सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 409, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 409

३८८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
निर्माणचित्ते कथं कामरागः ? श्रुत्वा परिहाय च तदास्वादनात् । निर्माण-
वशेन वा निर्माणकचित्तोऽपि^१ रागः । गन्धरसनिर्माणान् वा तस्य कामा-
वचरत्वम्; रूपावचरेण तयोर्निर्माणात् ।
किं पुनरेकमेव त्रैधातुकम् ? त्रैधातुकानामान्तो नास्ति। यावदाकाशं तावन्तो
धातवः । अत एव च नास्त्यपूर्वसत्त्वप्रादुर्भावः । प्रतिबुद्धोत्पादं चासंख्येय-
सत्त्वपरिनिर्वाणेऽपि नास्ति सत्त्वानां परिक्षयः, आकाशवत् ।
कथमवस्थानं लोकधातूनाम् ?
तिर्यक्सूत्र उक्तम्, तद्यथा—“ईषाधारे देवे वर्षति नास्ति वीचिर्वा
अन्तरिका वा अन्तरिक्षाद्^२ वारिधाराणां प्रपतन्तीनाम्; एवं पूर्वस्यां दिशि नास्ति
वीचिर्वा अन्तरिका वा लोकधातूनां संवर्तमानानां विवर्तमानानां च । यथा
पूर्वस्यां दिशि, एवं दक्षिणस्याम्, पश्चिमायाम्, उत्तरस्याम्” ( ) इति ।
निर्माणचित्ते कथं कामराग इति । कामावचरे निर्माणचित्ते ध्यानफले
कथं कामवीतरागाणां कामरागः, यतस्तस्य न कामावचरत्वम्; यदा
ह्यसाववीतरागस्तदा निर्माणचित्तं न समुदाचरन्ति, यदा निर्माणचित्तं
समुदाचरति तदा न तस्य राग उत्पद्यते, कथमस्य कामरागेण विना कामा-
वचरत्वं व्यवस्थाप्यत इत्यर्थः । श्रुत्वा परिहाय च तदास्वादनादिति । श्रुत्वा
तत्परतो निर्माणचित्तेऽस्य राग उत्पद्यते, परिहाय वा आत्मीयान्निर्माण-
चित्तात्, तस्यास्वादनादिति । एवं ध्यायिनः कामावचरेण निर्माणचित्तेन
कामावचरं निर्माणं निर्मिण्वन्तीति श्रुत्वा तदालम्बनो राग उत्पद्यते । अनुस्मृत्य
चात्मीयं तत्र राग उत्पद्यते । निर्माणवशेनेति । मनोहरं निर्माणं दृष्ट्वा निर्माणके
चित्ते निर्माणकस्य वा चित्ते रागः, दर्शयतीत्यं निर्माणचित्तं यस्येदृशं निर्माण-
मिति । गन्धरसनिर्माणाद्वेति । यत् कामावचरनिर्माणनिर्माणकं कामावचरं
तच्चित्तम्; कामावचरधर्महेतुत्वाद्, घटहेतुचित्तवत् । यत्तु न कामावचरं
न तत् कामावचरधर्महेतुः, तद्यथा रूपावचरं चित्तम् । अत एवाह—रूपावचरेण
तयोर्निर्माणादिति । कस्मात् पुना रूपावचरेण चित्तेन तयोर्गन्धरसयोर-
निर्माणम् ? तयोर्गन्धरसयोः कवड्डीकाराहारस्वभावत्वात् । रूपधातूपपन्नं च
तद्वीतरागत्वादिति ।
ईषाधार इति । ईषाप्रमाणवर्षधारः । नास्ति वीचिर्वा अन्तरिका वेति ।
१. निर्माणक०—का० । २. अन्तरिक्षाद्—का० ।