सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

“न ते कामा यानि चित्राणि लोके संकल्परागः पुरुषस्य कामः ।
तिष्ठन्ति चित्राणि तथैव लोके अथात्र धीरा विनयन्ति कामम्” ॥
( )
इति गाथाभिधानात् ।
आजीवक आर्यशारिपुत्रं प्रत्याह--
“न ते कामा यानि चित्राणि लोके संकल्परागं वदसीह कामम् ।
भिक्षुर्भविष्यत्यपि कामभोगी संकल्पयन् सोऽकुशलान् वितर्कान्” ॥
( )
आर्यशारिपुत्र आह--
“ते चेत् कामा यानि चित्राणि लोके सङ्कल्परागो यदि ते न कामः ।
शास्ताऽपि ते भविता कामभोगी दृष्ट्वैव रूपाणि मनोरमाणि” ॥
किं पुनर्यै केचन धर्माः कामरूपारूप्यधातुषु समुदाचरन्ति, सर्वे ते
कामरूपारूप्यप्रतिसंयुक्ताः ? नेत्याह । किं तर्हि ? येषु कामरूपारूप्यरागा
कथमेवं गम्यत इति ? स्थविरशारिपुत्रभाषितया गाथया तमर्थं दर्शयति-
“न ते कामा यानीति” इति विस्तरः । आजीवकेन यदुक्तं गाथान्तरेण “भिक्षो
कामवितर्कं विकल्पयनः कामभोगित्वम्” इति, तदभ्युपगतं स्थविरेण । त्रिविधो
हि कामोपभोगः--कायेन, वाचा, मनसा च । तत्रावीतरागो मनसा कामोप-
भोगित्वेऽपि सति नाभिक्षुर्भवति । केवलं त्वस्य शीलमपरिशुद्धं वर्त्तते ।
यस्तु कायेन वाचा ताथागतीं शिक्षापदलेखां लङ्घयित्वा कामान् परिभुंक्ते,
स कामोपभोग्यभिक्षुर्भवतीति । तस्मात् स दोषान्तरमाह--
“ते चेत् कामाः” इति विस्तरः । यदि तव ‘चित्राः’ रूपादयो विषयाः
‘कामाः’ इति पक्षः, ‘शास्ता ते अवीतरागः’ इत्यभ्युपगतः । तेन ‘शास्तापि
ते भविता’ भविष्यति । ‘कामभोगी दृष्ट्वैव रूपाणि मनोरमाणि’ कायेनाप्युप-
भुंजानोऽपि तान् विषयान् इति प्रसक्तम् । न चैवमिष्यते, तस्मात् ‘सङ्कल्प-
रागः पुरुषस्य कामः’ इति सिद्धम् ।
केचनेति । केचिदित्यर्थः । नेत्याहेति । प्रतिषेधयति । यस्माद् धात्वन्तर-
धर्माः धात्वन्तरे समुदाचरन्त्यधातुपतिताश्च । कामधातौ हि त्रैधातुकानास्स्रवा
धर्माः समुदाचरन्ति, एवं रूपधातौ कामावचरं हि निर्माणचित्तं तत्र समुदा-
चरति, आरूप्यधातावारूप्यावचरा अनास्रवाश्च । तस्मात् प्रतिषेधयति--

अनुशेरते । के पुनरमी कामरूपारूप्यरागाः ? ये कामरूपारूप्यधातुष्वनुशेरते ।
इदमिदानीं तदश्वबन्धीयम्-- कस्यायमश्वबन्धः ? यस्यायमश्वः, कस्याय-
मश्वः ? यस्यायमश्वबन्धः-- इत्युभयमपि न ज्ञायते ?
नेदमश्वबन्धीयम् ; कृतनिर्देशानि हि स्थानानि कामधातौ, तेष्ववीत-
रागस्य यो रागः स कामरागः । यत्रानुशेते सोऽपि धर्मः कामप्रतिसंयुक्तः ।
एवं रूपारूप्यरागावधोवीतरागस्य यथायोगं वेदितव्यौ ।
असमाहितभूमिको वा रागः कामरागः । ध्यानारूप्येषु रागो रूपारूप्यरागः ।
नेति । किं तर्हि ? येषु कामरूपारूप्यरागा अनुशेरते । येषु कामरागोऽनुशेते
आलम्बनतः संप्रयोगतो वा यथासम्भवम्, ते कामप्रतिसंयुक्ताः । येषु रूपारूप्य-
रागावनुशयाते ते यथाक्रमं रूपारूप्यप्रतिसंयुक्ता इति । इदमिदानीं तदश्वबन्धीय-
मिति । १अश्वश्चाश्वबन्धश्चाश्वबन्धम्, अश्वबन्धमिवाश्वबन्धीयम् । अथवा-- अश्व-
बन्धस्येदमश्वबन्धीयमिति । कस्यायमश्वबन्ध इति कश्चित् पृच्छति । तस्येतरः
कथयति-- यस्यायमश्व इति । स पुनः पृच्छति-- कस्यायमश्व इति । इतर
पुनः कथयति-- यस्यायमश्वबन्ध इति । उभयमपि न ज्ञायते । अश्वबन्धः, अश्व
इति च । यथेदमुभयमसिद्धेनान्योन्येन न परिच्छिद्यते, तथेहापि न रागैर्धातवः
साध्यन्ते, धातुभिश्च रागा इत्युभयमप्येतन्न सिध्यति ।
कृतनिर्देशानि हि स्थानानि कामधाताविति ।
नरकप्रेततिर्यञ्चो मनुष्याः षड्दिवौकसः ।
कामधातुः स नरकद्वीपभेदेन विंशतिः ॥ ( अभि० ३.१ )
इति कामधातौ कृतनिर्देशानि स्थानानि ।
तेषु स्थानेष्ववीतरागस्य यो रागः स कामराग इति । एवं रूपारूप्य-
रागाविति । कृतनिर्देशानि हि स्थानानि, कामधातोः “ऊर्ध्वं सप्तदशस्थानो रूप-
धातुः” ( अभि० ३.२ ) इति । तेष्ववीतरागस्य यो रागः स रूपरागः । तथा
कृतनिर्देशोपपत्तिरारूप्यधातोः-- “आरूप्यधातुरस्थान उपपत्त्या चतुर्विधः”
( अभि० को० ३.२ ) इति । तेषु वीतरागस्य यो रागः स आरूप्यराग इति ।
यथायोगमिति । स्थाननिर्देशापेक्षम् ।
ध्यानारूप्येषु राग इति । समापत्ति-उपपत्तिध्यानेषु रागो रूपरागः ।
एवमारूप्यरागः ।
१. ०दमश्वबन्धीयमश्वबन्धीयमिति मुद्रितः पाठः ।

३८८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
निर्माणचित्ते कथं कामरागः ? श्रुत्वा परिहाय च तदास्वादनात् । निर्माण-
वशेन वा निर्माणकचित्तोऽपि^१ रागः । गन्धरसनिर्माणान् वा तस्य कामा-
वचरत्वम्; रूपावचरेण तयोर्निर्माणात् ।
किं पुनरेकमेव त्रैधातुकम् ? त्रैधातुकानामान्तो नास्ति। यावदाकाशं तावन्तो
धातवः । अत एव च नास्त्यपूर्वसत्त्वप्रादुर्भावः । प्रतिबुद्धोत्पादं चासंख्येय-
सत्त्वपरिनिर्वाणेऽपि नास्ति सत्त्वानां परिक्षयः, आकाशवत् ।
कथमवस्थानं लोकधातूनाम् ?
तिर्यक्सूत्र उक्तम्, तद्यथा—“ईषाधारे देवे वर्षति नास्ति वीचिर्वा
अन्तरिका वा अन्तरिक्षाद्^२ वारिधाराणां प्रपतन्तीनाम्; एवं पूर्वस्यां दिशि नास्ति
वीचिर्वा अन्तरिका वा लोकधातूनां संवर्तमानानां विवर्तमानानां च । यथा
पूर्वस्यां दिशि, एवं दक्षिणस्याम्, पश्चिमायाम्, उत्तरस्याम्” ( ) इति ।
निर्माणचित्ते कथं कामराग इति । कामावचरे निर्माणचित्ते ध्यानफले
कथं कामवीतरागाणां कामरागः, यतस्तस्य न कामावचरत्वम्; यदा
ह्यसाववीतरागस्तदा निर्माणचित्तं न समुदाचरन्ति, यदा निर्माणचित्तं
समुदाचरति तदा न तस्य राग उत्पद्यते, कथमस्य कामरागेण विना कामा-
वचरत्वं व्यवस्थाप्यत इत्यर्थः । श्रुत्वा परिहाय च तदास्वादनादिति । श्रुत्वा
तत्परतो निर्माणचित्तेऽस्य राग उत्पद्यते, परिहाय वा आत्मीयान्निर्माण-
चित्तात्, तस्यास्वादनादिति । एवं ध्यायिनः कामावचरेण निर्माणचित्तेन
कामावचरं निर्माणं निर्मिण्वन्तीति श्रुत्वा तदालम्बनो राग उत्पद्यते । अनुस्मृत्य
चात्मीयं तत्र राग उत्पद्यते । निर्माणवशेनेति । मनोहरं निर्माणं दृष्ट्वा निर्माणके
चित्ते निर्माणकस्य वा चित्ते रागः, दर्शयतीत्यं निर्माणचित्तं यस्येदृशं निर्माण-
मिति । गन्धरसनिर्माणाद्वेति । यत् कामावचरनिर्माणनिर्माणकं कामावचरं
तच्चित्तम्; कामावचरधर्महेतुत्वाद्, घटहेतुचित्तवत् । यत्तु न कामावचरं
न तत् कामावचरधर्महेतुः, तद्यथा रूपावचरं चित्तम् । अत एवाह—रूपावचरेण
तयोर्निर्माणादिति । कस्मात् पुना रूपावचरेण चित्तेन तयोर्गन्धरसयोर-
निर्माणम् ? तयोर्गन्धरसयोः कवड्डीकाराहारस्वभावत्वात् । रूपधातूपपन्नं च
तद्वीतरागत्वादिति ।
ईषाधार इति । ईषाप्रमाणवर्षधारः । नास्ति वीचिर्वा अन्तरिका वेति ।
१. निर्माणक०—का० । २. अन्तरिक्षाद्—का० ।

निर्देशः ] तृतीयं कोशस्थानम् ३८९
न तूक्तम्—ऊर्ध्वमधश्चेति ।
ऊर्ध्वमप्यधोऽपीत्यपरे; निकायान्तरपाठाद् । अकनिष्ठादूर्ध्वं पुनः
कामधातुः । कामधातोश्चाधः पुनरकनिष्ठाः । यश्चैकस्मात् कामधातोर्वीतरागः
स सर्वेभ्यः । एवं रूपारूप्येभ्यः ।
यश्च प्रथमध्यानसंनिश्रयाद्धि उत्पादयति, स यत्र लोकधातौ जात उत्पादयति
तत्रत्यमेव ब्रह्मलोकमुपागच्छति, नान्यम् ॥ ३ ॥
य एते त्रयो धातव उक्ताः—
नरकादिस्वनामोक्ता गतयः पञ्च तेषु,
नरकाः, तिर्यञ्चः, प्रेताः, देवाः, मनुष्याः—इति स्वैरेव नामभिस्तेषु पञ्च
गतयः प्रोक्ताः । कामधातौ चतस्रो गतयः, पञ्चम्याश्च प्रदेशः । रूपारूप्य-
धात्वोरेकस्या देवगतेः प्रदेशः ।
किं पुनर्गतिनिर्मुक्ताः सन्ति धातवो यत एता धातुष्वित्युच्यन्ते ? सन्ति
कुशलक्लिष्टभाजनान्तराभवस्वभावा अपि धातवः ।
यास्तु पञ्च गतयः—
ताः।
अक्लिष्टाव्याकृता एव सत्त्वाख्या नान्तराभवः ॥ ४ ॥
अनिवृताव्याकृता एव गतयः । अन्यथा हि गतिसम्भेदः स्यात् ।
नैरन्तर्यं दर्शयति— न तूक्तमूर्ध्वमधश्चेति । अतो लोकधातूनां तिर्यगेवास्थानमिति
दर्शयति ॥ ३ ॥
पञ्चम्याश्च प्रदेश इति । देवगतेः षट् कामावचरा देवा उक्ताः । शेषा
रूपारूप्यावचराः ।
अन्यथा हि गतिसम्भेदः स्यादिति । गतिमिश्रिता । यदि कुशलक्लिष्टा
अपि स्युर्गतिसम्भेदः स्यात् । मनुष्यो नरकसंवर्तनीयं कर्म करोति, यावद्
देवोपपत्तिसंवर्तनीयम्—इत्यतो मनुष्यगतिर्नरकगतिरपि स्यात्, यावद् देव-
गतिरपि; तेषां कर्मणां तद्गतिपर्यापन्नत्वात् । कामधातूपपन्नश्चोर्ध्वभूमिकैः क्लेशैः
समन्वागतः कामावचरेण च सार्वगतिकेन क्लिष्टेन समन्वागत इति स एव
मनुष्यो नारको यावद् देव इति स्यात् ।

सत्त्वाख्या एव च, न चान्तराभवस्वभावाः । प्रज्ञप्त्युक्तम्—"चतसृ-
भिर्योनिभिः पञ्च गतयः संगृहीताः, न तु पञ्चाभिर्गतिभिश्चतस्रो योनयः । किम-
संगृहीतम् ? अन्तराभवः" ( ) इति ।
धर्मस्कन्धेऽपि चोक्तम्—"चक्षुर्धातुः कतमः ? चत्वारि महाभूतान्यु-
पादाय यो रूपप्रसादश्चक्षुश्चक्षुरिन्द्रियं चक्षुरायतनं चक्षुर्धातुर्नारकस्तैर्यग्योनिकः
पैतृविषयको देव्यो मानुष्यको भावनामयोऽन्तराभविकश्च" ( ) इति ।
सूत्रेऽपि च बहिष्कृतोऽन्तराभवो गतिभ्यः । कस्मिन् सूत्रे ? "सप्त
भवाः—नरकभवस्तिर्यग्भवः प्रेतभवो देवभवो मनुष्यभवः कर्मभवोऽन्तराभवः"
( ) इति । अत्र हि पञ्च गतयः सहेतुकाः सगमनाश्चोक्ताः¹ । अत एव
चानिवृताव्याकृताः सिध्यन्ति; तद्धेतोः कर्मभवस्य ताभ्यो बहिष्करणात् ।
काश्मीरकाश्च² सूत्रं पठन्ति—"स्थविरशारिपुत्रेणोक्तम्—नारका-
णामायुष्मन्नास्रवाणां सम्मुखीभावान्नारकवेदनीयानि कर्माणि करोत्युपचि-
नोति । तेषामायुष्मन् कायवाङ्मनोवङ्कानां कायवाङ्मनोदोषकषायाणां नरकेषु
रूपं संज्ञा वेदना संस्कारो विज्ञानं विपाको विपच्यते । निर्वृत्ते विपाके
नारक इति संख्यां गच्छति । तत्रायुष्मन् नारको नोपलभ्यते, अन्यत्र तेभ्यो
धर्मेभ्यः" इति । अतोऽप्यनिवृताव्याकृता एव गतयः ।
सत्त्वाख्या एवेति । कर्मानुरूपेणात्मभावतस्तद्गमनात् । अत एवोक्तम्—
"यथाकर्म गमिष्यन्ति पुण्यपापफलोपगाः" ( ) इति । न भाजन-
स्वभावा इति ।
न चान्तराभवस्वभावा इति । अस्य प्रतिपादनार्थं ज्ञापकमानयन्ति ।
प्रज्ञप्तिसूक्तमिति विस्तरः ।
सहेतुकाः सगमना इति । हेतुः कर्मभवः, गमनमन्तराभवः, गम्यतेऽनेनेति
कृत्वा । गतिस्तु गम्यत इति गतिः । तद्धेतोः कर्मभवस्य ताभ्यो बहिष्करणात् ।
कुशलाकुशलस्य कर्मभवस्य ताभ्यो गतिभ्यो बहिष्करणात् ।
कश्मीरे भवाः काश्मीरकाश्च सूत्रं पठन्तीति । मुक्तकं तत्सूत्रं त एव पठन्ति,
नान्ये इत्यभिप्रायः । नारकाणामिति विस्तरः । नरकानुकूला नारकाः,
तेषामिति विस्तरः। कायवाङ्मनोवङ्कानां शाठ्यसमुत्थितानां कर्मणां दोषकषायाणां
१. सहागमनाः--का० । २ काश्मीराश्च--का० ।

निर्देशः ] तृतीयं कोशस्थानम् ३९१
प्रकरणग्रन्थस्तर्हि परिहार्यः—"गतिषु सर्वेऽनुशया अनुशेरते” इति ?
सन्धिचित्तानि¹ हि गतीनां पञ्चप्रकाराणि सन्ति, अतः सप्रवेशगतिमहणाददोष
एव ग्रामग्रहणे ग्रामोपविचारग्रहणवत्² ।
कुशलक्लिष्टा अपीत्यपरे ।
यत्तूक्तम्—"कर्मभवस्य ताभ्यो बहिष्करणात्” ( ) इति ?
नावश्यं पृथग्वचनाद् बहिष्कृतो भवति । तद्यथा—पञ्चसु कषायेषु
क्लेशदृष्टिकषायौ पृथगुक्तौ, न च दृष्टयो न क्लेशाः । एवं कर्मभवोऽपि गतिश्च
स्यात् । पृथक् चास्य वचनं स्याद् गतिहेतुज्ञापनार्थम् ।
अन्तराभवेऽप्येष प्रसङ्गः ? नायोगात् । गच्छन्ति तामिति गतिः ।
न चान्तराभवो मन्तव्यः, च्युतिदेश एवोत्पादनात् ।
द्वेषरागसमुत्थितानाम् । अतोऽप्यनिवृताव्याकृता एव गतय इति । यस्मादुक्तम्—
'निर्वृत्ते विपाके नारक इति संख्यां गच्छति' इति ।
गतिषु सर्वेऽनुशया अनुशेरत इति प्रकरणग्रन्थः परिहार्यः । वक्तव्यः परिहार
इत्यर्थः; विरोधप्रसङ्गात् । यदि हि पञ्चप्रकारा धर्माः गतिस्वभावा भवेयुः,
सर्वेऽनुशया अनुशीयुरन् । यदि त्वव्याकृता एव गतयः स्युः, एवं वक्तव्यं स्यात्—
भावना प्रहातव्याः सर्वत्रगाश्चेति । अनिवृताव्याकृता हि संस्कृता धर्मा
भावनाप्रहातव्या एव । तेषु च भावनाप्रहातव्या एव सर्वत्रगाश्चानुशया
अनुशेरते आलम्बनतः प्रयोगतो वा, नान्ये । तेन ज्ञायते—नानिवृताव्याकृता
एव गतय इति । सन्धिचित्तानि हि गतीनां पञ्चप्रकाराणीति । सन्धिचित्तानि
गतीनां प्रवेशाः; तेषां पञ्चप्रकारत्वात् । दुःखदर्शनप्रहातव्यं यावद् भावना-
प्रहातव्यमिति । तत्र सर्वेऽनुशया अनुशेरत इति युक्तम् । ग्रामोपविचारग्रहण-
वदिति । ग्रामपरिसामन्तकग्रहणवदित्यर्थः¹ ।
पञ्चसु कषायेष्विति । पञ्चकषायाः—आयुःकषायः, क्लेशकषायः, दृष्टिकषायः,
कल्पकषायः, सत्त्वकषायश्च, तेषु । क्लेशदृष्टिकषायौ पृथगुक्तौ । क्लेशकषायाद्
दृष्टिकषायः पृथगुक्त इत्यर्थः । अनयो पृथग्वचनं गृहस्थप्रव्रजितपक्षाधिकारात् ।
गतिहेतुज्ञापनार्थमिति । गतीनां कर्मोद्भवो हेतुरिति ।
अन्तराभवेऽप्येष प्रसङ्ग इति । एवमन्तराभवोऽपि गतिश्च स्यात् । पृथक्
चास्य वचनं स्यात्—गतिगमनज्ञापनार्थमिति । गच्छन्ति तामिति । कर्मसाधन-
परिग्रहः । न चान्तराभव एवं युज्यत इति न गतिः ।
१. प्रतिसन्धि०—का० । २. ग्रामोपचार०--का० ।

३९२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
आरूप्या अपि गतिर्न भविष्यन्ति; च्युतिदेश एवोत्पादात् ? एवं
तर्ह्यन्तराभवत्वादेवान्तराभवो न गतिः; गत्यन्तरालत्वात् । यदि हि गतिः
स्याद्, अन्तराभव इत्येव न स्यात् ।
यत्तर्हि स्थविरशारिपुत्रेणोक्तम्—“निर्वृत्ते विपाके नारक इति संख्यां
गच्छति” इति ? निर्वृत्ते विपाक इत्युक्तम्, न तु^१ विपाक एवेति ।
यत्त्वर्हदुक्तम्—“तत्रायुष्मन्नारको नोपलभ्यतेऽन्यत्र तेभ्यो धर्मेभ्यः” इति ?
गतिगामिनः पुद्गलद्रव्यस्य प्रतिषेधं करोति—नान्यत्र स्कन्धेभ्य उपलभ्यते नारक
इति, न तु स्कन्धान्तरप्रतिषेधम् ।
अव्याकृता एव तु गतयो वर्ण्यन्ते वैभाषिकैः । ताश्च विपाकस्वभावा
एवेत्येके । औपचयिकस्वभावा अपीत्यपरे ॥ ४ ॥
अत्रैव पञ्चगतिके धातुत्रये यथाक्रमं वेदितव्याः—
नानात्वकायसंज्ञाश्च नानाकायैकसंज्ञिनः ।
विपर्ययाच्चैककायसंज्ञाश्चारूपिणस्त्रयः ॥ ५ ॥
आरूप्या अपीति । विस्तरः आरूप्या न गतिः स्युः; च्युतिदेश एवोत्पा-
दात् । आरूप्यगा हि यत्र च्यवन्ते—विहारे वा वृक्षमूले वा यावच्चतुर्थ्यां ध्यान-
भूमौ, तत्रैवोत्पद्यन्त इति । अन्तराभववन्न गतिः स्यात् । एवं तर्हीति । पूर्व-
पक्षं परित्यज्य पक्षान्तरमाश्रीयते । गत्योरन्तरा अन्तराले भवतीति अन्तराभव
इत्यन्वर्थसंज्ञाकरणाद्वान्तराभवो गतिरिति ।
वैभाषिका आहुः—यत्तर्हीति । विस्तरः—निर्वृत्ते विपाक इति । विपाक-
शब्दवचनाद्विपाकस्वभावा गतिरिति तदभिप्रायः । इतर आह—निर्वृत्ते विपाके
नारक इति नारको व्यवस्थाप्यते । न तूक्तं विपाक एवेति । न तूक्तं विपाक-
स्वभावैव गतिरिति । किं तर्हि ? विपाकाविपाकस्वभावा गतिः । तस्मात्
कुशलक्लिष्टा अपि गतयो भवन्तीत्यभिप्रायः । वैभाषिकः पुनराह—यत्तर्ह्युक्तं
तत्रेति विस्तरः । अन्यत्र तेभ्यो धर्मेभ्य इति । विपाकजेभ्यः । न तु स्कन्धान्तर-
प्रतिषेधम् । करोतीत्यधिकृतम् । ताश्चेति विस्तरः । अव्याकृतत्वपक्षेऽपि द्वैविध्यम् ।
औपचयिकस्वभावा अपीति । अपिशब्दाद्विपाकस्वभावा अपीति । यथोक्तम्—
“विपाको जीवितं द्वेधा द्वादश” ( अभि० २।१० ) इति । नैष्यन्दिकास्तु
न गृह्यन्ते । विपाकस्वभावा एवेत्याचार्यसङ्घभद्रः पूर्वमेव पक्षमिच्छति ॥ ४ ॥
१. तूक्तम्—का० ।

निर्देशः ] तृतीयं कोशस्थानम् ३९३
विज्ञानस्थितयः सप्त,
सूत्रे उक्तम्—“रूपिणः सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनः, तद्यथा
मनुष्यास्तदेकत्याश्च देवाः । इयं प्रथमा विज्ञानस्थितिः । कतमे पुनस्ते
तदेकत्या देवाः ? कामावचराः षट् प्रथमध्यानिकाश्च¹ प्रथमाभिनिर्वृत्तवर्ज्याः” ।
नानात्वेन काय एषामिति नानात्वकायाः, अनेकवर्णलिङ्गसंस्थानत्वात् । नानात्वेन
संज्ञा नानात्वसंज्ञा, सैषामस्तीति नानात्वसंज्ञिनः; सुखदुःखादुःखासुखसंज्ञित्वात् ।
“रूपिणः सन्ति नानात्वकाया एकत्वसंज्ञिनः, तद्यथा—देवा ब्रह्म-
कायिका ये तत्प्रथमाभिनिर्वृत्ताः । इयं द्वितीया विज्ञानस्थितिः ।”
ते हि प्रथमाभिनिर्वृत्ताः सर्व एकैकसंज्ञिनो भवन्ति—‘अनेन वयं ब्रह्मणा
सृष्टाः’ इति, ब्रह्मणोऽप्येवं भवति—‘मयैते सृष्टाः’ इत्यभिन्नकारणसंज्ञानादेकत्व-
संज्ञिनः । अन्यथैव तु महाब्रह्मण आरोहपरिणाहौ², आकृतिविग्रहः, वाग्भाषा,
चीवरधारणं च; अन्यथा तत्पर्षद इति नानात्वकायाः ।
यदिदमुक्तं सूत्रे—‘तेषामेवं भवति—इमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं
दीर्घमध्वानं तिष्ठन्तं यावदहो बतान्येऽपि सत्त्वा इहोपपद्येरन्मम सभागतायामिति ।
अस्य च सत्त्वस्यैवं चेतः प्रणिधिर्वयं चोपपन्नाः³” इति ।
कथं तमद्राक्षुः ? आभास्वरस्था इत्येके ।
ततो हि ते प्रच्युताः कथमिदानीमलब्धायां द्वितीयध्यानसमापत्तौ तद्भूमिकां


कामावचराः षट् प्रथमध्यानिकाश्च । कतमे ते ? वहिर्देशकनयेन ब्रह्मकायिकाः
ब्रह्मपुरोहिता महाब्रह्माणश्च प्रथमाभिनिवृत्तवर्ज्याः । काश्मीरनयेन पुनर्ब्रह्म-
कायिका ब्रह्मपुरोहिताश्च प्रथमाभिनिवृत्तवर्ज्याः । ब्रह्मपुरोहितेष्वेव हि तेषां
नयेन महाब्रह्माणो न स्थानान्तरनयाः । अनेकवर्णलिङ्गसंस्थानत्वादिति । वर्णो
नीलत्वादिः, लिङ्गम् वस्त्राभरणादि, संस्थानं दैर्ध्यादि । आरोह उच्चतता,
परिणाहस्तिर्यक्प्रमाणम् । आकृतिविग्रहः । आकृतिलक्षणो विग्रह आकृति-
विग्रहः । एवं विशेषिते वेदनादीनां विग्रहः पर्युदस्तो भवति; नासावाकृति-
लक्षण इति । विग्रहः पुनः शरीरम् । वाग्भाषा वागुच्चारणम् ।
कथमिदानीमिति विस्तरः । प्रथमध्यानप्रत्यागमनेन तद्द्वितीयं व्यक्तम् ।
तद्भूमिकां द्वितीयध्यानभूमिकम् । पूर्वनिवासं कथमन्वस्माषुः ? न तावत्
१. ॰ध्यानभूमिकाश्च—का० । २. आरोहपरिणाहः—का० ।
३. चेहोपन्नाः—का० ।

३९४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
पूर्वनिवासमन्वस्मार्षुः', लब्धायां च^२ कथं महाब्रह्मालम्बनां शीलव्रतपरामर्शदृष्टिं
निविष्टाः ?
अन्तराभवस्था अद्राक्षुरित्यपरे ।
तत्रापि न दीर्घमध्वानमवस्थातुं सम्भवः; प्रतिबन्धाभावादिति ।
कथं तेषामियं^३ बुद्धिर्भवति स्म—"इमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं
दीर्घमध्वानं तिष्ठन्तम्” इति ?
तस्मात्तत्रस्था एव ते तस्य पूर्ववृत्तान्तं समनुस्मरन्त एव दीर्घमध्वानं
तिष्ठन्तं दृष्टवन्तः, दृष्ट्वा च पश्चाद् 'अद्राक्ष्म' इत्येषां बभूव ।
“रूपिणः सन्ति सत्त्वा एकत्वकाया नानात्वसंज्ञिनः, तद्यथा देवा आभास्वराः ।
इयं तृतीया विज्ञानास्थितिः ।”
प्रथमध्यानभूमिकेन चित्तेन, तदविषयत्वात् । न द्वितीयध्यानभूमिकेन, तस्या-
लब्धत्वात् । पुनर्लब्धमिति चेत् ? अत आह—लब्धायां चेति विस्तरः ।
शीलव्रतपरामर्शदृष्टिर्महाब्रह्मालम्बना प्रथमध्यानभूमिकेव युज्यते । सा च
द्वितीयध्यानलाभात् प्रहीणा न समुदाचरति । द्वितीय ध्यानभूमिकेति चेत् ? न;
अधरालम्बनत्वायोगात् । न ह्यधरभूम्यालम्बनः कश्चिदपि क्लेश इष्यते ।
अन्तराभवस्था अद्राक्षुरिति । अन्तराभवस्थास्ते तं महाब्रह्माणं दृष्ट्वैवमृचुः-
इमं वयं सत्त्वमद्राक्ष्मेति । अयमपि पक्षो न घटते । तथा हि—तत्राप्यन्तराभावे
दीर्घमध्वानमवस्थातुं न सम्भवः, ह्युपपत्तौ प्रतिबन्धाभावात्, शुक्रशोणितानपेक्षत्वात् ।
तेषां कथं भवतीयं बुद्धिरिमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं दीर्घमध्वानं तिष्ठन्तमिति ।
दीर्घाध्वावस्थानावबोधो न प्राप्नोतीत्यर्थः ।
तस्मात्तत्रस्था एवेति विस्तरः । प्रथमध्यानभूमिष्ठा एव तस्य महाब्रह्मणः
पूर्ववृत्तान्तं समनुस्मरन्तः । उत्पद्यमानावस्थायामेव ते तं महाब्रह्माणं पूर्वोत्पन्नं
दीर्घमध्वानं तिष्ठन्तं दृष्टवन्तः, दृष्ट्वा च पश्चात् उत्तरकालमद्राक्ष्मेत्येषां बभूव ।
बुद्धिरिति वाक्यशेषः । एवं तु सतीदमपरिहृतं भवेत् । अस्य च सत्त्वस्यैवं चेतः-
प्रणिधिः—वयं चोपपन्ना इति । उपपत्तिप्रतिलम्भिकेन प्रथमध्यानभूमिकेन तस्य
महाब्रह्मण एवं चेतः प्रणिधिमन्वस्मार्षुः; समानभूमिकत्वादित्यदोष एव ।
उत्सत्काशं श्रवणाद्वा ।
. १. ०मास्माषुः—का० । २. वा—का० ।
३. मेवं—का० ।

निर्देशः ] तृतीयं कोशस्थानम् ३९५
अत्र पुनः पर्यन्तग्रहणात् सकलद्वितीयध्यानग्रहणं वेदितव्यम् । अन्यथा हि
परीत्ताभा अप्रमाणाभाश्च कस्यां विज्ञानस्थितौ व्यवस्थाप्येरन् !
तत्राभिन्नवर्णलिङ्गसंस्थानत्वादेकत्वकायाः । सुखसंज्ञित्वाददुःखासुखसंज्ञित्वाच्च
नानात्वसंज्ञिनः ।
ते किल मौल्यां भूमौ सौमनस्येन्द्रियपरिखिन्नाः सामन्तकादुपेक्षेन्द्रियं
सम्मुखीभवन्ति । सामन्तके चोपेक्षेन्द्रियपरिखिन्नाः पुनर्मौल्या भूमेः सौमनस्ये-
न्द्रियं सम्मुखीकुर्वन्ति । यथा—कामरतिपरिखिन्ना ईश्वरा धर्मरतिं प्रत्यनुभवन्ति,
धर्मरतिपरिखिन्नाः कामरतिमिति ।
ननु च शुभकृत्स्नेष्वप्येष प्रसङ्गः ? न तेषां तेन सुखेनास्ति परिखेदः ।
किं कारणम् ? शान्तं हि तत्सुखम्, अशान्तं च सौमनस्यम् ; चेतस उत्प्लावकत्वादिति
सौत्रान्तिका व्याचक्षते । सूत्र उक्तम्—"यथा ते नानात्वसंज्ञिनः । तत्र
ये सत्त्वा आभास्वरे देवनिकायेऽचिरोपपन्ना भवन्ति नैव संवर्तनीकुशलाः, अस्य
लोकस्य ते तामर्चिषं दृष्ट्वा भीताः सन्तः उद्विजन्ते, संवेगमापद्यन्ते—
सहैवैषाऽर्चिः शून्यं ब्राह्मं विमानं दग्ध्वाऽर्वागागमिष्यतीति । तत्र ये सत्त्वा
आभास्वरे देवनिकाये चिरोपपन्नाः संवर्तनीकुशला विवर्तनीकुशलाश्चास्य
लोकस्य, ते तान् सत्त्वान् भीतानाश्वासयन्ति—मा भैष्ट मार्षाः, मा भैष्ट मार्षाः,
पूर्वमप्येषाऽर्चिः शून्यं ब्राह्मं विमानं दग्ध्वाऽत्रैवान्तर्हिता" ( ) इति ।
अतोऽर्चिष आगमव्यपगमसंज्ञित्वाद्, भीताभीतसंज्ञित्वाच्च ते नानात्वसंज्ञिनः,
न सुखादुःखासुखसंज्ञित्वादिति ।
ननु च शुभकृत्स्नेष्वप्येष प्रसङ्गः । एकत्वकाया नानात्वसंज्ञिन इति । कथम् ?
यथोक्तम् । 'ते हि मौल्यां भूमौ सुखेन्द्रियपरिखिन्नाः सामन्तकोपेक्षेन्द्रियं सम्मुखी-
कुर्वन्ति' इति विस्तरेण वक्तव्यं स्यात् । ते चैकत्वकाया एकत्वसंज्ञिन इति पश्चाद्
वक्ष्यते। तेन सुखेनेति तृतीयध्यानभूमिकेन । चेतस उत्प्लावकत्वादिति । औद्धत्य-
करत्वात् । इन्द्रसुखेनेति । द्वितीयध्यान । अचिरोपप-
न्नानामागमसंज्ञित्वाच्चिरोपपन्नानां व्यपगमसंज्ञित्वात् । अथ वा—अचिरोपपन्ना-
नामागमसंज्ञित्वाच्चिरोपपन्नानामागमव्यपगमसंज्ञित्वात् । भीताभीतसंज्ञित्वात् ।
यथाक्रममचिरचिरोपपन्नत्वात् ते नानात्वसंज्ञिनो न सुखादुःखासुखसंज्ञित्वात्,
यथोक्तं वैभाषिकैरिति ।
अभि० को० २ : २

३९६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
"रूपिणः सन्ति सत्त्वा एकत्वकाया एकत्वसंज्ञिनः, तद्यथा-देवाः शुभ-
कृत्स्नाः । इयं चतुर्थी विज्ञानस्थितिः।"
तत्राभिन्नवर्णसंस्थानलिङ्गत्वादेकत्वकायाः । एकत्वसंज्ञिनः सुखसंज्ञित्वात् ।
तत्र प्रथमे ध्याने क्लिष्टया संज्ञया एकत्वसंज्ञिनः, द्वितीये कुशलया
संज्ञया नानात्वसंज्ञिनः, तृतीये विपाकजया संज्ञया एकत्वसंज्ञिनः ।
आरूप्यास्त्रयो यथासूत्रमिति । एताः सप्त विज्ञानस्थितयः ।
काऽत्र विज्ञानस्थितिः ? तत्प्रतिसंयुक्ताः पञ्च स्कन्धाश्चत्वारश्च
यथायोगम् ।
शेषं कस्मान्न विज्ञानस्थितिः ? यस्मात् -
शेषं तत्परिभेदवत् ।
किं पुनः शेषम् ? दुर्गतयः, चतुर्थं ध्यानम्, भवाग्रं च ।
अत्र हि विज्ञानपरिभेदाः सन्ति, अत एव न विज्ञानस्थितिः ।
कः पुनः परिभेदः, येन विज्ञानं परिभिद्यते ? तत्रापायेषु दुःखा वेदना,
प्रथमे ध्याने क्लिष्टया संज्ञयेति । शीलव्रतपरामर्शसम्प्रयुक्तया, अकारणे
कारणाभिनिविष्टत्वात् । द्वितीये कुशलया संज्ञयेति । सामन्तकभौलसंगृहीत-
त्वात् । तृतीये विपाकजया संज्ञयेति । विपाकजसुखसम्प्रयोगात् ।
आरूप्यास्त्रयो यथासूत्रमिति । "अरूपिणः सन्ति सत्त्वा ये सर्वशो रूपसंज्ञानां
समतिक्रमादनन्तमाकाशमित्याकाशानन्त्यायतनमुपसम्पद्य विहरन्ति, तद्यथा-
देवा आकाशानन्त्यायतनोपगाः । इयं पञ्चमी विज्ञानस्थितिः। अरूपिणः सन्ति
सत्त्वा ये सर्वश आकाशानन्त्यायतनं समतिक्रम्यानन्त्यं विज्ञानमिति विज्ञाना-
नन्त्यायतनमुपसम्पद्य विहरन्ति, तद्यथा-विज्ञानानन्त्यायतनोपगा देवाः । इयं
षष्ठी विज्ञानस्थितिः । अरूपिणः सन्ति सत्त्वा ये सर्वशो विज्ञानानन्त्यायतनं
समतिक्रम्य नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसम्पद्य विहरन्ति, तद्यथा-
आकिञ्चन्यायतनोपगाः देवाः । इयं सप्तमी विज्ञानस्थितिः" ( )
इति ।
पञ्चस्कन्धाश्चत्वारश्च यथायोगमिति । आकाशानन्त्यायतनादित्रयप्रतिसंयुक्ता-
श्चतुःस्कन्धाः, अन्यप्रतिसंयुक्ताः पञ्चस्कन्धाः ।
"शेषं तत्परिभेदवद्" इति । परिभिद्यतेऽनेनेति परिभेदः, तस्य विज्ञानस्य
परिभेदस्तत्परिभेदः, सोऽस्मिन् विद्यत इति तत्परिभेदवत् । शेषं दुर्गत्यादि ।

निर्देशः ] तृतीयं कोशस्थानम् ३९७

परिभेदः, उपघातकत्वात् । चतुर्थे ध्याने आसंज्ञिकमसंज्ञिसमापत्तिश्च । भवाग्रे
निरोधसमापत्तिः, चित्तसन्ततिच्छेदात् ।
पुनराह—यत्रेहस्थानां गन्तुकामता तत्रस्थानां चाप्युच्चलितुकामता,
असौ विज्ञानस्थितिरुक्ता । अपायेषु चोभयं नास्ति । चतुर्थे ध्याने सत्त्वा
उच्चलितमानसाः पृथग्जना आसंज्ञिकं प्रवेष्टुकामाः, आर्याः शुद्धावासान्
भवाग्रानपटुप्रचारत्वाच्च विज्ञानस्थितिरिति ।
एताश्च सप्त विज्ञानस्थितयो यथोक्ताः ।
भवाग्रासंज्ञिसत्त्वाश्च सत्त्वावासा नव स्मृताः ॥ ६ ॥
एषु हि सत्त्वा आवसन्ति स्वेच्छया ॥ ६ ॥
अनिच्छावसनान्यन्ये,
के पुनरन्ये ? अपायाः । तेषु हि सत्त्वा अकामकाः कर्मराक्षसैरावास्यन्ते,
न स्वेच्छया वसन्ति । अतस्तेन सत्त्वावासाः, बन्धनस्थानवत् ।

अपायेषु चोभयं नास्तीति । नेहस्थानां गन्तुकामता, न तत्रस्थानां व्युच्चलितु-
कामता । अपटुप्रचारत्वादिति । चित्तचैत्तानामत्र मन्दप्रचारत्वात् । अन्धवद्
विज्ञानं न तिष्ठतीति युक्तं वक्तुम् ।
“भवाग्रासंज्ञिसत्त्वाश्च सत्त्वावासा नव” इति । सूत्र उक्तम्—“नव सत्त्वावासाः।
कतमे नव ? रूपिणः सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनः । तद्यथा—
मनुष्याः, तदेकत्याश्च देवाः । अयं प्रथमः सत्त्वावासः” । द्वितीयतृतीयचतुर्था
अपि यथा विज्ञानस्थितिषु तथा वक्तव्याः । अयं तु विशेषः—“रूपिणः सन्ति
सत्त्वा असंज्ञिनोऽप्रतिसंज्ञिनः । तद्यथा—देवा असंज्ञिसत्त्वाः । अयं पञ्चमः
सत्त्वावासः” । आरूप्याणाञ्च सत्त्वावासानां त्रयो विज्ञानस्थितिवद् वक्तव्याः ।
चतुर्थस्त्वावरूप्यः । “अरूपिणः सन्ति सत्त्वा सर्वश आकिञ्चन्यायतनं समतिक्रम्य
नैवसंज्ञानासंज्ञायतनमुपसम्पद्य विहरन्ति । तद्यथा--देवा नैवसंज्ञानासंज्ञा-
यतनोपगाः, अयं नवमः सत्त्वावासः” इति ॥ ६ ॥
असंज्ञिसत्त्वेभ्यो येऽन्ये चतुर्थध्यानोपगाः किं ते सत्त्वावासाः, उत नेति ?
नेत्याहुः । कस्मादेवमुक्तमाचार्येण -- के पुनरन्ये ? अपाया इति ? मुखमात्रमेत-
दुक्तम् । असंज्ञिसत्त्वाः सत्त्वावासासंगृहीताश्चतुर्थध्यानोपगा इत्यपि वक्तव्यम् ।
इहापि तदेव कारणं वक्तव्यम् यद्विज्ञानस्थितिरुक्तम् । इहस्थानां ह्यपायगमन-
प्रार्थना नास्ति, तत्रस्थानाञ्च न वस्तुकामतेति नापायाः सत्त्वावासाः ।

३९८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
अन्यत्र सूत्रे सप्त विज्ञानस्थितय उक्ताः, अन्यत्र—
चतस्रः स्थितयः पुनः ।
कतमाश्चतस्रः ? रूपोपगा विज्ञानस्थितिः, वेदनोपगा, संज्ञोपगा,
संस्कारोपगा इति ।
तासां कः स्वभावः ? ता हि यथाक्रमम्—
चत्वारः सास्रवाः स्कन्धाः,
ते पुनः—
स्वभूमावेव,
नान्यत्र भूमौ । किं कारणम् ? प्रतिष्ठा हि स्थितिः । न च विसभाग-
भूमिकेषु स्कन्धेषु विज्ञानं तृष्णावशात् प्रतिष्ठतीति ।
कस्मान्न विज्ञानं विज्ञानस्थितिरुच्यते, यथा सप्तसु विज्ञानस्थितिषु पञ्च
असंज्ञिसत्त्वसंगृहीतेषु बृहत्फलेषु यद्यपीहस्थानां गमनप्रार्थनास्ति, तत्रस्थानां
पृथग्जनानामासंज्ञिकप्रविविक्षा भवति । आर्याणां त्वनभ्रकपुण्यप्रसवेष्वपि
शुद्धावासारूप्यप्रविविक्षा । परिनिर्वातुकामता च शुद्धावासानामपीति न तेषां
तत्रावस्थानबुद्धिः । अतो न ते सत्त्वावासा इत्याचार्यसङ्घभद्रः ।
अन्ये पुनर्व्याचक्षते—के पुनरन्ये, अपाया इति । अपायानामेव वचनाद-
नभ्रकादयः सत्त्वावासा इष्टा आचार्यस्येति । तैर्युक्तिरन्वेष्टव्या । बन्धन-
स्थानवदिति । यथा बन्धनस्थानानि न सत्त्वावासाः, अनिच्छावसनात्;
एवमपाया इति ।
रूपोपगा विज्ञानस्थितिरिति । विज्ञानं तिष्ठत्यस्यामिति विज्ञानस्थितिः ।
उपगच्छतीति उपगा । विज्ञानस्य समीपचारणी इत्यर्थः । रूपं च तदुपगा
च सा रूपोपगा । एवं यावत् संस्काराश्च ते उपगा च संस्कारोपगेति ।
भगवद्विशेषस्तु व्याचष्टे—रूपोपगा विज्ञानस्थितिर्यावत् संस्कारोपगेति ।
सौत्रान्तिकानां नयेनोच्यते । तत्र विज्ञानस्थितिर्भवसन्तत्यनुच्छेदः, रूपमुपगमस्या
विज्ञानस्थितेः सेयं रूपोपगा, उपगमिति उपगम्यते तदात्मीयत इति । एवं
यावत् संस्कारा उपगा अस्या विज्ञानस्थितेः सेयं संस्कारोपगा । अथवा तृष्णा
स्थितिः, तिष्ठत्यनया विज्ञानं पुनर्भवसन्तत्यनुच्छेदादिति कृत्वा, विज्ञानस्य
स्थितिर्विज्ञानस्थितिः । सा रूपमुपगच्छतीति तदभिष्वङ्गत इति रूपोपगा ।
एवं यावत् संस्कारोपगा । वैभाषिकाणां पुनर्नयेन कारकार्थो न शक्यते योज-
यितुमिति दूषयति ।

निर्देशः ] तृतीयं कोशस्थानम् ३९९
स्कन्धा इति ? स्थातुः परिवर्जनेन¹ स्थितिविधानात् । न हि स्थातैव स्थिति-
रुच्यते, यथा—न राजैव राजासनमिति । याँश्च धर्मानभिरुह्य विज्ञानं वाहयति
नौनाविकन्यायेन, ते धर्मा विज्ञानस्थितय उक्ताः । न तु विज्ञानं विज्ञानमेवा-
भिरुह्य² वाहयत्यतो नोक्तमिति वैभाषिकाः ।
यत्तर्हि सूत्र उक्तम्—“विज्ञाने आहारे अस्ति नन्दी, अस्ति राग इति ।
यत्रास्ति नन्दी अस्ति रागः, प्रतिष्ठितं तत्र विज्ञानमधिरूढम्” ( )
इति, तत् कथम् ? ‘सप्त च विज्ञानस्थितयः पञ्चस्कन्धस्वभावाः³’ ( )
इति, तत् कथम् ? एवं तर्ह्यभेदेनोपपत्त्यायतनसंगृहीतेषु स्कन्धेषु साभिरामायां
विज्ञानप्रवृत्तौ विज्ञानं विज्ञानस्थितिः । प्रत्येकं तु यथा रूपादयो विज्ञानस्य
संक्लेशाय भवन्ति ।
अत्र ब्रूमः—द्विविधेऽप्यस्मिन् व्याख्याने रूपादि‍व्यतिरिक्ता विज्ञानस्थिति-
रुक्ता—“ता हि चत्वारः सास्रवाः स्कन्धाः” इति ।
“चतुष्कोटिस्तु संमहे” इत्येतत् सर्वं निरस्तं भवतीति दोषान्तरम् ।
तस्मात् पूर्वकमेव व्याख्यानं साधु । एतद्वैभाषिकव्याख्यानं वर्णयामः, न तैरेवं
व्याख्यातम्—रूपमुपगच्छतीति रूपोपगा विज्ञानस्थितिरित्यादि ।
अपरे पुनर्व्याचक्षते—रूपोपगा विज्ञानस्थितिरिति, रूपस्वभावेत्यर्थः ।
यथान्यत्रोक्तम्—खक्खटखरगतमिति । स्वभावोऽर्थो गत्यर्थ इत्यभिप्रायः ।
स्थातुः परिवर्जनेन । अन्यो लोके स्थाता देवदत्तादिः, अन्या स्थितिः स्थानं
गृहादिकमित्यर्थः । विज्ञानं वाहयति प्रवर्त्तयतीत्यर्थः । नौनाविकन्यायेन । यथा
नाविको नावं वाहयति तद्वत् । न तु विज्ञानं विज्ञानमेवाभिरुह्य वाहयतीत्यर्थः ।
एकसन्ताने विज्ञानद्वयासमवधानम् । परसन्तानविज्ञानं तु यद्यपि युगपद्
भवति, न तु तदितरस्य समीपे वर्त्तत इति न तत् तस्य स्थितिर्भवति ।
नन्दी सौमनस्यम् । सप्त च विज्ञानस्थितयः पञ्चस्कन्धस्वभावाः, तत् कथमिति ।
सप्तसु विज्ञानस्थितिषु पञ्चस्कन्धस्वभावत्वेनेष्टासु । तत् कथं विज्ञानम्, न
विज्ञानस्थितिरिष्टमिति । एवं तर्हीति विस्तरः । अभेदेनैकपिण्डरूपेण रूपादीनां
स्कन्धानामपपत्त्यायतनसंगृहीतेषु स्कन्धेषु मनुष्यादिनिकाय सभागसंगृहीतेषु,
साभिरामायां साभिरत्यां विज्ञानप्रवृत्तौ विज्ञानं विज्ञानस्थितिः सप्तविज्ञानस्थिति-
१. परिहारेण—का० । २. ०मेवारुह्य—का० ।
३. पञ्चस्कन्धसंगृहीताः—का० ।

४०० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
तस्माच्चतसृषु विज्ञानस्थितिषु—
केवलं ॥ ७ ॥
विज्ञानं न स्थितिः प्रोक्ता,
अपि च क्षेत्रभावेन भगवता चतस्रो विज्ञानस्थितयो देशिताः, बीज-
भावेन च सोपादानं विज्ञानं कृत्स्नमेवेति । न पुनर्बीजं बीजस्य क्षेत्रभावेन
व्यवस्थापयाम्बभूवेत्यभिप्रायं परिकल्पयामास । ये च १ धर्माः सहवर्त्तिनो विज्ञा-
नस्य, तेऽस्य क्षेत्रभावेन साधीयांसो भवन्तीति त एवास्य स्थितय उक्ताः ॥
अथ कथं सप्तभिर्विज्ञानस्थितिभिश्चतस्रो विज्ञानस्थितयः संगृहीताः, चतसृ-
भिर्वा सप्त ? नैव हि सप्तभिश्चतस्रः, नापि चतसृभिः सप्त ।
चतुष्कोटि तु संग्रहे ।
संग्रहे विचार्यमाणे चतुष्कोटिकं वेदितव्यम्—स्यात् सप्तभिः संगृहीतं न
देशनायामभिप्रीयते । प्रत्येकं त्वेकमेकं स्कन्धं प्रति । यथा रूपादयो विज्ञानस्य
संक्लेशा भवन्ति; आश्रयसम्प्रयोगसहभूभावेनोपगतत्वात् । नैवम् केवलम् ।
पृथग् । विज्ञानम् । किम् ? संक्लेशाय भवतीत्यधिकृतम् । कस्मात् ? युगपदा-
श्रयत्वाद्ययोगात् । तस्माच्चतुर्विज्ञानस्थितिदेशनायाम् “केवलम् पृथग् विज्ञानं न
स्थितिः प्रोक्तम् ।”
तथा विनेयजनापेक्षया ह्येकत्र सूत्रे अन्यथा विज्ञानस्थितिरुक्ता, अन्यत्र
चान्यथेति, अत आह—अपि च क्षेत्रभावेनेति विस्तरः । विज्ञानस्य क्षेत्रभावेन
चतस्रो विज्ञानस्थितयो रूपवेदनासंज्ञासंस्कारस्वभावा देशिताः । विज्ञानं बीज-
भावेन वपनीयरूपेण सोपादानम् । स्वभूमिकया तृष्णया सतृष्णम् । कृत्स्नमेव
सन्तानगतं देशितमिति । न पुनर्बीजं बीजस्य क्षेत्रभावेन व्यवस्थापयाम्बभूव
भगवान् । नहि लोके बीजं क्षेत्रभावेन व्यवस्थाप्यते । ये च धर्मा इति विस्तरः ।
ये च धर्मा विज्ञानस्य सहवर्त्तिनो रूपादयः, त एव क्षेत्रभावेन साधुतरा
भवन्ति । सहवर्त्ति हि बीजस्य क्षेत्रं लोके दृश्यते । विज्ञानं तु विज्ञानेन सह न
वर्त्तते; युगपद् अभावात् । अतीतानागतास्तर्हि रूपादयो न विज्ञानस्थितयः
प्राप्नुवन्ति ? तेऽप्यतीतानागता यथास्वमतीनागतानां विज्ञानानां स्थितयो
भवन्ति । तस्मात् स्वभूमौ सर्वं एव सास्रवा रूपादयो विज्ञानस्थितयो
भवन्तीत्यवगन्तव्यम् ।
१. का० पुस्तके नास्ति ।

निर्देशः ] तृतीयं कोशस्थानम् ४०१
चतसृभिरित्येवमादि । प्रथमा कोटिः--सप्तसु यद्विज्ञानम् । द्वितीया-अपायेषु
चतुर्थे ध्याने भवाग्रे च विज्ञानवर्ज्याः स्कन्धाः । तृतीया--सप्तसु चत्वारः
स्कन्धाः । चतुर्थी-एतानाकारान् स्थापयित्वा ।
यच्चैतद् गत्यादिभेदभिन्नं त्रैधातुकमुक्तम्, वेदितव्याः-
चतस्रो योनयस्तत्र सत्त्वानामण्डजादयः ॥ ८ ॥
अण्डजा योनिर्जरायुजा संस्वेदजा उपपादुका योनिः । योनिर्नाम
जातिः । युवन्यस्यां सत्त्वा मिश्रीभवन्ति प्रसवसाम्यादिति योनिः ।
अण्डजा योनिः कतमा ? ये सत्त्वा अण्डेभ्यो जायन्ते । तद्यथा-
हंसक्रौञ्चचक्रवाकमयूरशुकशारिकादयः ।
जरायुजा योनिः कतमा ? ये सत्त्वा जरायोर्जायन्ते । तद्यथा--हस्त्यश्व-
गोमहिषखरवराहादयः ।
संस्वेदजा योनिः कतमा ? ये सत्त्वा भूतसंस्वेदाज्जायन्ते । तद्यथा-
कृमिकीटपतङ्गमशकादयः ।
उपपादुका योनिः कतमा ? ये सत्त्वा अविकला अहीनेन्द्रियाः सर्वाङ्ग-
प्रथमा कोटिरिति विस्तरः । ' सप्तसु यद्विज्ञानमिति । पञ्चस्कन्धस्वभावत्वात्
सप्तानां विज्ञानस्थितीनाम् । तत्र विज्ञानं संगृहीतं न चतसृषु, विज्ञानस्य
तत्राग्रहणात् । विज्ञानवर्ज्याः स्कन्धा इति । अपायादिष्वपि विज्ञानं न चतसृषु
संगृहीतम्, न सप्तस्वपायादिषु, विज्ञानपरिभेदेनाग्रहणात् । सप्तसु चत्वारः स्कन्धा
इति । सप्तसु विज्ञानस्थितिषु ये विज्ञानवर्ज्याश्चत्वारः स्कन्धा उक्ताः, ते चत-
सृष्वपि विज्ञानस्थितिषु संगृहीता इत्युभयत्रापि संगृहीता इति तृतीया कोटिः ।
चतुर्थ्येतानाकारान् स्थापयित्वेति । अपायेषु चतुर्थे ध्याने भवाग्रे च यद्विज्ञान-
मनास्रवाश्च धर्माः ।
यच्चैतद् गत्यादिभेदभिन्नमिति । आदिशब्देन भाजनान्तराभवभूम्यादि-
गृह्यते । जरायुर्येन मातुः कुक्षौ गर्भे वेष्टितस्तिष्ठति तस्माज्जाता जरायुजाः ।
भूतसंस्वेदजा इति । भूतानां पृथिव्यादीनां संस्वेदाद् द्रवत्वलक्षणाज्जाता भूत-
संस्वेदजाः ।
अविकलाः चक्षुरिन्द्रियाद्यवैकल्यात् । अहीनेन्द्रियाः काणविभ्रान्तादेर-
भावात् । सर्वाङ्गैरुपेता हस्तपादादिभिः । सर्वैश्च प्रत्यङ्गैरङ्गुल्यादिभिरुपेताः

प्रत्यङ्गोपेताः सकृदुपजायन्ते। अत एव उपपादने¹ साधुकारित्वाद् 'उपपादुकाः'
इत्युच्यन्ते, तद्यथा-देवनारकान्तराभविकादयः ॥ ८ ॥
अथ कस्यां गतौ कति योनयः संविद्यन्ते ? इत्याह-
चतुर्धा नरतिर्यञ्चः
मनुष्याश्चतुर्विधाः-१. अण्डजास्तावद्, यथा क्रौञ्चीनिर्यातो शैलोपशैलौ
स्थविरौ, मृगारमातुश्च द्वात्रिंशत् पुत्राः, पञ्चालराजस्य च पञ्च पुत्रशतानि ।
२. जरायुजाः, यथेदानीम् । ३. संस्वेदजाः, तद्यथा मान्धातृचारूपचारु-
कपोतमालिन्याम्रपाल्यादयः । ४. उपपादुकाः पुनः प्राथमकल्पिकाः ।
एवं तिर्यञ्चोऽपि चतुर्विधाः--त्रिविधा दृश्यन्त एव, उपपादुकास्तु
सुपर्णीप्रभृतयः² ।
नारका उपपादुकाः ।
अन्तराभवदेवाश्च
सर्वे नारका अन्तराभविकाः । देवाश्चोपपादुका एव ।
सकृदुपजायन्ते, न कललाद्यनुपूर्व्या अण्डजादिवत् । उपपादने उपपत्तौ साधु-
कारित्वात् । शुक्लशोणिताद्यनुपादानेन सकृदुपजातत्वात् उपपादुका इत्युच्यन्ते ॥
क्रौञ्चीनिर्जाताविति विस्तरः । भिन्नयानपात्रौ किल वणिजौ समुद्रतीरे
क्रौञ्चीं समभिगतौ, ततो निर्जातौ शैलोपशैलौ स्थविराविति । पञ्चालराजस्येति ।
तस्य महादेव्याः पञ्चाण्डशतानि जातानि । तेन राज्ञा मञ्जूषायां प्रक्षिप्य
गङ्गायामववाहितानि । लिच्छविराजेन सान्तःपुरेण स्नायता सा मञ्जूषोह्यमाना
दृष्टा, उद्घाटिता च । तस्यां पञ्चशतानि दारकाणां दृष्टानि, गृहीतानि चेति ।
मान्धातृप्रभृतयः संस्वेदजाः । कथम् ? उपोषधस्य किल राज्ञो मूर्ध्नि पिटको
जातः, तस्य वृद्धेरन्वयात् परिपाकान्वयात् परिभेदान्वयाद् दारको जातः, सोऽयं
मान्धातेति संस्वेदजो भवति । राज्ञः खल्वपि मान्धातुर्जानूपरि पिटकौ जातौ,
तयोर्वृद्धेरन्वयात् पूर्वंवद् यावद्दारकौ जातौ, ताविमौ चारूपचारौ । ब्रह्मदत्तस्य
किल राज्ञ उरसि पिटको जातः। तस्य वृद्धेरन्वयात् पूर्ववद् यावद्दारिका जाता,
सेयं कपोतमालिनीति । आम्रपाल्यपि कदलीस्तम्भाज्जातेति श्रूयते । प्राथमकल्पिका
इति । "प्रागासन् रूपिवत् सत्त्वाः" ( अभि० ३.६७ ) इति वचनात् । सुपर्णी,
गरुडः । प्रेतानां जरायुजत्वसिद्धयर्थमुच्यते ।
१. उपपदने-का० । २. नागसुपर्णि०-का० ।

निर्देशः ] तृतीयं कोशस्थानम् ४०३
प्रेता अपि जरायुजाः ॥ ९ ॥
अपिशब्दादप्युपपादुका इति। आयुष्मते महामौद्गल्यायनाय प्रती-
निवेदयते—
"पञ्च पुत्रानहं रात्रौ दिवा पञ्च तथा परान्।
भक्षयामि जनित्वा तान् नास्ति तृप्तिस्तथापि मे॥"
( )
कतमा योनिः सर्वसाध्वी ? उपपादुका।
अथ किमर्थं चरमभविको बोधिसत्त्वः प्राप्तोपपत्तिवशित्वेऽपि जरायुजां
योनिं भजते ? एवं हि क्रियमाणे महान्तमर्थं पश्यति—'ज्ञातिसम्बन्धेन महतः
शाक्यवंशस्य धर्मेऽवतरणार्थं चक्रवर्त्तिवंश्योऽयम्' इति चान्येषां बहुमानादरा-
वर्जनार्थम्, 'मनुष्यभूता अपि चैनां सिद्धिं गच्छन्ति' इति विनेयानामुत्साहार्थम्।
इतरथा ह्यप्रज्ञायमानकुलगोत्रः कोऽप्ययं मायापुरुषः—इत्येवं परिकल्पयेयुः, देवः
पिशाच इति वा। यथाऽन्यतीर्थ्या अपभाषन्ते—"कल्पशतस्यात्ययादेवंविधो
मायावी लोके प्रादुर्भूय मायया लोकं भक्षयति" ( ) इति।
अपरे त्वाहुः—'शरीरधातूनामवस्थापनार्थं येषु मनुष्या अन्ये च प्रजां
आयुष्मत इति विस्तरः। कथं गम्यते जरायुजत्वसिद्धयर्थमिति ?
रात्रौ पञ्चतां जनित्वेति वचनात्। ननु च सुतरामपपादुकत्वसिद्धयर्थमिति
गम्यते, "पञ्च रात्रौ, दिवा पञ्च तथाऽपरान्.........नास्ति तृप्तिस्तथापि
मे" इति वचनात् ? जरायुजैर्हि भक्षितैस्तृप्तिर्भवेत्। जरायुजसिद्धयर्थ-
मेव नोपपादुकसिद्धयर्थम्। रात्रौ पञ्चानां सकृज्जन्म दिवा चापरेषां
पञ्चानां सकृज्जन्म दिवा चापरेषां पञ्चानां न विरुध्यते; तावत्कालेन
तदात्मभावपरिपूरितः। क्रमेणापि च रात्रौ पञ्चानां दिवा परेषां पञ्चानां
जन्म न विरुध्यते; सत्त्वजातिः सा तादृशी, कर्मणां चाचिन्त्यो विपाक इति।
अभिप्रवृद्धजिघांसादोषत्वात्तु नापि तृप्तिरस्तीति।
प्राप्तोपपत्तिवशित्वेऽपीति। अनेन जरायुजोपपत्तौ कर्मबलात्कारायोगं दर्शयति।
यथान्यतीर्थ्या अपभाषन्त इति। यथोक्तं निर्ग्रन्थ-
शास्त्रे—"ऋद्धिं भदन्त को दर्शयति, मायावी गौतमः" इति। तथा भगवन्तमेवो-
द्दिश्यान्यत्रोक्तम्—कल्पशतस्यात्ययादेवंविधो लोके मायावी प्रादुर्भूय मायया लोकं
भक्षयतीति। उपजीवतीत्यर्थः।

विधाय सहस्रशः स्वर्गं च प्राप्ता अपवर्गं चेति उपपादुकानां हि सत्त्वानां
बाह्यबीजाभावान्मृतानां कायो नावतिष्ठते, निशान्त इव तैलप्रद्योतोऽन्तर्धीयते ।
आधिष्ठानिकीमृद्धिं भगवत इच्छतां न युक्त एष परिहारः ॥
प्रश्नात् प्रश्नान्तरमुत्पद्यते¹—
यद्युपपादुकानां² कायनिधनं न प्रज्ञायते, कथमुक्तं सूत्रे—“उपपादुकः
सुपर्णी उपपादुकं नागमुद्धरति भक्षार्थम्” इति ? नोक्तं भक्षयतीति, अपि
तूद्धरति भक्षार्थमङ्गत्ववादित्यदोषः । भक्षयति वा यावन्न मृतो भवति, न
पुनर्मृतस्यास्य तृप्यतीति ॥
कतमा योनिः सर्वबह्वी ? उपपादु़कैव । सा हि द्वे³ गती³—तिसृणां च
प्रदेशः, सर्वे चान्तराभविका इति ॥ ९ ॥
बाह्यबीजाभावादिति । बाह्यस्य शुक्रशोणितकर्दमादेरभावादित्यर्थः । आधि-
ष्ठानिकीमिति । यदधितिष्ठति इदमेवं भवत्विति तदधिष्ठानम्, तत्प्रयोजनम-
स्याः, तत्र वा भवा ऋद्धिराधिष्ठानिकी । तामिच्छतां बौद्धानां न युक्त एष
परिहार इति । कतमः ? य उक्तः—शरीरधातूनामवस्थापनार्थमिति ।
प्रश्नात् प्रश्नान्तरमुत्पद्यत इति । अथ किमर्थं चरमभविको बोधिसत्त्व इति
प्रश्न उक्तो विस्तरेण । तत्र चोक्तम्—शरीरधातूनामवस्थापनार्थमिति
विस्तरः । तस्मात् प्रश्नादिदं प्रश्नान्तरमुत्पद्यते—यद्युपपादुकानामिति ।
विस्तरः—कायनिधनं कायनाशः । उपपादुकः सुपर्णी उपपादुकं नागमिति
विशेषणद्वयं किमर्थम्, किमनुपपादुका अपि सुपर्णिनो नागाश्च सन्ति ?
सन्तीत्याहुः । चतुर्विधा हि गरुडा नागाश्च, अण्डजादिभेदात्; तेषामुपपादुका
उत्तमाः, संस्वेदजा उपोत्तमाः, जरायुजा मध्याः, अण्डजा जघन्याः । तत्रोप-
पादुकः सुपर्णी सर्वानुपपादुकादीनुद्धरति भक्षार्थम्, संस्वेदजस्त्वोन् संस्वेदजादीन्,
जरायुजो द्वौ जरायुजाण्डजौ, अण्डजोऽण्डजमेवेति वर्णयन्ति । यावन्न मृत
इति । यदा जीवति तदा तन्मांसादि नान्तर्धीयत इति प्रदर्शितं भवति ।
न पुनर्मृतस्यास्य तृप्यतीति । न पुनर्मृतेनानेन तृप्यतीत्यर्थः । “तृपिपूर्वो
विभाषा” ( ) इति विभाषा षष्ठीष्यते । तस्य मृतस्याकाशस्येव
भक्षितस्य मांसपिण्डान्तर्धानान्न तृप्यतीत्यवगन्तव्यम् ।
सा हि द्वे गती इति । नरकगतिः, देवगतिश्च । तिसृणां च प्रदेश इति ।
तिर्यक्-प्रेत-मनुष्यगन्त्यन्तरालत्वात् ॥ ९ ॥
१. ०मुपजायते—का० । २. यद्यप्युप०—का० । ३-३. द्विगती—का० ।

निर्देशः ] तृतीयं कोशस्थानम् ४०५
कोऽयमन्तराभवो नाम !
मृत्युपपत्तिभवयोरन्तरा भवतीह यः ।
मरणभवस्योपपत्तिभवस्य चान्तरा य आत्मभावोऽभिनिर्वर्तते देशान्तरो-
पपत्तिसम्प्राप्तये, सोऽन्तराभव इत्युच्यते; गत्योरन्तरालत्वात्¹ ।
कथमयं जातश्च नाम न चोपपन्नो भवति :
गम्यदेशानुपेतत्वान्नोपपन्नोऽन्तराभवः ॥ १० ॥
उपपत्तिगतो हि 'उपपन्नः' इत्युच्यते; पदेर्गत्यर्थत्वात् । न चायं गम्यदेश-
मुपगतोऽन्तराभवः, तस्मान्नोपपन्नः ॥ १० ॥
कः पुनरसौ देशो गन्तव्यः ? यत्राक्षिप्तस्य विपाकस्याभिव्यक्तिः, समाप्तिश्च ।
विच्छिन्न एवोपपत्तिभवो मरणभवात् सम्भवतीति निकायान्तरीयाः ।
तदेतन्नेष्यते । किं कारणम् ? युक्तितश्च, आगमतश्च ॥ १० ॥
तत्र तावत् युक्तिं निश्चित्योच्यते—
व्रीहिसन्तानसाधर्म्यादविच्छिन्नभवोद्भवः ।
गत्योरन्तरालत्वात् । ननु चाव्याकृतेव गतिरिष्यते, उपपत्तिभवश्चैकान्तेन
क्लिष्टः, मरणभवोऽपि कदाचित् कुशलः क्लिष्टो वा भवति न गतिः, कथं
तयोर्ग[तिशब्दमा]रोप्य गत्यन्तरालत्वादित्युच्यते ? नैष दोषः; मरणोपपत्ति-
भवयोरनिवृताव्याकृतानां निकायसभागजीवितेन्द्रियजात्यादीनां गतिस्वभा-
वानां तत्काले विद्यमानत्वात् । कामरूपधात्वोश्च कायेन्द्रियस्याप्यवश्यम्भा-
वात् । न चोपपत्तिजन्ममरणभवोऽवश्यं क्लिष्टो नाप्यवश्यं कुशलः । तस्मात्तेषु
गतिशब्दमारोप्य गत्यन्तरालत्वादित्युक्तम् । पदेर्गत्यर्थत्वादिति । “पद गतो”
( मा० धा० ४.६०) इति पठ्यते, तेनोपपन्नशब्दस्योपगतार्थं दर्शयति ।
“नोपपन्नोऽन्तराभवः” । किं तर्हि ? उपपद्यमान इति । अभिव्यक्तिः समाप्तिश्चेति ।
आक्षेपकेण कर्मणा निकायसभागस्याभिव्यक्तिः, परिपूरकैः परिसमाप्तिः; सर्व-
स्मिन् जन्मनि कर्मद्वयस्य व्यापारात्, “एकं जन्माक्षिप्रत्येक मनेकं परिपूरकम्”
( अभि० ४.९५ ) इति वचनात् । अथवा—यत्र देशे आक्षिप्तस्य कर्मणा
नामरूपस्य विपाकस्य प्रादुर्भावोऽभिव्यक्तिः, षडायतनपूरितश्च समाप्तिः, स
देशोऽवगन्तव्यः ॥ १० ॥
“व्रीहिसन्तानसाधर्म्यात्” इति विस्तरः । संबध्नंस्तानः सन्तानः, व्रीहेः
१. गत्यन्तरा०—का० ।