अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 423, कुल 1258 में से
संदर्भ में पढ़ेंप्रत्यङ्गोपेताः सकृदुपजायन्ते। अत एव उपपादने¹ साधुकारित्वाद् 'उपपादुकाः'
इत्युच्यन्ते, तद्यथा-देवनारकान्तराभविकादयः ॥ ८ ॥
अथ कस्यां गतौ कति योनयः संविद्यन्ते ? इत्याह-
चतुर्धा नरतिर्यञ्चः
मनुष्याश्चतुर्विधाः-१. अण्डजास्तावद्, यथा क्रौञ्चीनिर्यातो शैलोपशैलौ
स्थविरौ, मृगारमातुश्च द्वात्रिंशत् पुत्राः, पञ्चालराजस्य च पञ्च पुत्रशतानि ।
२. जरायुजाः, यथेदानीम् । ३. संस्वेदजाः, तद्यथा मान्धातृचारूपचारु-
कपोतमालिन्याम्रपाल्यादयः । ४. उपपादुकाः पुनः प्राथमकल्पिकाः ।
एवं तिर्यञ्चोऽपि चतुर्विधाः--त्रिविधा दृश्यन्त एव, उपपादुकास्तु
सुपर्णीप्रभृतयः² ।
नारका उपपादुकाः ।
अन्तराभवदेवाश्च
सर्वे नारका अन्तराभविकाः । देवाश्चोपपादुका एव ।
सकृदुपजायन्ते, न कललाद्यनुपूर्व्या अण्डजादिवत् । उपपादने उपपत्तौ साधु-
कारित्वात् । शुक्लशोणिताद्यनुपादानेन सकृदुपजातत्वात् उपपादुका इत्युच्यन्ते ॥
क्रौञ्चीनिर्जाताविति विस्तरः । भिन्नयानपात्रौ किल वणिजौ समुद्रतीरे
क्रौञ्चीं समभिगतौ, ततो निर्जातौ शैलोपशैलौ स्थविराविति । पञ्चालराजस्येति ।
तस्य महादेव्याः पञ्चाण्डशतानि जातानि । तेन राज्ञा मञ्जूषायां प्रक्षिप्य
गङ्गायामववाहितानि । लिच्छविराजेन सान्तःपुरेण स्नायता सा मञ्जूषोह्यमाना
दृष्टा, उद्घाटिता च । तस्यां पञ्चशतानि दारकाणां दृष्टानि, गृहीतानि चेति ।
मान्धातृप्रभृतयः संस्वेदजाः । कथम् ? उपोषधस्य किल राज्ञो मूर्ध्नि पिटको
जातः, तस्य वृद्धेरन्वयात् परिपाकान्वयात् परिभेदान्वयाद् दारको जातः, सोऽयं
मान्धातेति संस्वेदजो भवति । राज्ञः खल्वपि मान्धातुर्जानूपरि पिटकौ जातौ,
तयोर्वृद्धेरन्वयात् पूर्वंवद् यावद्दारकौ जातौ, ताविमौ चारूपचारौ । ब्रह्मदत्तस्य
किल राज्ञ उरसि पिटको जातः। तस्य वृद्धेरन्वयात् पूर्ववद् यावद्दारिका जाता,
सेयं कपोतमालिनीति । आम्रपाल्यपि कदलीस्तम्भाज्जातेति श्रूयते । प्राथमकल्पिका
इति । "प्रागासन् रूपिवत् सत्त्वाः" ( अभि० ३.६७ ) इति वचनात् । सुपर्णी,
गरुडः । प्रेतानां जरायुजत्वसिद्धयर्थमुच्यते ।
१. उपपदने-का० । २. नागसुपर्णि०-का० ।