवध्या दृग्धेया एव,
कण्टकादयोऽनाध्यात्मिकाः तापापस्मारादयः सन्ति । मैत्र्यादिकुशलमूलसम्भूत-
त्वात्, परिग्रहाभावाच्च ।
आकार-प्रकारधातुभेदैरिति । आकारभेदो दशानामनुशयानाम्—'आत्मा-
त्मीयध्रुवोच्छेदनास्तिहीनामग्रदृष्टयः" (अभि० को० ५.७) इत्येवमादिकः ।
प्रकारभेदो दुःखदर्शनप्रहातव्यो निकायो यावद् भावनाप्रहातव्य इति ।
तत्र रागानुशयः प्रकार-धातुभेदाभ्यां पञ्चदशविध इति । तस्य परस्पर-
माकारभेदो नास्ति । सर्वो हि रागः सक्त्याकारः, तस्मान्नाकारभेदेन व्यवस्था-
प्यते । प्रतिघानुशयः प्रकारभेदात् पञ्चविधः । न परस्परमाकारभेदोऽस्ति;
सर्वस्य प्रतिघाकारत्वात् । धातुभेदोऽपि नास्ति; रूपारूप्यधात्वोस्तदभावात् ।
मानानुशयः प्रकार-धातुभेदाभ्यां पञ्चदशविधः । नाकारभेदोऽस्ति; सर्वस्योन्न-
त्याकारत्वात् । तथा अविद्या पञ्चदशविधा, ताभ्यामेव । नाकारभेदोऽस्ति;
सर्वस्या असम्प्रख्यानाकारत्वात् । विचिकित्सा द्वादशविधा, ताभ्यामेव ।
नाकारभेदः; सर्वस्याः संशयाकारत्वात् । दृष्ट्यनुशय आकार-प्रकार-धातुभेदैः
षट्त्रिंशद्विधः । एवमेते षडनुशया इति विस्तरः ॥ ५ ॥
निर्देशः । पञ्चमं कोशस्थानम् ५२९
ये भवाग्रभूमिजा अन्वयज्ञानक्षान्तिहेया अनुशयास्ते दर्शनहेया एव, न
भावनाहेयाः ।
शेषजाः ।
दृग्भावनाभ्याम्,
‘क्षान्तिवध्याः’ इति वर्त्तते । शेषासु भूमिषु यथायोगं धर्मान्वयज्ञान-
क्षान्तिहेया अनुशया आर्याणां दर्शनहेयाः, पृथग्जनानां भावनाहेयाः ।
अक्षान्तिवध्या भावनयैव तु ॥ ६ ॥
सर्वासु भूमिषु येऽनुशया ज्ञानवध्यास्ते उभयेषां नित्यं भावनाहेयाः । नैव
हि बाह्यकानां दर्शनप्रहातव्याः प्रहीयन्त इत्यपरे । तथाहि—महाकर्मविभागसूत्रे
“भवाग्रजा क्षान्तिवध्याः” इति । क्षान्तिवध्याग्रहणं भावनाहेयनिवृत्त्यर्थम् ।
भवाग्रजाग्रहणं तदन्यभूमिकविशेषणार्थम् । न हि लौकिकोऽस्ति भवाग्रप्रतिपक्ष-
भूतो भावनामार्ग इति ।
शेषासु भूमिष्विति । काम
७७० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ अनुशय-
पूर्वन्तकल्पानां च शाश्वतवादिनामेकत्यशाश्वतिकानाम् अहेतुसमुत्पत्तिकानां च
( ) इति विस्तरः । इयं मिथ्यादृष्टिः कामधात्वालम्बना; तस्य कर्मणः
कामावचरत्वात्, तत्रैव च नरकसम्भवादिति । पूर्वन्तकल्पानां च शाश्वत-
वादिनाम् । ब्रह्मजालसूत्रे (दी० नि० १.१) वीतरागाणां कामधात्वालम्बनानां
दृष्टीनां समुदाचार उक्तः । पूर्वजन्मदर्शनानुसारेण य एवमुत्पन्नदृष्टिकाः, ते
पूर्वन्तकल्पाः । शाश्वतवादिनो बहवस्तत्रोक्ताः । तेषामुदाहरणमेकं दर्श-
यिष्यामः- "इहैकत्यः श्रमणो वा ब्राह्मणो वा अरण्यगतो वा वृक्षमूलगतो वा
शून्यागारगतो वा आतपाम्वयात्, प्रहाणान्वयात्, भावनान्वयान्, बहुली-
कारान्वयात् सम्यङ्मनसिकारान्वयात् तद्रूपं शान्तं चेतःसमाधिं स्पृशति ।
यथासमाहिते चित्ते विंशतिं संवर्तविवर्तकल्पान् समनुस्मरति । तस्यैवं भवति-
शाश्वतोऽयमात्मा, लोकश्चेति । तदेवं सर्व एवैते पूर्वन्तकल्पाः शाश्वतवादिनः
अनया शाश्वतदृष्ट्या आत्मानं लोकं चालम्बमानाः कामधातुमप्यालम्वन्ते ।"
इत्येवं कामधात्वालम्बमानानां दृष्टीनां समुदाचार उक्तः ।
तथा तस्मिन्नेव ब्रह्मजालसूत्रे पूर्वन्तकल्पानामेकत्यशाश्वतिकानां वीतरागाणां
कामधात्वालम्बनानां दृष्टीनां समुदाचार उक्तः । कथम् ? "भवति भिक्षवः स
समयो यदयं लोकः संवर्तते, संवर्तमाने लोके यद्भूयसा सत्त्वा आभास्वरे
देवनिकाय उपपद्यन्ते । ते तत्र भवन्ति रूपिणो मनोमया अविकला अहीनेन्द्रियाः
सर्वाङ्गप्रत्यङ्गोपेताः शुभा वर्णस्थायिनः स्वयम्प्रभाः विहायसङ्गमाः प्रीतिभक्षाः
प्रीत्याहारा दीर्घायुषा दीर्घमध्वानं तिष्ठन्ति । भवति भिक्षवः स समयो यदयं
लोको विवर्तते, विवर्तमाने लोके आकाशे शून्यं ब्राह्मं विमानमभिनिर्वर्तते ।
अथान्यतरः सत्त्व आयुःक्षयात् पुण्यक्षयात् कर्मक्षयात् आभास्वराद् देव-
निकायाच्च्युत्वा शून्ये ब्राह्मे विमाने उपपद्यते । स तत्रैकाकी अद्वितीयोऽनुप-
स्थायको दीर्घायुर्दीर्घमध्वानं तिष्ठति । अथ तस्य सत्त्वस्य दीर्घस्याध्वनोऽत्ययात्
तृष्णोत्पन्ना, अरतिः सञ्जाता - 'अहो बतान्येऽपि सत्त्वा इहोपपद्येरन् मम
सभागतायाम्' । एवं च तस्य सत्त्वस्य चेत प्रणिधिः । अन्ये च सत्त्वा आयुः-
क्षयात् पुण्यक्षयात् कर्मक्षयात् आभास्वराद् देवनिकायाच्च्युत्वा तस्य सत्त्वस्य
सभागतायामुपपन्नाः । अथ तस्य सत्त्वस्यैतद्भवत् - 'अहमस्म्येकाकी अद्विती-
योऽनुपस्थायको दीर्घायुः' यावद् 'अन्येऽपि सत्त्वा इहोपपद्येरन् मम सभागता-
याम्' । एवं चेतःप्रणिधिः । 'इमे च सत्त्वा इहोपपन्ना मम सभागतायाम्,
मयैते सत्त्वा निर्मिताः, अहमेषां सत्त्वानामीश्वरः कर्ता निर्माता स्रष्टा सृजः पितृ-
भूतो भावानाम्' इति । तेषामपि सत्त्वानामेवं भवति- 'इमं वयं सत्त्वमद्राक्ष्म
एकाकिनमद्वितीयमनुपस्थायकं दीर्घायुषं दीर्घमध्वानं तिष्ठन्तम्, तस्यास्य
निर्देशः ] पञ्चमं कोशस्थानम् ७७१
वीतरागाणां च कामधात्वालम्बनानां दृष्टीनां समुदाचार उक्तः । न च रूपाव-
चराणां क्लेशानां कामधातुरालम्बनम्; वीतरागत्वात् । तस्मात् कामप्रतिसंयुक्ता
सत्त्वस्य दीर्घस्याध्वनोऽत्ययात् तृष्णोत्पन्ना, अरतिः सञ्जाता—'अहो बतान्येऽपि
सत्त्वा इहोपपद्येरन् मम सभागतायाम्' । एवं चास्य सत्त्वस्य चेतः प्रणिधिः ।
वयं चेहोपपन्ना अस्य सत्त्वस्य सभागतायाम् । अनेन वयं सत्त्वेन निर्मिताः ।
एषोऽस्माकं सत्त्व ईश्वरो यावत् पितृभूतो भावानाम्' । अथान्यतरः सत्त्व
आयुःक्षयात् पुण्यक्षयात् कर्मक्षयात् तस्मात् स्थानाच्च्युत्वा तेषामित्थन्त्वमा-
गच्छति मनुष्याणां सभागतायाम् । स वृद्धेरन्वयाद् इन्द्रियाणां परिपाकात्
केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादना-
गारिकां प्रव्रजति । सोऽरण्यगतो वा वृक्षमूलगतो वा विस्तरेण यावत् तद्रूपं
शान्तं चेतःसमाधिं स्पृशति । यथासमाहिते चित्ते पूर्वकमात्मभावं समनुस्मरति,
तस्यैवं भवति—'योऽसौ ब्रह्मा, येन वयं निर्मिताः, स नित्यो ध्रुवः शाश्वतोऽ-
विपरिणामधर्मा । ये तु वयं तेन ब्रह्मणा निर्मिताः, ते वयमनित्या अध्रुवा
अशाश्वता विपरिणामधर्माणः” इति । तदेवं कामधातुरपि तयाऽन्तग्राहदृष्ट्या-
ऽऽलम्बितो भवति । अतः कामधात्वालम्बनानां दृष्टीनां समुदाचार उक्तः ।
तथा तत्रैव ब्रह्मजालसूत्रे अहेतुसमुत्पत्तिकानां पूर्वान्तकल्पानामिति
प्रकृतम् । वीतरागाणां कामधात्वालम्बनानां दृष्टीनां समुदाचार उक्तः । कथम् ?
“सन्ति रूपधातावसंज्ञिसत्त्वा नाम देवाः । संज्ञोत्पादात् तेषां सत्त्वानां तस्मात्
स्थानाच्च्युतिर्भवति । अतोऽन्यतमः सत्त्वस्तस्मात् स्थानाच्च्युत्वा इत्थन्त्वमा-
गच्छति मनुष्याणां सभागतायाम् । पूर्ववद् यावत् पूर्वकमात्मभावं समनु-
स्मरति । तस्यैवं भवति—'अहेतुसमुत्पन्न आत्मा लोकश्च' । तदनेनैवमेव भवति—
अहेतुसमुत्पन्न आत्मा लोकश्च । अहमस्मि पूर्वं नाभूवम्, सोऽस्यैतर्हि सम्भूत
इत्यहेतुसमुत्पन्न आत्मा लोकश्च । इत्येवमात्मानं लोकं चालम्बमानास्तया
मिथ्यादृष्ट्या कामधातुमप्यालम्वन्ते” इत्येतेषां कामधात्वालम्बनानां दृष्टीनां
समुदाचार उक्तः ।
कथं च पुनरेषामात्मा लोकश्चाहेतुसमुत्पन्न इत्येवं मिथ्यादृष्टिर्भवति ।
पूर्वकृतं कुशलसास्रवमकुशलं वा न हेतुरात्मनो लोकस्येत्येवमपवदति । इति
कामधातुवीतरागाणां तेषां रूपावचर्यंस्ता दृष्टयो भविष्यन्तीति वचनावकाशं
मत्वाऽऽह—न च रूपावचराणां क्लेशानां कामधातुरालम्बनं वीतरागत्वार्दिति ।
नैताः कामावचर्यो दृष्टयः, मिथ्याज्ञानानि पुनरेतानि इति केचिन परिहरन्ति,
तदेषामयुक्तम्; तद्दृष्टिरूपत्वात् ।
एव ता अप्रहीणा इति । दृष्ट्युत्पादसमकालं ते परिहीणा देवदत्त इवेति
वैभाषिकाः ॥ ६ ॥
दृष्टयः पञ्च नामतो निर्दिष्टाः, न तु स्वभावतः, तत् कस्तासां स्वभावः ?
आत्मात्मीयध्रुवोच्छेदनास्तिहीनाग्रदृष्टयः ।
अहेत्वमार्गे तद्दृष्टिरेतास्ताः पञ्च दृष्टयः ॥ ७ ॥
१. आत्मदृष्टिरात्मीयदृष्टिर्वा सत्कायदृष्टिः । सीदतीति सत् । चयः कायः
संघातः, स्कन्ध इत्यर्थः । सच्चासं कायश्चेति सत्कायः=पञ्चोपादानस्कन्धाः ।
नित्यसंज्ञां पिण्डसंज्ञां च त्याजयितुमेवं द्योतिता । एतत्पूर्वको हि तेष्वात्मग्रहः ।
सत्काये दृष्टिः सत्कायदृष्टिः । सर्वैव सास्रवालम्बना दृष्टिः सत्काये । आत्मा-
त्मीयदृष्टिरेव तु सत्कायदृष्टिरुक्ता । यथा गम्येत सत्कायदृष्टिरियं नात्मनि
नात्मीये वेति । यथोक्तम्—"ये केचिद् भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति
समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धान्" ( ) इति ।
२. तस्यैवात्माभिमतस्य वस्तुनो ध्रुवदृष्टिरुच्छेददृष्टिर्वा अन्तग्राहदृष्टिः,
शाश्वतोच्छेदान्तग्रहणात् ।
३. सति दुःखादिसत्ये नास्तीति दृष्टिर्मिथ्यादृष्टिः । सर्वैव हि विपरीतस्व-
भावप्रवृत्ता दृष्टिर्मिथ्यादृष्टिः एकैव तूक्ता; अतिशयवत्त्वात् दुर्गन्धक्षतवत् । एषा
ह्यपवादिका, अन्यास्तु समारोपिकाः ।
परिहीणाः । (कथं तर्हि वीतरागाणां कामाालम्बनदृष्टिसमुदाचार इत्याह—
दृष्ट्युत्पादेत्यादि ।) देवदत्त इवेति वैभाषिकः । यथा देवदत्तो भगवतोऽल्पोत्-
सुकविहारिताशयस्य भिक्षुसङ्घपरिकर्षणाय पापकेच्छासमुत्पादादृद्धेः परिहीणः;
सूत्रे वचनात् । एवं हि सूत्रे पठ्यते—'अथ देवदत्तस्य लाभसत्कारेणाभि-
भूतस्य इदमेवंरूपं पापकमित्छागतमुत्पन्नम्—अहो बत मे भगवान् भिक्षुसङ्घं
प्रतिनिःसृजेत् , अहं भिक्षुसङ्घं परिकर्षयन्...भगवानल्पोत्सुको विहरेत् दृष्टधर्म-
सुखविहारयोगमनुयुक्तः । सहाचित्तोत्पादाद् देवदत्तस्तस्या ऋद्धेः परिहीण इति
विस्तरः । एवं तेऽपि दृष्ट्युत्पादसमकालं परिहीणा इति ॥ ६ ॥
एतत्पूर्वको हि तेष्वात्मग्राह इति । नित्यपिण्डसंज्ञापूर्वकः । सर्वैवेति ।
पञ्चप्रकारापि । सत्काय इति । पञ्चसूपादानस्कन्धेषु । सर्वैव हि विपरीतदृष्टि-
स्वभावप्रवृत्ता दृष्टिर्मिथ्यादृष्टिः सत्कायदृष्ट्यादिका ; मिथ्योपनिध्यानात् !