अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 420, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] तृतीयं कोशस्थानम् ३९९
स्कन्धा इति ? स्थातुः परिवर्जनेन¹ स्थितिविधानात् । न हि स्थातैव स्थिति-
रुच्यते, यथा—न राजैव राजासनमिति । याँश्च धर्मानभिरुह्य विज्ञानं वाहयति
नौनाविकन्यायेन, ते धर्मा विज्ञानस्थितय उक्ताः । न तु विज्ञानं विज्ञानमेवा-
भिरुह्य² वाहयत्यतो नोक्तमिति वैभाषिकाः ।
यत्तर्हि सूत्र उक्तम्—“विज्ञाने आहारे अस्ति नन्दी, अस्ति राग इति ।
यत्रास्ति नन्दी अस्ति रागः, प्रतिष्ठितं तत्र विज्ञानमधिरूढम्” ( )
इति, तत् कथम् ? ‘सप्त च विज्ञानस्थितयः पञ्चस्कन्धस्वभावाः³’ ( )
इति, तत् कथम् ? एवं तर्ह्यभेदेनोपपत्त्यायतनसंगृहीतेषु स्कन्धेषु साभिरामायां
विज्ञानप्रवृत्तौ विज्ञानं विज्ञानस्थितिः । प्रत्येकं तु यथा रूपादयो विज्ञानस्य
संक्लेशाय भवन्ति ।
अत्र ब्रूमः—द्विविधेऽप्यस्मिन् व्याख्याने रूपादिव्यतिरिक्ता विज्ञानस्थिति-
रुक्ता—“ता हि चत्वारः सास्रवाः स्कन्धाः” इति ।
“चतुष्कोटिस्तु संमहे” इत्येतत् सर्वं निरस्तं भवतीति दोषान्तरम् ।
तस्मात् पूर्वकमेव व्याख्यानं साधु । एतद्वैभाषिकव्याख्यानं वर्णयामः, न तैरेवं
व्याख्यातम्—रूपमुपगच्छतीति रूपोपगा विज्ञानस्थितिरित्यादि ।
अपरे पुनर्व्याचक्षते—रूपोपगा विज्ञानस्थितिरिति, रूपस्वभावेत्यर्थः ।
यथान्यत्रोक्तम्—खक्खटखरगतमिति । स्वभावोऽर्थो गत्यर्थ इत्यभिप्रायः ।
स्थातुः परिवर्जनेन । अन्यो लोके स्थाता देवदत्तादिः, अन्या स्थितिः स्थानं
गृहादिकमित्यर्थः । विज्ञानं वाहयति प्रवर्त्तयतीत्यर्थः । नौनाविकन्यायेन । यथा
नाविको नावं वाहयति तद्वत् । न तु विज्ञानं विज्ञानमेवाभिरुह्य वाहयतीत्यर्थः ।
एकसन्ताने विज्ञानद्वयासमवधानम् । परसन्तानविज्ञानं तु यद्यपि युगपद्
भवति, न तु तदितरस्य समीपे वर्त्तत इति न तत् तस्य स्थितिर्भवति ।
नन्दी सौमनस्यम् । सप्त च विज्ञानस्थितयः पञ्चस्कन्धस्वभावाः, तत् कथमिति ।
सप्तसु विज्ञानस्थितिषु पञ्चस्कन्धस्वभावत्वेनेष्टासु । तत् कथं विज्ञानम्, न
विज्ञानस्थितिरिष्टमिति । एवं तर्हीति विस्तरः । अभेदेनैकपिण्डरूपेण रूपादीनां
स्कन्धानामपपत्त्यायतनसंगृहीतेषु स्कन्धेषु मनुष्यादिनिकाय सभागसंगृहीतेषु,
साभिरामायां साभिरत्यां विज्ञानप्रवृत्तौ विज्ञानं विज्ञानस्थितिः सप्तविज्ञानस्थिति-
१. परिहारेण—का० । २. ०मेवारुह्य—का० ।
३. पञ्चस्कन्धसंगृहीताः—का० ।