अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 422, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] तृतीयं कोशस्थानम् ४०१
चतसृभिरित्येवमादि । प्रथमा कोटिः--सप्तसु यद्विज्ञानम् । द्वितीया-अपायेषु
चतुर्थे ध्याने भवाग्रे च विज्ञानवर्ज्याः स्कन्धाः । तृतीया--सप्तसु चत्वारः
स्कन्धाः । चतुर्थी-एतानाकारान् स्थापयित्वा ।
यच्चैतद् गत्यादिभेदभिन्नं त्रैधातुकमुक्तम्, वेदितव्याः-
चतस्रो योनयस्तत्र सत्त्वानामण्डजादयः ॥ ८ ॥
अण्डजा योनिर्जरायुजा संस्वेदजा उपपादुका योनिः । योनिर्नाम
जातिः । युवन्यस्यां सत्त्वा मिश्रीभवन्ति प्रसवसाम्यादिति योनिः ।
अण्डजा योनिः कतमा ? ये सत्त्वा अण्डेभ्यो जायन्ते । तद्यथा-
हंसक्रौञ्चचक्रवाकमयूरशुकशारिकादयः ।
जरायुजा योनिः कतमा ? ये सत्त्वा जरायोर्जायन्ते । तद्यथा--हस्त्यश्व-
गोमहिषखरवराहादयः ।
संस्वेदजा योनिः कतमा ? ये सत्त्वा भूतसंस्वेदाज्जायन्ते । तद्यथा-
कृमिकीटपतङ्गमशकादयः ।
उपपादुका योनिः कतमा ? ये सत्त्वा अविकला अहीनेन्द्रियाः सर्वाङ्ग-
प्रथमा कोटिरिति विस्तरः । ' सप्तसु यद्विज्ञानमिति । पञ्चस्कन्धस्वभावत्वात्
सप्तानां विज्ञानस्थितीनाम् । तत्र विज्ञानं संगृहीतं न चतसृषु, विज्ञानस्य
तत्राग्रहणात् । विज्ञानवर्ज्याः स्कन्धा इति । अपायादिष्वपि विज्ञानं न चतसृषु
संगृहीतम्, न सप्तस्वपायादिषु, विज्ञानपरिभेदेनाग्रहणात् । सप्तसु चत्वारः स्कन्धा
इति । सप्तसु विज्ञानस्थितिषु ये विज्ञानवर्ज्याश्चत्वारः स्कन्धा उक्ताः, ते चत-
सृष्वपि विज्ञानस्थितिषु संगृहीता इत्युभयत्रापि संगृहीता इति तृतीया कोटिः ।
चतुर्थ्येतानाकारान् स्थापयित्वेति । अपायेषु चतुर्थे ध्याने भवाग्रे च यद्विज्ञान-
मनास्रवाश्च धर्माः ।
यच्चैतद् गत्यादिभेदभिन्नमिति । आदिशब्देन भाजनान्तराभवभूम्यादि-
गृह्यते । जरायुर्येन मातुः कुक्षौ गर्भे वेष्टितस्तिष्ठति तस्माज्जाता जरायुजाः ।
भूतसंस्वेदजा इति । भूतानां पृथिव्यादीनां संस्वेदाद् द्रवत्वलक्षणाज्जाता भूत-
संस्वेदजाः ।
अविकलाः चक्षुरिन्द्रियाद्यवैकल्यात् । अहीनेन्द्रियाः काणविभ्रान्तादेर-
भावात् । सर्वाङ्गैरुपेता हस्तपादादिभिः । सर्वैश्च प्रत्यङ्गैरङ्गुल्यादिभिरुपेताः