अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 418, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] तृतीयं कोशस्थानम् ३९७
परिभेदः, उपघातकत्वात् । चतुर्थे ध्याने आसंज्ञिकमसंज्ञिसमापत्तिश्च । भवाग्रे
निरोधसमापत्तिः, चित्तसन्ततिच्छेदात् ।
पुनराह—यत्रेहस्थानां गन्तुकामता तत्रस्थानां चाप्युच्चलितुकामता,
असौ विज्ञानस्थितिरुक्ता । अपायेषु चोभयं नास्ति । चतुर्थे ध्याने सत्त्वा
उच्चलितमानसाः पृथग्जना आसंज्ञिकं प्रवेष्टुकामाः, आर्याः शुद्धावासान्
भवाग्रानपटुप्रचारत्वाच्च विज्ञानस्थितिरिति ।
एताश्च सप्त विज्ञानस्थितयो यथोक्ताः ।
भवाग्रासंज्ञिसत्त्वाश्च सत्त्वावासा नव स्मृताः ॥ ६ ॥
एषु हि सत्त्वा आवसन्ति स्वेच्छया ॥ ६ ॥
अनिच्छावसनान्यन्ये,
के पुनरन्ये ? अपायाः । तेषु हि सत्त्वा अकामकाः कर्मराक्षसैरावास्यन्ते,
न स्वेच्छया वसन्ति । अतस्तेन सत्त्वावासाः, बन्धनस्थानवत् ।
अपायेषु चोभयं नास्तीति । नेहस्थानां गन्तुकामता, न तत्रस्थानां व्युच्चलितु-
कामता । अपटुप्रचारत्वादिति । चित्तचैत्तानामत्र मन्दप्रचारत्वात् । अन्धवद्
विज्ञानं न तिष्ठतीति युक्तं वक्तुम् ।
“भवाग्रासंज्ञिसत्त्वाश्च सत्त्वावासा नव” इति । सूत्र उक्तम्—“नव सत्त्वावासाः।
कतमे नव ? रूपिणः सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनः । तद्यथा—
मनुष्याः, तदेकत्याश्च देवाः । अयं प्रथमः सत्त्वावासः” । द्वितीयतृतीयचतुर्था
अपि यथा विज्ञानस्थितिषु तथा वक्तव्याः । अयं तु विशेषः—“रूपिणः सन्ति
सत्त्वा असंज्ञिनोऽप्रतिसंज्ञिनः । तद्यथा—देवा असंज्ञिसत्त्वाः । अयं पञ्चमः
सत्त्वावासः” । आरूप्याणाञ्च सत्त्वावासानां त्रयो विज्ञानस्थितिवद् वक्तव्याः ।
चतुर्थस्त्वावरूप्यः । “अरूपिणः सन्ति सत्त्वा सर्वश आकिञ्चन्यायतनं समतिक्रम्य
नैवसंज्ञानासंज्ञायतनमुपसम्पद्य विहरन्ति । तद्यथा--देवा नैवसंज्ञानासंज्ञा-
यतनोपगाः, अयं नवमः सत्त्वावासः” इति ॥ ६ ॥
असंज्ञिसत्त्वेभ्यो येऽन्ये चतुर्थध्यानोपगाः किं ते सत्त्वावासाः, उत नेति ?
नेत्याहुः । कस्मादेवमुक्तमाचार्येण -- के पुनरन्ये ? अपाया इति ? मुखमात्रमेत-
दुक्तम् । असंज्ञिसत्त्वाः सत्त्वावासासंगृहीताश्चतुर्थध्यानोपगा इत्यपि वक्तव्यम् ।
इहापि तदेव कारणं वक्तव्यम् यद्विज्ञानस्थितिरुक्तम् । इहस्थानां ह्यपायगमन-
प्रार्थना नास्ति, तत्रस्थानाञ्च न वस्तुकामतेति नापायाः सत्त्वावासाः ।