सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 799, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 799

चत्वारो भावनाप्रहातव्याः। दुःखे च संज्ञाचित्तविपर्यासावशुचौ चेति
निकायान्तरीयाः। इतरथा हि कथमन्तरेण सुखशुचिसंज्ञामवीतरागस्यार्यस्य
कामरागः सम्भवेदिति।
तदेतन्नेच्छन्ति वैभाषिकाः। यदि हि सुखशुचिसंज्ञाचित्तसमुदा-
चारादार्यस्य तद्विपर्यासावीक्ष्यते, सत्त्वसंज्ञाचित्तसमुदाचारात् तद्विपर्यासावपि किं
नेष्येते ! न हि स्त्रियामात्मनि च विना सत्त्वसंज्ञया कामरागो युक्त इति।
सूत्रेऽपि चोक्तम्—"यतश्च श्रुतवानार्यश्रावक इदं दुःखमार्यसत्यमिति
यथाभूतं प्रजानाति। यावत् तस्य तस्मिन् समये योऽनित्ये नित्यमिति संज्ञा-
विपर्यासः चित्तविपर्यासो दृष्टिविपर्यासः स प्रहीयते" इति ( ) विस्तरः।
तस्माद् दृष्टिसमुत्थे एव संज्ञाचित्ते विपर्यासौ, नान्ये; तत्कालभ्रान्तिमात्रत्वाद-
लातचक्र-चित्रयक्षभ्रान्तिवत्।
इति। चत्वारो भावनाप्रहातव्याः। कथम्? इत्याह—दुःखे च संज्ञाचित्तविपर्या-
सावशुचौ चेति। दुःखे सुखमिति संज्ञाचित्तविपर्यासौ द्वौ। अशुचौ शुचीति
संज्ञाचित्तविपर्यासावपरौ द्वाविति चत्वारः। अवीतरागस्यार्यस्येति। स्रोत-
आपन्नस्य सकृदागामिनश्च।
तद्विपर्यासाविति। सत्त्वसंज्ञासमुदाचारात्, सत्त्वचित्तसमुदाचाराच्च।
तद्विपर्यासावपि किं नेष्येते इति। सत्त्वालम्बनसंज्ञाचित्तविपर्यासावपि किं
नेष्येते। आत्मविपर्यासावपि किं नेष्येते इत्यभिप्रायः। किं कारणम्? इत्याह--
नहि स्त्रियामात्मनि च विना सत्त्वसंज्ञया कामरागो युक्त इति। तस्मादेतावप्य-
नात्मनि आत्मेति संज्ञाचित्तविपर्यासौ भावनाप्रहातव्याविति प्राप्तम्। विस्तर
इति वचनादेवं नेयम्—दुःखे सुखमिति अशुचौ शुचीति यावदनात्मन्यात्मेति
संज्ञाविपर्यासः, चित्तविपर्यासः, दृष्टिविपर्यासः प्रहीयत इति। तस्माद् दृष्टि-
समुत्थे एव दृष्टिसम्प्रयुक्तक एव संज्ञाचित्ते विपर्यासौ, नान्ये। नादृष्टिसम्प्रयुक्तके
इत्यर्थः। एतदुक्तं भवति—अस्त्यसौ संज्ञाचित्तविभ्रमः, न तु विपर्यासः;
यस्मादसौ दृष्टिसमुत्थो न भवति। कस्माद्? इत्याह—तत्कालभ्रान्तिमात्रत्वा-
दिति। स्त्रीदर्शनकाले भ्रान्तिमात्रत्वादित्यभिप्रायः। यस्मात् तत्कालमेव
दर्शनकालमेवार्याणां भ्रान्तिः। तथा मिथ्याज्ञानं भवति। अलातचक्र-चित्रयक्ष-
भ्रान्तिवत्। यथा अलात आशु भ्रम्यमाणे तत्कालमात्रं चक्रमिति भ्रान्तिरुत्पद्यते,
न पश्चात्। चित्रलिखितं च यक्षं दृष्ट्वा तत्कालं भ्रान्तिरुत्पद्यते—यक्ष इति।