अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 411, कुल 1258 में से
संदर्भ में पढ़ेंसत्त्वाख्या एव च, न चान्तराभवस्वभावाः । प्रज्ञप्त्युक्तम्—"चतसृ-
भिर्योनिभिः पञ्च गतयः संगृहीताः, न तु पञ्चाभिर्गतिभिश्चतस्रो योनयः । किम-
संगृहीतम् ? अन्तराभवः" ( ) इति ।
धर्मस्कन्धेऽपि चोक्तम्—"चक्षुर्धातुः कतमः ? चत्वारि महाभूतान्यु-
पादाय यो रूपप्रसादश्चक्षुश्चक्षुरिन्द्रियं चक्षुरायतनं चक्षुर्धातुर्नारकस्तैर्यग्योनिकः
पैतृविषयको देव्यो मानुष्यको भावनामयोऽन्तराभविकश्च" ( ) इति ।
सूत्रेऽपि च बहिष्कृतोऽन्तराभवो गतिभ्यः । कस्मिन् सूत्रे ? "सप्त
भवाः—नरकभवस्तिर्यग्भवः प्रेतभवो देवभवो मनुष्यभवः कर्मभवोऽन्तराभवः"
( ) इति । अत्र हि पञ्च गतयः सहेतुकाः सगमनाश्चोक्ताः¹ । अत एव
चानिवृताव्याकृताः सिध्यन्ति; तद्धेतोः कर्मभवस्य ताभ्यो बहिष्करणात् ।
काश्मीरकाश्च² सूत्रं पठन्ति—"स्थविरशारिपुत्रेणोक्तम्—नारका-
णामायुष्मन्नास्रवाणां सम्मुखीभावान्नारकवेदनीयानि कर्माणि करोत्युपचि-
नोति । तेषामायुष्मन् कायवाङ्मनोवङ्कानां कायवाङ्मनोदोषकषायाणां नरकेषु
रूपं संज्ञा वेदना संस्कारो विज्ञानं विपाको विपच्यते । निर्वृत्ते विपाके
नारक इति संख्यां गच्छति । तत्रायुष्मन् नारको नोपलभ्यते, अन्यत्र तेभ्यो
धर्मेभ्यः" इति । अतोऽप्यनिवृताव्याकृता एव गतयः ।
सत्त्वाख्या एवेति । कर्मानुरूपेणात्मभावतस्तद्गमनात् । अत एवोक्तम्—
"यथाकर्म गमिष्यन्ति पुण्यपापफलोपगाः" ( ) इति । न भाजन-
स्वभावा इति ।
न चान्तराभवस्वभावा इति । अस्य प्रतिपादनार्थं ज्ञापकमानयन्ति ।
प्रज्ञप्तिसूक्तमिति विस्तरः ।
सहेतुकाः सगमना इति । हेतुः कर्मभवः, गमनमन्तराभवः, गम्यतेऽनेनेति
कृत्वा । गतिस्तु गम्यत इति गतिः । तद्धेतोः कर्मभवस्य ताभ्यो बहिष्करणात् ।
कुशलाकुशलस्य कर्मभवस्य ताभ्यो गतिभ्यो बहिष्करणात् ।
कश्मीरे भवाः काश्मीरकाश्च सूत्रं पठन्तीति । मुक्तकं तत्सूत्रं त एव पठन्ति,
नान्ये इत्यभिप्रायः । नारकाणामिति विस्तरः । नरकानुकूला नारकाः,
तेषामिति विस्तरः। कायवाङ्मनोवङ्कानां शाठ्यसमुत्थितानां कर्मणां दोषकषायाणां
१. सहागमनाः--का० । २ काश्मीराश्च--का० ।