सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 425, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 425

विधाय सहस्रशः स्वर्गं च प्राप्ता अपवर्गं चेति उपपादुकानां हि सत्त्वानां
बाह्यबीजाभावान्मृतानां कायो नावतिष्ठते, निशान्त इव तैलप्रद्योतोऽन्तर्धीयते ।
आधिष्ठानिकीमृद्धिं भगवत इच्छतां न युक्त एष परिहारः ॥
प्रश्नात् प्रश्नान्तरमुत्पद्यते¹—
यद्युपपादुकानां² कायनिधनं न प्रज्ञायते, कथमुक्तं सूत्रे—“उपपादुकः
सुपर्णी उपपादुकं नागमुद्धरति भक्षार्थम्” इति ? नोक्तं भक्षयतीति, अपि
तूद्धरति भक्षार्थमङ्गत्ववादित्यदोषः । भक्षयति वा यावन्न मृतो भवति, न
पुनर्मृतस्यास्य तृप्यतीति ॥
कतमा योनिः सर्वबह्वी ? उपपादु़कैव । सा हि द्वे³ गती³—तिसृणां च
प्रदेशः, सर्वे चान्तराभविका इति ॥ ९ ॥
बाह्यबीजाभावादिति । बाह्यस्य शुक्रशोणितकर्दमादेरभावादित्यर्थः । आधि-
ष्ठानिकीमिति । यदधितिष्ठति इदमेवं भवत्विति तदधिष्ठानम्, तत्प्रयोजनम-
स्याः, तत्र वा भवा ऋद्धिराधिष्ठानिकी । तामिच्छतां बौद्धानां न युक्त एष
परिहार इति । कतमः ? य उक्तः—शरीरधातूनामवस्थापनार्थमिति ।
प्रश्नात् प्रश्नान्तरमुत्पद्यत इति । अथ किमर्थं चरमभविको बोधिसत्त्व इति
प्रश्न उक्तो विस्तरेण । तत्र चोक्तम्—शरीरधातूनामवस्थापनार्थमिति
विस्तरः । तस्मात् प्रश्नादिदं प्रश्नान्तरमुत्पद्यते—यद्युपपादुकानामिति ।
विस्तरः—कायनिधनं कायनाशः । उपपादुकः सुपर्णी उपपादुकं नागमिति
विशेषणद्वयं किमर्थम्, किमनुपपादुका अपि सुपर्णिनो नागाश्च सन्ति ?
सन्तीत्याहुः । चतुर्विधा हि गरुडा नागाश्च, अण्डजादिभेदात्; तेषामुपपादुका
उत्तमाः, संस्वेदजा उपोत्तमाः, जरायुजा मध्याः, अण्डजा जघन्याः । तत्रोप-
पादुकः सुपर्णी सर्वानुपपादुकादीनुद्धरति भक्षार्थम्, संस्वेदजस्त्वोन् संस्वेदजादीन्,
जरायुजो द्वौ जरायुजाण्डजौ, अण्डजोऽण्डजमेवेति वर्णयन्ति । यावन्न मृत
इति । यदा जीवति तदा तन्मांसादि नान्तर्धीयत इति प्रदर्शितं भवति ।
न पुनर्मृतस्यास्य तृप्यतीति । न पुनर्मृतेनानेन तृप्यतीत्यर्थः । “तृपिपूर्वो
विभाषा” ( ) इति विभाषा षष्ठीष्यते । तस्य मृतस्याकाशस्येव
भक्षितस्य मांसपिण्डान्तर्धानान्न तृप्यतीत्यवगन्तव्यम् ।
सा हि द्वे गती इति । नरकगतिः, देवगतिश्च । तिसृणां च प्रदेश इति ।
तिर्यक्-प्रेत-मनुष्यगन्त्यन्तरालत्वात् ॥ ९ ॥
१. ०मुपजायते—का० । २. यद्यप्युप०—का० । ३-३. द्विगती—का० ।