सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 416, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 416

निर्देशः ] तृतीयं कोशस्थानम् ३९५
अत्र पुनः पर्यन्तग्रहणात् सकलद्वितीयध्यानग्रहणं वेदितव्यम् । अन्यथा हि
परीत्ताभा अप्रमाणाभाश्च कस्यां विज्ञानस्थितौ व्यवस्थाप्येरन् !
तत्राभिन्नवर्णलिङ्गसंस्थानत्वादेकत्वकायाः । सुखसंज्ञित्वाददुःखासुखसंज्ञित्वाच्च
नानात्वसंज्ञिनः ।
ते किल मौल्यां भूमौ सौमनस्येन्द्रियपरिखिन्नाः सामन्तकादुपेक्षेन्द्रियं
सम्मुखीभवन्ति । सामन्तके चोपेक्षेन्द्रियपरिखिन्नाः पुनर्मौल्या भूमेः सौमनस्ये-
न्द्रियं सम्मुखीकुर्वन्ति । यथा—कामरतिपरिखिन्ना ईश्वरा धर्मरतिं प्रत्यनुभवन्ति,
धर्मरतिपरिखिन्नाः कामरतिमिति ।
ननु च शुभकृत्स्नेष्वप्येष प्रसङ्गः ? न तेषां तेन सुखेनास्ति परिखेदः ।
किं कारणम् ? शान्तं हि तत्सुखम्, अशान्तं च सौमनस्यम् ; चेतस उत्प्लावकत्वादिति
सौत्रान्तिका व्याचक्षते । सूत्र उक्तम्—"यथा ते नानात्वसंज्ञिनः । तत्र
ये सत्त्वा आभास्वरे देवनिकायेऽचिरोपपन्ना भवन्ति नैव संवर्तनीकुशलाः, अस्य
लोकस्य ते तामर्चिषं दृष्ट्वा भीताः सन्तः उद्विजन्ते, संवेगमापद्यन्ते—
सहैवैषाऽर्चिः शून्यं ब्राह्मं विमानं दग्ध्वाऽर्वागागमिष्यतीति । तत्र ये सत्त्वा
आभास्वरे देवनिकाये चिरोपपन्नाः संवर्तनीकुशला विवर्तनीकुशलाश्चास्य
लोकस्य, ते तान् सत्त्वान् भीतानाश्वासयन्ति—मा भैष्ट मार्षाः, मा भैष्ट मार्षाः,
पूर्वमप्येषाऽर्चिः शून्यं ब्राह्मं विमानं दग्ध्वाऽत्रैवान्तर्हिता" ( ) इति ।
अतोऽर्चिष आगमव्यपगमसंज्ञित्वाद्, भीताभीतसंज्ञित्वाच्च ते नानात्वसंज्ञिनः,
न सुखादुःखासुखसंज्ञित्वादिति ।
ननु च शुभकृत्स्नेष्वप्येष प्रसङ्गः । एकत्वकाया नानात्वसंज्ञिन इति । कथम् ?
यथोक्तम् । 'ते हि मौल्यां भूमौ सुखेन्द्रियपरिखिन्नाः सामन्तकोपेक्षेन्द्रियं सम्मुखी-
कुर्वन्ति' इति विस्तरेण वक्तव्यं स्यात् । ते चैकत्वकाया एकत्वसंज्ञिन इति पश्चाद्
वक्ष्यते। तेन सुखेनेति तृतीयध्यानभूमिकेन । चेतस उत्प्लावकत्वादिति । औद्धत्य-
करत्वात् । इन्द्रसुखेनेति । द्वितीयध्यान । अचिरोपप-
न्नानामागमसंज्ञित्वाच्चिरोपपन्नानां व्यपगमसंज्ञित्वात् । अथ वा—अचिरोपपन्ना-
नामागमसंज्ञित्वाच्चिरोपपन्नानामागमव्यपगमसंज्ञित्वात् । भीताभीतसंज्ञित्वात् ।
यथाक्रममचिरचिरोपपन्नत्वात् ते नानात्वसंज्ञिनो न सुखादुःखासुखसंज्ञित्वात्,
यथोक्तं वैभाषिकैरिति ।
अभि० को० २ : २