सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] द्वितीयं कोशस्थानम् ३६१
नव चित्तानि
आरूप्यावचरात् कुशलान्नव चित्तान्युत्पद्यन्ते । कामावचरं कुशलम्,
कामरूपावचरे चानिवृताव्याकृते हित्वा ।
तत् षण्णां
आरूप्यावचरं कुशलं स्वेभ्यस्त्रिभ्यः—रूपावचरात् कुशलात्, शैक्षा-
शैक्षाभ्यां च ।
निवृतात् सप्त
आरूप्यावचरानिवृतात् स्वभूमिकानि त्रीणि रूपावचरं कुशलं च कामा-
वरं क्लिष्टद्वयम् ।
तत् तथा ।
तदपि सप्तभ्य एवोत्पद्यते । कामरूपावचराणि क्लिष्टानि शैक्षाशैक्षे
च हित्वा ।
चतुर्भ्यः शैक्षम्
त्रैधातुकेभ्यः कुशलेभ्यः, शैक्षाच्च ।
अश्माक्षं तु पञ्च
तान्येव चत्वारि, अशैक्षं च ।
आरूप्यावचरात् कुशलान्नवेति । स्वभूमिकानि त्रीणि, रूपावचरं कुशलम्,
तत्समापत्तिव्युत्थानकाले प्रतिलोमसमापत्तौ च । अधरभूमिकानि च क्लिष्टानि
प्रतिसन्धिकाले । शैक्षमशैक्षं च ।
कामावचरं कुशलं कामरूपावचरे चानिवृताव्याकृते हित्वाति । न कामावचरेण
कुशलेन तत्समापत्तेर्व्युत्थानं सम्भवति; अतिविप्रकृष्टत्वात् । अत एव च
नानिवृताव्याकृतेनाप्यपटुत्वाच्च । अत एव च न रूपावचरेणानिवृता-
व्याकृतेन व्युत्थानम् । न चैभिः प्रतिसन्धिवन्धोऽस्तीति नैषामत उत्पत्तिः ।
तत् षण्णामनन्तरमिति वर्तते ।
रूपावचरात् कुशलादिति । समापत्तिकोले। शैक्षाशैक्षाभ्यां चेति व्युत्थानकाले।
रूपावचरं कुशलमिति । क्लिष्टसमाध्युत्पीडितस्य । निवृत्तं चेत्यादि। प्रतिसन्धिकाले
कामरूपावचराणि क्लिष्टानि शैक्षाशैक्षे च हित्वेति । अधोभूम्यवीतरागस्य तेन
प्रतिसन्धेरभावात् शैक्षाशैक्षाभ्यां च तेन व्युत्थानासम्भवान्न तेभ्यस्तदुत्पत्तिः ।
तान्येव चत्वार्यशैक्षं चेति । त्रीणि त्रैधातुकारि कुशलानाि व्युत्थानकाले, शैक्षं च

त्रिषु द्विधा ॥ ७१ ॥`
Wait, let's look at द्विधा:
Is it द्विधा or द्विविधा?
Line 11: "त्रिषु द्विधा ॥ ७१ ॥"
Wait, look at "द्विधा":
The 'द्वि' has a conjunct 'द्' and 'वि', with 'i' matra. It looks like 'द्विधा'.

Line 12:
त्रिषु धातुषु चित्तं द्विधा भिद्यते---प्रायोगिकं च, औपपत्तिलाभिकं च ।
Wait, the dash: in the image it's --प्रायोगिकं (two dashes/hyphens).

Line 13:
विपाकजैर्यापथिक-शैलपस्थानिक-नैर्मितम् ।

Line 14:
चतुर्धाऽव्याकृतं कामे

Line 15:
'भित्त्वा' इति वर्तते । कामावचरमनावृताव्याकृतं चतुर्धा भिद्यते—

Line 16:
विपाकजम्, ऐर्यापथिकम्, शैलपस्थानिकम्, निर्माणचित्तं च ।

Line 17:
Under the horizontal rule/divider:
Wait, is there a divider?
Yes, there's a broken horizontal line between the upper section (Bhāṣya) and the lower section (Sphuṭārthā vyākhyā)!
Line 1

..."
Let's find the exact text around line 18-19 in Sphutartha:
"...ईर्यापथाद्यभावादिति । ईर्यापथशिल्पस्थाननिर्माणाभावात् । एतानि त्रीण्यारूप्यधातौ न सन्ति; आलम्बनभूतस्य रूपस्याभावात् ।"
And what comes next in Yashomitra?
Let's think: the Bhasya text says: "रूपगन्धरसस्प्रष्टव्यान्येषामालम्बनम् ।"
Yashomitra explains:
"रूपगन्धरसस्प्रष्टव्यान्येषामालम्बनमिति ।" or "रूपगन्धरसस्प्रष्टव्यादीत्येषामालम्बनमिति"?
Wait! In Yashomitra:
Does he say "रूपगन्धरसस्प्रष्टव्यादीत्येषामालम्बनमिति" or "रूपगन्धरसस्प्रष्टव्यान्येषामालम्बनम्"?
Wait, look at what's printed in our book:
In L18: "...भावात् । पगन्धरसस्प्रष्टव्या-"
In L19: wait, look at L19:
Could it be: "दीत्येषामालम्बनमिति ।" ?
Wait, what if the text in this edition (Pradhan or Dwarikadas Shastri) is:
Let's check Dwarikadas Shastri's edition of Abhidharmakosa with Sphutartha:
Wait! In Dwar

३६४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
एषां पुनर्विंशतेश्चित्तानां कस्य कतमत् समनन्तरम् ?
कामावचराणां तावदष्टानां प्रायोगिकानन्तरं दश चित्तान्युत्पद्यन्ते ।
स्वभूमिकानि सप्त, अन्यत्राभिज्ञाफलात् ।
रूपावचरं प्रायोगिकं शैक्षमशैक्षं च । तत् पुनरष्टचित्तानन्तरम् । स्वेभ्यः
कुशलक्लिष्टेभ्यः रूपावचराभ्यां प्रायोगिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च ।
उपपत्तिप्रतिलम्भिकानन्तरं नव । स्वभूमिकानि सप्त, अन्यत्राभिज्ञाफलाद् ।
रूपारूप्यावचरे च क्लिष्टे ।
तत् पुनरेकादशानन्तरम् । स्वेभ्यः सप्तभ्यः पूर्ववत्, रूपावचराभ्यां प्रायो-
गिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च ।


मुत्पादितं मनोविज्ञानमस्ति द्वादशायतनालम्बनम् । चक्षुरायतनालम्बनं यावद्
धर्मायतनालम्बनमनिवृताव्याकृतस्वभावमित्यपरे । तदेवं प्रदर्शयन्ति--अन्य-
दप्यनिवृताव्याकृतमस्ति यदैर्यापथिकादिषु नान्तर्भवतीति । इत्थमेव च
प्रतिपत्तव्यम् । अन्यथा हि यद् वक्ष्यति--
“कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकञ्च यत् ।
द्वितीयादौ तदाद्यप्तमक्लिष्टाव्याकृतञ्च तत्” ॥ ( अभि० को० ७.१३ )
स्वभूमिकेन निर्माणं भाषणं त्वधरेण च ।” ( अभि० को० ७.५६ )
इत्यादि, तानि विज्ञानान्येषां चतुर्णां कतमेन संगृहीतानि ! न तावद्
विपाकजानि, ऊर्ध्वोपपन्नानामधरभूमिकविपाकासम्भवात् । नैर्यापथिकादीनि,
ईर्यापथाद्यभावात् । अज्ञानादिवासनाचित्तं च क्व प्रवेशयितव्यम् ! भदन्ता-
नन्तवर्मणापि विभाषाव्याख्यान उक्तम्--एतच्चतुष्टयव्यतिरिक्तान्यव्याकृतानि
विज्ञानानि सन्तीति । सावशेषमेतद् भाष्यमित्यवगन्तव्यम् ।
अन्यत्राभिज्ञाफलादिति । कामावचरं निर्माणचित्तं रूपावचरप्रायोगिका-
नन्तरमेवोत्पद्यते, न कामावचरप्रायोगिकानन्तरम् । रूपावचरं प्रायोगिकं
शैक्षमशैक्षं चेति । समापत्तिकोले । स्वेभ्यः कुशलक्लिष्टेभ्य इति । स्वाभ्यां
कुशलाभ्यां क्लिष्टाभ्याञ्च; प्रयोगकाले क्लिष्टासद्भावात् । क्लेशपरिखिन्नस्य
च प्रायोगिकोत्पत्तेः । नानिवृताव्याकृतेभ्यो दुर्बलानभिसंस्कारिकत्वात् । रूपा-
वचराभ्यां प्रायोगिकक्लिष्टाभ्यामिति । प्रायोगिकात् क्लिष्टात् । शैक्षाशैक्षाभ्याञ्च
व्युत्थानकाले । क्लिष्टात् क्लिष्टसमाध्युत्पीडितस्य । रूपारूप्यावचरे च क्लिष्टे
इति । प्रतिसन्धिकाले । सम्भवति ह्युपपत्तिप्रतिलम्भिकचित्तस्य मरणम् ।
पूर्ववदिति । अन्यत्राभिज्ञाफलादित्यर्थः । तद्धि रूपावचरप्रायोगिकानन्तरमेवे-

निर्देशः ] द्वितीयं कोशस्थानम् ३६५
अकुशलनिवृताव्याकृतानन्तरं सप्त । स्वान्येव पूर्ववत् ।
ते पुनश्चतुर्दशचित्तानन्तरम् । स्वेभ्यः सप्तभ्यः रूपावचरेभ्यश्चतुर्भ्योऽन्यत्र
प्रायोगिकाभिज्ञाफलाभ्याम् । आरूप्यावचरेभ्यस्त्रिभ्योऽन्यत्र प्रायोगिकात् ।
ऐर्यापथिकविपाकजानन्तरमष्टौ । स्वभूमिकानि षडन्यत्र प्रायोगिकाभिज्ञाफला-
भ्यां रूपारूप्यावचरे च क्लिष्टे । ते पुनः सप्तचित्तानन्तरं स्वेभ्य एव पूर्ववत् ।
शैल्पस्थानिकानन्तरं षट् । स्वान्येवा, अन्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् ।
तत् पुनः सप्तानन्तरम्; स्वेभ्य एवान्यत्राभिज्ञाफलात् ।
अभिज्ञाफलानन्तरं द्वे । स्वं चाभिज्ञाफलमेव, रूपावचरं च प्रायोगिकम् ।
तदप्यस्मादेव द्वयात् ।
रूपावचराणामिदानीं षण्णां वक्ष्यामः¹ । प्रायोगिकानन्तरं द्वादश ।
कामावचरकुशले² अभिज्ञाफलं च स्वानि षट् आरूप्यावचरं च प्रायोगिकं
शैक्षमशैक्षं च ।
त्युक्तम् । रूपावचराभ्यां चेति विस्तरेण पूर्ववद् व्याख्यानम् । अकुशलनिवृता-
व्याकृतानन्तरमिति । अकुशलानन्तरं निवृताव्याकृतानन्तरं चेति विभक्तव्यम् ।
तुल्यत्वाद्धि तद् युगपद्वचनम् ।
रूपावचरेभ्यश्चतुर्भ्यः । अन्यत्र प्रायोगिकाभिज्ञाफलाभ्यामिति । प्रतिसन्धि-
काले, प्रायोगिकेऽभिज्ञाफे च स्थितस्य नास्ति मरणम् । अतस्ताभ्यां तत्
क्लिष्टद्वयं नोत्पद्यते । शेषेषु तु स्थितस्यास्ति मरणम् । अतस्तेभ्यस्तत् क्लिष्ट-
द्वयमुत्पद्यते । प्रतिसन्धिकाले । एवमन्यत्राप्यन्यत्र प्रायोगिकादिति व्याख्येयम् ।
षडन्यत्र प्रायोगिकाभिज्ञाफलाभ्यामिति । दुर्बलानभिसंस्कारिकत्वात् । अन-
योरनन्तरं प्रायोगिकं नोत्पद्यते । रूपावचप्रायोगिकानन्तरोत्पत्तेश्च न ताभ्यामं-
भिज्ञाफलोत्पत्तिः । रूपारूप्यावचरे च क्लिष्टे इति । प्रतिसन्धिकाले । शैल्पस्था-
निकानन्तरं षडिति । तत्रस्थस्य मरणासम्भवादैर्यापथिकविपाकजवदिह रूपा-
रूप्यावचरक्लिष्टयोरसम्भवः । स्वं चाभिज्ञाफलमेवेति । प्रवाहकाले । रूपावचरं
च प्रायोगिकमिति । तद्व्युत्थाने । न तदित्यप्रविश्य ध्यानमभिज्ञाफलाद् व्युत्थान-
मस्तीति । तदप्यस्मादेव द्वयादिति । तदभिज्ञाफलम् । प्रवाहे तत्प्रवेशकाले च ।
कामावचरकुशले इति । व्युत्थानकाले । अस्ति हि सम्भव उपपत्तिप्रति-
लम्भिकेनापि समापत्तिव्युत्थानं पटुत्वात् । अतो द्वयोरपि कुशलयोर्ग्रहणम् ।
१. वक्षामः—का० । २. कामावचरे०--का० ।

३६६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
तत् पुनर्द्दशचित्तानन्तरम् । कामावचराभ्यां प्रायोगिकाभिज्ञाफलाभ्यां
स्वेभ्यश्चतुर्भ्यः, अन्यत्रैर्यापथिकविपाकजाभ्यामारूप्यावचराभ्यां प्रायोगिकक्लिष्टा-
भ्यां शैक्षाशैक्षाभ्यां च ।
उपपत्तिप्रतिलम्भिकानन्तरमष्टौ । कामावचरे क्लिष्टे स्वानि पञ्चान्यत्राभि-
ज्ञाफलात् । आरूप्यावचरं क्लिष्टम् ।
तत् पुनः पञ्चभ्यः स्वेभ्यः एव, अन्यत्राभिज्ञाफलात् ।
क्लिष्टानन्तरं नव । कामावचराणि चत्वारि कुशलक्लिष्टानि स्वानि
पञ्च, अन्यत्राभिज्ञाफलात् ।
तत् पुनरेकादशचित्तानन्तरम् । कामावचरेभ्य उत्पत्तिप्रतिलम्भिकैर्या-
पथिकविपाकजेभ्यः स्वेभ्यः पञ्चभ्यः, अन्यत्राभिज्ञाफलात् । आरूप्यावचरेभ्यस्त्रिभ्यः,
अन्यत्र प्रायोगिकात् ।
ऐर्यापथिकानन्तरं सप्त । कामावचरे क्लिष्टे स्वानि चत्वारि, अन्यत्र प्रायो-
गिकाभिज्ञाफलाभ्यामारूप्यावचरं च क्लिष्टम् ।
तत् पुनः पञ्चानन्तरं स्वेभ्य एव, अन्यत्राभिज्ञाफलात् ।
एवं विपाकजं वक्तव्यम् ।
अभिज्ञाफलं चेति । कामावचरं निर्माणचित्तम् । आरूप्यावचरप्रायोगिक-
शैक्षाशैक्षाणि समापत्तिकाले ।
अन्यत्रैर्यापथिकविपाकजाभ्यामिति । तयोर्दुर्बलानभिसंस्कारिकत्वात् ।
प्रायोगिकक्लिष्टाभ्यामिति । व्युत्थानक्लिष्टसमापत्त्युत्पीडितकालयोः ।
कामावचरे क्लिष्टे इति । प्रतिसन्धिकाले । अन्यत्राभिज्ञाफलादिति । निर्माण-
चित्तस्य प्रायोगिकानन्तरोत्पत्ते । आरूप्यावचरं क्लिष्टमिति । प्रतिसन्धिकाले ।
कुशलक्लिष्टानीति । कुशले च क्लिष्टे च कुशलक्लिष्टानीति समासः । कुशलाधर-
भूमिकाश्रयणात् कुशले, क्लिष्टे तु प्रतिसन्धिकाले । कामावचरेभ्य इति ।
विस्तरः—प्रतिसन्धिकाले प्रायोगिकशौल्पस्थानिकाभिज्ञाफलेषु मृत्युनस्तीति
न तेभ्यः । कामावचरे क्लिष्टे इति प्रतिसन्धिकाले ।
आरूप्यावचरमपि क्लिष्टमस्मिन्नेव स्वं प्रायोगिकम्, अतो नोत्पद्यते ।
ऐर्यापथिकस्य दुर्बलानभिसंस्कारित्वेन प्रयोगानर्हत्वात् ।
एवं विपाकजमिति । यथैर्यापथिकमुक्तम्, तथेदं विपाकजानन्तरं सप्त यावद-
न्यत्राभिज्ञाफलादिति । तावेव ग्रन्थार्थौ ।

निर्देशः ] द्वितीयं कोशस्थानम् ३६७
अभिज्ञाफलानन्तरं द्वे स्वे एव प्रायोगिकाभिज्ञाफले । तदप्याभ्यामेव ।
आरूप्यावचराणामिदानीं चतुर्णां वक्ष्यामः ।
प्रायोगिकानन्तरं सप्त । रूपावचरं प्रायोगिकं स्वानि चत्वारि, शैक्षमशैक्षं
च स्वानि¹ चत्वारि¹ ।
तत् पुनः षट्चित्तानन्तरम् । रूपावचरात् प्रायोगिकात् । स्वेभ्यस्त्रिभ्यः,
अन्यत्र विपाकजात् शैक्षाशैक्षाभ्यां च ।
उपपत्तिप्रातिलम्भिकानन्तरं सप्त । स्वानि चत्वार्यधरधातुकानि² च
क्लिष्टानि ।
तत् पुनश्चतुर्भ्यः स्वेभ्य एव ।
क्लिष्टानन्तरमष्टौ । स्वानि चत्वारि रूपावचरे प्रायोगिकक्लिष्टे, कामावचरे
अपि³ क्लिष्टे ।
तत् पुनर्द्दशानन्तरम् । स्वेभ्यश्चतुर्भ्यः कामावचररूपावचरेभ्यश्चोपपत्ति-
प्रातिलम्भिकैर्यापथिकविपाकजेभ्यः ।
विपाकजानन्तरं षट् । स्वानि त्रीण्यन्यत्र प्रायोगिकादधराणि त्रीणि
क्लिष्टानि । तत् पुनश्चतुर्भ्यः स्वेभ्य एव ।
अभिज्ञाफलानन्तरं द्वे स्वे इति । व्युत्थाने प्रवाहे च । तदप्याभ्यामेवेति ।
प्रवेशे प्रवाहे च । रूपावचरं प्रायोगिकमिति । व्युत्थानकाले । एवं शैक्षमशैक्षञ्च
स्वानि चत्वारीति । कुशलं भवतीति स्फुटम् । क्लिष्टमास्वादनाकाले, अनिवृत्ता-
व्याकृतं तु व्युत्थानकाले ।
रूपावचरात् प्रायोगिकादिति । समापत्तिकाल । अन्यत्र विपाकजादिति । दुर्ब-
लानभिसंस्कारवाहित्वादिति कारणं वक्ष्यते । शैक्षाशैक्षाभ्याञ्चेति । समापत्तिकोले ।
अधरधातुकानि च क्लिष्टानीति । रूपावचरकामावचराणि प्रतिसन्धि-
काले । प्रायोगिकक्लिष्टे इति । प्रायोगिकं क्लिष्टसमाध्युत्पीडनात् । क्लिष्टं
प्रतिसन्धिकाले । कामावचरेऽपि क्लिष्टे प्रतिसन्धिकाले एव ।
कामावचररूपावचरेभ्य इति विस्तरः । तच्चित्तस्थमरणसम्भवात् ।
अन्यत्र प्रायोगिकादिति । विपाकजानन्तरं प्रायोगिकानुत्पत्तेः । अधराणि
त्रीणि क्लिष्टानीति । द्विधातुकानि प्रतिसन्धिकाले ।
१-१. का० पुस्तके नास्ति । २. ०भूमिकानि-ब०। ३. का० पुस्तके नास्ति ।

... what are the words in Dwarikadas Shastri's edition?
Wait! In the verse:
"प्रायोगिकाच्छुभात् कामे दशाष्टभ्यस्तदन्यतः ।
शुभान्नवैकादशतस्तत् सप्त क्लिष्टतः पृथक् ॥
चतुर्दशभ्यस्तच्चैतेऽपि..."
Wait, why does page 368 have that garbled text?
In the Bauddha Bharati edition, page 368, there is a famous typographical error / printer's smash!
Look at L10: The typesetter dropped something or types got smashed:
"चतुर्दशभ्यस्तच्चैतेऽपि नै... विपाकजात् ।"
Wait, what did the typesetter actually set?
Let's look closely at the image:
चतुर्दशभ्यस्तच्चैतेऽपि नै... विपाकजात् ।
Underneath च्चैतेऽपि नै:
ष्टोष्टावेनपि?
Wait! Look at the letters:
चतुर्दशभ्यस्त
Then:
top: च्चैतेऽपि नै
bottom: ...ष्टोष्टावेनपि...
Wait, is that चतुर्दशभ्यस्तच्चैतेऽष्टौ...?
Wait, look at:
ष्टो (ṣṭo) ष्टा (ṣṭā) वे (ve) न (na)

निर्देशः ] द्वितीयं कोशस्थानम् ३६९
दुर्बलानभिसंस्कारवाहित्वाच्चैतानि न प्रायोगिकानुकूलानि । निष्क्रमणचित्तं
त्वनभिसंस्कारवाहीति युक्तोऽस्य प्रायोगिकचित्तानन्तरमुत्पादः ।
एवं तर्हि क्लिष्टेभ्योऽपि प्रायोगिकं नोत्पद्यते, विगुणत्वात् ? तथापि क्लेश-
समुदाचारपरिखिन्नस्य तत्परिज्ञानाद् युक्तः प्रायोगिकसम्मुखीभावः । कामाव-
चरमुपपत्तिप्रतिलम्भिकं पटुत्वात् शैक्षाशैक्षाभ्यां रूपावचरप्रायोगिकाच्चानन्तर-
मुत्पद्यते । अनभिसंस्कारवाहित्वात् तस्मादेतानि नोत्पद्यन्ते । रूपावचरक्लिष्टानन्तरं
संस्करणे प्रवृत्तम्, गमनाद्याकारत्वात् । शैलपस्थानिकं च शिल्पाभिसंस्करणे
प्रवृत्तम्, 'इदमेव करोमीदमेव करोमि' इत्येवमाकारप्रवृत्तत्वात् । दुर्बलानभि-
संस्कारवाहित्वान्न विपाकजानन्तरं प्रायोगिकं नोत्पद्यते । तद्धि विपाकजमव्या-
कृतत्वाद् दुर्बलम्; पूर्वकर्माक्षेपात् । अयत्नेन च प्रवृत्तेरनभिसंस्कारवाहीति ।
अथ वा—ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वाद् ऐर्यापथिकशैलपस्थानिका-
नन्तरं न प्रायोगिकमुत्पद्यते । दुर्बलानभिसंस्कारवाहित्वाच्च ऐर्यापथिक-
शैलपस्थानिकविपाकजानन्तरं प्रायोगिकं नोत्पद्यते; सर्वेषामव्याकृतत्वेन
दुर्बलत्वात् । अनभिसंस्कारवाहित्वाच्च विपाकजस्यैवैकस्य ऐर्यापथिक-
शैलपस्थानिकयोरपि वा प्रायोगिकाभिसंस्काराभावात् । अन्यव्यापारपरत्व-
मात्राद्धि तयोरभिसंस्करणप्रवृत्तत्वमुक्तम् । अथ वा—अयमेवास्य वाक्यस्याभि-
सम्बन्धः—ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात्, दुर्बलानभिसंस्कारवाहित्वा-
च्चैतानि विपाकजैर्यापथिकशैलपस्थानिकानि न प्रायोगिकानुकूलानि । अतो न
तदनन्तरं प्रायोगिकमुत्पद्यत इति सम्बन्धनीयम् । निष्क्रमणचित्तं त्वनभि-
संस्कारवाहीति । प्रायोगिकचित्तप्रवाहाद् यदन्यच्चित्तं तन्निष्क्रमणचित्तम् ।
तेन ह्यसौ योगी ततः प्रवाहान्निष्क्रामति; तदवसानत्वात् । निष्क्रमणचित्तमन-
भिसंस्कारवाह्यानाभोगवाहीति युक्तोऽस्य निष्क्रमणचित्तस्य विपाकजादीना-
मन्यतमस्वभावस्य प्रायोगिकचित्तादनन्तरमुत्पादः ।
एवं तर्हीति । यदि न प्रायोगिकानुकूलानीति विपाकजादिभ्योऽनन्तरं
प्रायोगिकं नोत्पद्यते, एवं तर्हि क्लिष्टेभ्योऽपि प्रायोगिकं नोत्पद्यते विगुणत्वात् ।
विगुणो हि क्लिष्टो धर्मः कुशलस्य नानुकूल इत्यर्थः; तद्विरोधित्वात् । तथापीति
विस्तरः । यद्यपि तद्विगुणम्, तथापि क्लेशसमुदाचारपरिखिन्नस्य योगिनस्तत्-
परिज्ञानात् क्लेशसमुदाचारपरिज्ञानाद् युक्तः प्रायोगिकसम्मुखीभावः । तत्परि-
ज्ञानमेव हि प्रायोगिकं चित्तमिति । पटुत्वादिति । कामावचरमुत्पत्तिप्रतिलम्भिकं पटु
तच्छैक्षादिभ्यो व्युत्थानचित्तं सम्भवति । अत एव च क्लिष्टसमाध्युत्पीडितस्य
तदाश्रयणं भवति । अनभिसंस्कारवाहित्वात् तु तस्य तस्माच्छैक्षादीनि नोत्पद्यन्ते ।
अभि० को० २४

३७० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
कामावचरमुपपत्तिप्रतिलम्भिकमुत्पद्यते; पटुत्वात् । आरूप्यावचरक्लिष्टानन्तरं
तु रूपावचरमुपपत्तिप्रतिलम्भिकं नोत्पद्यते; अपटुत्वादिति ॥
त्रयो मनस्काराः—१. स्वलक्षणमनस्कारः, तद्यथा—“रूपणालक्षणं
रूपम्” इत्येवमादि; २. सामान्यलक्षणमनस्कारः षोडशाकारसम्प्रयुक्तः;
३. अधिमुक्तिमनस्कारः, अशुभाप्रमाणारूप्यविमोक्षाभिभ्वायतनकृत्स्नायतनादिषु ।
त्रिविधमनस्कारानन्तरमार्यमार्ग सम्मुखीकरोति, तस्मादपि त्रिविधं मनस्कारम् ।
एवं सति युक्तमिदं भवति—“अशुभासहगतं स्मृतिसम्बोध्यङ्गं भावयति” इति ?
सामान्यमनस्कारानन्तरमेवार्यमार्ग सम्मुखीकरोति । तस्मात् तु त्रिविधमि-
त्यपरे ।
अशुभाया तु चित्तं दमयित्वा सामान्यमनस्कारानन्तरमार्य

करोति । अतः पारम्पर्यमभिसन्धायोक्तम्—"अशुभासहगतं स्मृतिसम्बोध्याङ्गं
॰ावयति" इति ।
आर्यमार्गानन्तरमपि सामान्यमनस्कारमेवेत्यपरे ।
स्यात् तावदनागम्यादित्रीभूमिसन्निश्रयेण¹ नियामावक्रान्तौ तन्मार्गानन्तरं
कामावचरं सामान्यमनस्कारं सम्मुखीकुर्याद्, अथ द्वितीयादिध्यानसन्निश्रयेण
नियामावक्रान्तौ कथम् ? न हि कामावचरः शक्योऽतिविप्रकृष्टत्वात् । न च
तद्भूमिकः प्रतिलब्धोऽन्यत्र निर्वेधभागीयात् । न चार्यो निर्वेधभागीय पुनः
सम्मुखीकरोति । न हि प्राप्तफलस्य तत्प्रयोगसम्मुखीभावो युक्त इति अन्यो-
ऽप्यस्य तज्जातीयः सामान्यमनस्कारो भावनां गच्छति । तद्यथा—"सर्व-
आर्यमार्गानन्तरमपीति विस्तरः । न केवलं सामान्यमनस्कारानन्तरमार्य-
मार्गं सम्मुखीकरोति, आर्यमार्गानन्तरमपि सामान्यमनस्कारमेव सम्मुखीकरोती-
त्यपरे ।
स्यात्तावदिति विस्तरः । अनागम्यादीति । आदिशब्देनानागम्यप्रथमध्यान-
ध्यानान्तर-त्रिभूमिसन्निश्रयेण नियामावक्रान्तौ तन्मार्गानन्तरं त्रिमार्गानन्तरं कामा-
वचरं सामान्यमनस्कारं श्रुतमयं चिन्तामयं वा सम्मुखीकुर्यात्; सन्निकृष्टत्वात् ।
अथ द्वितीयादिध्यानसन्निश्रयेण द्वितीयतृतीयचतुर्थध्यानसन्निश्रयेण नियामाव-
क्रान्तौ कथमार्यमार्गानन्तरं कथं सामान्यमनस्कारं सम्मुखीकरोति । न हि
कामावचरः शक्यः सम्मुखीकर्त्तुमिति वाक्यशेषः । कस्मात् ? प्रथमध्यानाव्यवहित-
त्वेनातिविप्रकृष्टत्वात् । ब्रूयास्त्वम्—द्वितीयादिध्यानभूमिकमेव सम्मुखीकरिष्य-
तीति ? अत आह—न च तद्भूमिकः प्रतिलब्धोऽन्यत्र निर्वेधभागीयादिति ।
द्वितीयध्यानादिभूमिकोऽनागम्यादिभूमिको वानास्रवो मार्गोऽन्यत्र निर्वेधभागी-
यान्न प्रतिलब्ध आसीत् । अनाकारापतितस्तु लौकिको मार्गः प्रतिलब्ध आसीत् ,
न तु सः । तस्मादार्याय व्युत्थानाथं रोचते । निर्वेधभागीयंतर्हि सामान्यमन-
स्कारं सम्मुखीकरिष्यतीति ? अत आह—न चार्यो निर्वेधभागीयमिति विस्तरः ।
किमर्थमिति चेत् ? अत आह—न हि प्राप्तफलस्य तत्प्रयोगसम्मुखीभावो युक्त इति ।
प्रयोगस्य कृतार्थत्वान्निहीनत्वाच्च निर्वेधभागीयानि चार्यमार्गस्य प्रयोग इति ।
अन्योऽप्यस्य तज्जातीय इति । यः सत्यालम्बनत्वान्निर्वेधभागीयजातीयः सामान्य-
मनस्कारो भावनां गच्छति । अनास्रवमार्गोत्पत्तिककाले प्राप्यत इत्यर्थः ।
१. ०संनिश्रयेण—का० ।

३७२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
संस्कारा अनित्याः", "सर्वधर्मा अनात्मानः", "शान्तं निर्वाणम्" इति, तत्
सम्मुखीकरिष्यति ?
तदेतन्न वर्णयन्ति । अनागम्यं निश्रित्यार्हत्त्वं प्राप्नुवतः तद्भूमिकं कामावचरं
वा व्युत्थानं चित्तम् । आकिञ्चन्यायतनं निश्रित्य तद्भूमिकं भावाग्रिकं वा ।
शेषासु स्वभूमिकमेव । कामधातौ त्रयो मनस्काराः—श्रुतचिन्तामयोपपत्तिप्रति-
लम्भिकाः, भावनामयो नास्ति । रूपधातौ त्रयः—श्रुतभावनामयोपपत्तिप्रति-
लम्भिकाः, चिन्तामयो नास्ति । यदा चिन्तयितुमारभन्ते तदैषां समाधिरेवोप-
तिष्ठते । आरूप्यधातौ भावनामयोपपत्तिप्रतिलम्भिकौ । तत्र पञ्चविधमनस्कारानन्तर-
मार्यमार्गसम्मुखीभावोऽन्यत्रोपपत्तिप्रतिलम्भिकेभ्यः; प्रयोगप्रतिबद्धत्वात् । मार्गानन्तरं
तूपपत्तिप्रतिलम्भिकस्यापि कामावचरस्य सम्मुखीभावः, पटुत्वादिति ॥ ७२ ॥
यानि द्वादश चित्तानि उक्तानि, एषां कतमस्मिंश्चित्ते कतीनां लाभः ?
क्लिष्टे त्रिधातुके¹ लाभः षण्णां षण्णां द्वयोः
कामावचरे हि² क्लिष्टे चित्ते सम्मुखीभूते षण्णां चित्तानां लाभः ।
कथम् ? 'शान्तं निर्वाणम्' इति सामान्यमनस्कारः; सर्वनिर्वाणालम्बनत्वात् ।
तान्मुक्त्वाऽन्यानि । सर्वसंस्कारा अनित्या इति वा, सर्वधर्मा अनात्मान
इति वा, शान्तं निर्वाणमिति वा आर्यमार्गानन्तरं सम्मुखीकरिष्यतीति ।
तदेतन्न वर्णयन्ति । कस्मात् ? एषां तज्जातीयानां सामान्यमनस्काराणां
निर्वेधभागीयप्रतिबद्धभावनत्वात् । न किलैषामनास्रवमार्गप्रतिबद्धभावेनेति ।
अनागम्यं निश्रित्येति विस्तरः । तद्भूमिकमिति । अनागम्यभूमिकम् । तद्भूमिकं
भावाग्रिकं वेति । आकिञ्चन्यायतनभूमिकं भावाग्रिकं वा यदि भवाग्रोपपन्नो
भवति । शेषासु भूमिषु, स्वभूमिकमेव व्युत्थानचित्तम्, नान्यभूमिकम् ; अन्यभूमि
कस्य प्रयोगसाध्यत्वात् । स्वभूमिकमनभिसंस्कारेण भवतीति ।
प्रयोगप्रतिबद्धत्वादिति । कस्य ? आर्यमार्गस्य । मार्गानन्तरं तूपपत्तिप्रति
लम्भिकस्यापि कामावचरस्य सम्मुखीभाव इत्यधिकृतम् ॥ ७२ ॥
“क्लिष्टे त्रिधातुके लाभः षण्णां षण्णां द्वयोः” इति । यथासंख्येन निर्देशः ।
कामावचरे क्लिष्टे षण्णां चित्तानां लाभः । प्रतिलम्भ इत्यर्थः । रूपावचरे षण्णाम्,
आरूप्यावचरे द्वयोरिति । तेनाह-कामावचरे हि क्लिष्ट इति विस्तरः । तैरसमन्या-
१. त्रैधातुके—का० । २. का० पुस्तके नास्ति ।

निर्देशः ] द्वितीयं कोशस्थानम् ३७३
तैरसमन्वागतस्य कामावचरस्य कुशलस्य विचिकित्सया कुशलमूलप्रतिसन्धानाद्,
धातुप्रत्यागमनाच्च । अकुशलनिवृताव्याकृतयोः रूपावचरस्य १ क्लिष्टस्य धातु-
प्रत्यागमनात्, परिहाणितश्च । आरूप्यावचरस्य क्लिष्टस्य परिहाणितः शैक्षस्य च ।
रूपावचरे २ क्लिष्टे षष्णां लाभः । रूपावचराणां त्रयाणाम्, कामा-
गतस्येति । तैः षड्भिश्चित्तैरसमन्वागतस्य पुद्गलस्य । कथम् ? इह कुशलप्रति-
सन्धानं सम्यग्दृष्ट्या वा, विचिकित्सया वा । तद्यदि विचिकित्सया प्रतिसन्धत्ते, तत्र
विचिकित्सासम्प्रयुक्ते क्लिष्टे चित्ते सम्मुखीभूते रूपधातोरारूप्यधातोर्वा कामधातुं
प्रत्यागच्छति । तदास्यान्तराभवप्रतिसन्धिचित्तेऽवश्यक्लिष्टे तस्य कुशलस्य
लाभस्तेनासन्मवागतस्येति । अकुशलनिवृत्ताव्याकृतयोरिति । विस्तरः—अकुशलं
च निवृताव्याकृतं च कामावचरमेवाधिकाराद्, रूपावचरस्य च निवृतस्य पृथक्
पाठात् । तयोरकुशलनिवृताव्याकृतयो रूपावचरस्य क्लिष्टस्य । किम् ? लाभ
इति प्रकृतम् । कथं लाभः ? इत्याह—धातुप्रत्यागमनात् परिहाणितश्चेति । यदा रूप-
धातोरारूप्यधातोर्वा कामधातुं प्रत्यागच्छति तदास्यान्तराभवप्रतिसन्धिचित्तेऽव-
श्यं क्लिष्टेऽकुशलनिवृताव्याकृतयोरन्यतरस्मिन् सम्मुखीभूते तयोरकुशलनिवृता-
व्याकृतयोर्लाभो भवति; पूर्वविहीनत्वात् तेनासन्मवागतस्य । परिहाणितश्च ।
यदा च कामवैराग्यात् परिहीयते तदास्थ क्लिष्टे पारिहाणिचित्ते सम्मुखीभूते
तयोः क्लिष्टयोर्लाभस्तेनासन्मवागतस्य । रूपावचरस्य च क्लिष्टस्य धातुप्रत्या-
गमनात् । यदारूप्यधातोः कामधातुं प्रत्यागच्छति तदास्यान्तराभवप्रतिसन्धि-
चित्तेऽवश्यं क्लिष्टे रूपावचरस्य क्लिष्टस्य पूर्वविहीनस्य लाभो भवति तेना-
समन्वागतस्य । परिहाणितश्च । यदा रूपवैराग्यात् परिहीयते कामावचरेण
चित्तेन, तदास्य वैराग्यत्यक्तस्य रूपावचरस्य क्लिष्टस्य लाभो भवति तेनासम-
न्वागतस्य । आरूप्यावचरस्य क्लिष्टस्य परिहाणितः । यदा कामावचरेण चित्तेना-
रूप्यवैराग्यात् परिहीयते, तदास्यारूप्यावचरस्य क्लिष्टस्य लाभो भवति तेना-
समन्वागतस्य । शैक्षस्य च । परिहाणित इत्यधिकृतम् । यदा कामावचरेण
चित्तेनार्हत्त्वात् परिहीयते तदास्य शैक्षचित्तस्य लाभो भवति तेनासमन्वागतस्य ।
एवं तावत् कामावचरे क्लिष्टे चित्ते सम्मुखीभूते षण्णां चित्तानां लाभ
उक्तस्तैरसमन्वागतस्य ।
रूपावचरे क्लिष्टे चित्ते सम्मुखीभूते षण्णां लाभस्तैरसमन्वागतस्य । रूपा-
वचराणामिति । विस्तरः—यदा आरूप्यधातो रूपधातुं प्रत्यागच्छति तदास्य
१. रूपावचरस्य च—का० । २. रूपावचरेऽपि—का० ।

३७४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
वचरस्य चानिवृताव्याकृतस्य; धातुप्रत्यागमनात्। आरूप्यावचरस्य क्लिष्टस्य
शैक्षस्य च परिहाणितः।
आरूप्यावचरे तु क्लिष्टे द्वयोर्लाभः। परिहाणितस्तस्यैव क्लिष्टस्य
शैक्षस्य च।
शुभे।
त्रयाणां रूपजे
रूपावचरे कुशले त्रयाणां चित्तानां लाभः, तस्यैव कुशलस्य कामरूपा-
वचरयोश्चानिवृताव्याकृतयोः।
शैक्षे चतुर्णां
तस्यैव शैक्षस्य कामरूपावचरयोश्चानिवृताव्याकृतयोराप्यावचरस्य च
कुशलस्य। आर्यमार्गेण कामरूपधातुवैराग्ये।
रूपावचरान्तराभवप्रतिसन्धिश्चित्तेऽवश्यं क्लिष्टे रूपावचराणां त्रयाणां
कुशलस्योपपत्तिप्रतिलम्भिकस्य क्लिष्टस्यानिवृताव्याकृतस्य च निर्माणचित्त-
स्याग्रजप्राप्तिसद्भावात्। कामावचरस्य चानिवृताव्याकृतस्य निर्माणचित्तस्यैव।
आरूप्यावचरस्य क्लिष्टस्य शैक्षस्य च लाभः। परिहाणितो रूपावचरेण चित्ते-
नार्हत्त्वात् परिहीयमाणस्य तदसमन्वागतस्य।
एवं रूपावचरेऽपि क्लिष्टे षष्णां लाभ उक्तः।
आरूप्यावचरे तु क्लिष्टे द्वयोर्लाभस्ताभ्यामसमन्वागतस्य। परिहाणित
आरूप्यावचरेण चित्तेनार्हत्त्वात् परिहीयमाणस्यैव क्लिष्टस्य यस्यैकदेशः
सम्मुखीभूतः शैक्षस्य चेति।
“रूपावचरे कुशले त्रयाणाम्” इति। कुशल इति जातिनिर्देशः। कुशले
कस्मिंश्चिद् रूपावचरे त्रयाणां लाभः सम्भवः। कथम् ? आद्ये तावद् रूपावचरे
कुशले चित्ते सम्मुखीभूते तस्यैव कुशलस्य रूपावचरस्य लाभस्तेनासमन्वा-
गतस्य। मौलध्यानसंगृहीते तु कुशले चित्ते सम्मुखीभूते कामावचररूपावचर-
योरनिवृताव्याकृतयोर्निर्माणचित्तयोर्लाभस्ताभ्यामसमन्वागतस्य। इत्येवं कुशले
रूपावचरे चित्ते सम्मुखीभूते त्रयाणां लाभ इत्युच्यते, न तु युगपल्लाभ इति।
“शैक्षे चतुर्णाम्” इति। शैक्षे चित्ते सम्मुखीभूते दुःखे धर्म ज्ञानक्षान्तिचित्ते
तस्यैव शैक्षस्य दुःखधर्मज्ञानक्षान्तिकलापस्वभावस्य लाभस्तेनासमन्वागतस्य।
कामरूपावचरयोश्चानिवृताव्याकृतयोराप्यावचरस्य च कुशलस्य। कस्मिन् कलापे?
इत्याह—आर्यमार्गेण कामरूपवैराग्ये। कथमिति ? यदा अयमनागम्यभूमिकेनार्य-

मार्गेण कामवैराग्यं करोति, तदा नवविमुक्तिमार्गसंगृहीते शैक्षे चित्ते सम्मुखीभूते
कामारूपावचरयोरनिवृताव्याकृतयोर्निर्माणचित्तयोर्लाभस्ताभ्यामसमन्वागत -
स्य । यदा तु षड्भूमिकानामार्यमार्गाणामन्यतमेन रूपवैराग्यं करोति, तदाद्य-
प्रकारचित्ते शैक्षे सम्मुखीभूतेऽतीतानागतप्राप्तिन्यायेन। रूपावचरस्य कुशलस्य
लाभस्तेनासमन्वागतस्य । आर्यमार्गग्रहणं सास्रवचित्तनिरासार्थम् । शैक्षे चित्ते
सम्भूतेऽयं लाभो वर्ण्यते ।
अत्राचार्यगुणमतिर्व्याचष्टे—
“शैक्षे चतुर्णाम्” । तस्यैव शैक्षस्य कामरूपावचरयोश्चानिवृताव्याकृतयो-
रारूप्यावचरस्य च कुशलस्येति । कथम् ? इत्यतो ब्रवीति—आर्यमार्गेण
कामरूपवैराग्ये । यदा अयमनागम्यभूमिकेनार्यमार्गेण कामधातुवैराग्यं करोति,
तदा यो नवमो विमुक्तिमार्गस्तस्मिन् मौलध्यानभूमिकमपूर्वं शैक्षं लभत
इति शैक्षस्य लाभ उच्यते । कामरूपावचरयोरनिवृताव्याकृतयोर्निर्माण-
चित्तयोरेव तस्मिन् लाभः । षड्भूमिकेन त्वार्यमार्गेण कामरूपवैराग्ये । यो
नवमो विमुक्तिमार्गस्तस्मिन्नारूप्यावचरं कुशलं प्रतिलभत इति ।
तच्छिष्योऽप्याचार्यवसुमित्रस्तमेवार्थं तेन वाक्येन तैरेव पदव्यञ्जनैर्लिखति ।
तदेतदयुक्तं व्याख्यानम्; न ह्येवमेकवाक्येन व्याख्यातार्थो घटते, वाक्य-
भेदेन घटते । ‘तस्यैव शैक्षस्य लाभः’ इत्येतदेकं वाक्यम्, ‘कामरूपावचरयोश्च
यावत् कामरूपधातुवैराग्ये’ इत्यपरं वाक्यम् । आर्यमार्गेण कामरूपधातुवैराग्य
इत्येतेन विशेषेण तस्यैव शैक्षस्येत्येतत् पूर्वार्द्धं न विशेष्यम्; वाक्यान्तरत्वात् ।
अतद्धतो ह्ययं चित्तलाभो वर्ण्यते; “चित्तलाभो ह्यतद्धतः” ( अभि० को० २.७३ )
इति वचनात् । कथम् ? नवमे विमुक्तिमार्गे शैक्षचित्तवतः पुद्गलस्य शैक्षचित्त-
लाभो व्यवस्थाप्यते । ननु चोक्तम्—मौलध्यानभूमिकपूर्वकं शैक्षं लभ्यत इति ?
न; अतिप्रसङ्गात् । रूपावचरमपि कुशलं चित्तं मौलध्यानभूमिकमपूर्वं प्रति-
लभ्यत इति तस्यापि लाभ इति प्रसज्येत ।
आचार्यवसुमित्र आह—शैक्षचित्तस्थितस्य कामधातुवैराग्ये कुशल-
मूष्मगतावस्थायामेव रूपावचरं नियामावक्रान्तौ लब्धमिति कृत्वा न
गण्यत इति ।
तदयुक्तम्; शैक्षस्याप्यगणनाप्राप्तेः । शैक्षमपि हि दर्शनमार्गावस्थायां लब्ध-
मिति न भवता तथा स्थापयितव्यमिति प्राप्नोति । अतश्चेदमपव्याख्यानमिति
निश्चीयते । यस्मादाचार्येणैव मिश्रश्लोकव्याख्यान एवं लिखितम्—शैक्षस्या-
शैक्षस्य च नियामावक्रान्त्यर्हत्त्वयोरिति ।

३७६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय -
तस्य शेषिते ॥ ७३ ।
शेषं कृतं शेषितम् । यत्र चित्ते लाभो न व्याख्यातः, तत्र तस्यैव लाभो
द्रष्टव्यः, नान्येषाम्¹ ।
अन्ये पुनरभेदेनाहुः—
“क्लिष्टे चित्ते नवानां हि लाभ इत्युच्यते बुधैः ।
षष्णां तु कुशले चित्ते तस्यैवाव्याकृते खलु ॥”
शेषं कृतं शेषितम् इति । प्रातिपदिकधातुरूपमेतदिति दर्शयति । यत्र चित्ते
लाभो न व्याख्यातस्तत्र तस्यैव लाभ इति । कथं कृत्वा ? कामावचरे तावत्
कुशलचित्त इयतां चित्तानां लाभ इति न व्याख्यातः, तत्र तस्यैव लाभो
नान्येषाम् । तद्यथा सम्यग्दृष्ट्या कुशलमूलप्रतिसन्धाने कामावचरे कुशले चित्ते
सम्मुखीभूते तस्यैव कुशलस्य चित्तस्य लाभस्तेनासमन्वागतस्य । नान्येषां क्लि-
ष्टानां त्रैधातुकानापि; पूर्वप्रतिलब्धत्वात् । न कामावचरस्यानिवृताव्याकृतस्य;
विपाकजादीनां सहजप्राप्तिकत्वात् । निर्माणचित्तस्य प्राप्त्यभावात् । न रूपा-
रूप्यावचराणां कुशलादीनां शैक्षाशैक्षयोश्च प्राप्त्यभावात् । अनिवृताव्याकृतेऽपि
कामावचरे चित्ते लाभो न व्याख्यातः । तत्र तस्यैव लाभस्तेनासमन्वागतस्य;
“अव्याकृताप्तिः सहजा” (अभि०को०२.३८) इति कृत्वा । नान्येषां कुशलादीनां
पूर्वप्रतिलब्धत्वात् । तथैव केषाञ्चित् प्राप्त्यभावाच्च । निर्माणचित्ते तु सम्मुखी-
भूते न कस्यचिल्लाभ इति न वक्तव्यम् । यत्र हि क्लिष्टेऽन्यत्र वा कस्यचि-
ल्लाभो नास्ति, न तदुच्यते । क्लिष्ट एव हि त्रैधातुके षष्णां यावद् द्वयो-
र्लाभो न त्ववश्यमित्यवधारणम्, रूपावचरेऽप्यनिवृताव्याकृते सम्मुखीभूते
तस्यैव लाभः, नान्येषाम् । पूर्ववद् वक्तव्यम् । तथारूप्यावचरे आकाशानन्त्या-
यतनसामन्तकाष्टप्रकारसंगृहीते कुशलचित्ते सम्मुखीभूते तस्यैव लाभस्तेनासम-
न्वागतस्य । नान्येषां केषाञ्चित्; पूर्वप्रतिलब्धत्वात्, केषाञ्चित् प्राप्त्यभावात् ।
एवमनिवृताव्याकृते शैक्षे च ।
अन्ये पुनरभेदेनाहुरिति । के ? मिश्रककाराः । अभेदेनेति त्रैधातुकानां
क्लिष्टादीनामपृथक्करणात् ।
“षष्णां तु कुशले चित्ते” इति यदुक्तं तन्न्यूनं लक्षणम् । कुशलं हि त्रैधातुकं
सास्त्रवमनास्रवं च ।
१. नान्यस्य—का० ।

Wait, does it have an 'े' matra on 'त्त'?
Look at line 1: "कुशले चित्त इति वक्तव्यम् ।"
Wait! There is NO 'े' on 'चित्त'! It is literally "चित्त इति" (sandhi: चित्ते + इति -> चित्त इति, where e drops before i in arsha/classical hiatus, or just printed without e).
Wait, look at line 5:
"तत्र सप्तानां कुशले चित्ते इति वक्तव्यं न षण्णामिति तद्दर्शयन्नाह—कामाव-"
Here in line 5, it DOES have 'े': "चित्ते इति"!
In line 1, it says: "चित्त इति"!

Wait, let's check line 10:
"यदाकाशानन्त्यायतन-"
Wait, is it यदाकाश or यदाकाश?
'य', 'द', 'ा', 'क', 'ा', 'श', 'ा', 'न', 'न', '्' 'त', '्' 'य', 'ा', 'य', 'त', 'न'
Wait: 'यदा' + 'आकाश...' = 'यदाकाश...'!
Yes: "यदाकाशानन्त्यायतन-"

Let's check line 12:
"धर्मज्ञानक्षान्तिकलापस्य लाभः ।"
Wait, line 12 ends with:
"तदा शै

३७८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रियनिर्देशः
संग्रहश्लोकः—
उपपत्ति-समापत्ति-वैराग्य-परिहाणिषु ।
कुशलप्रतिसन्धौ च चित्तलाभो ह्यतद्वतः ॥ इति ॥ ७३ ॥
समाप्तः प्रत्ययप्रसङ्गः ॥
अभिधर्मकोशभाष्ये इन्द्रियनिर्देशो नाम
द्वितीयं कोशस्थानं समाप्तमिति¹
संग्रहश्लोक इति । सर्वम्—"उपपत्तौ" धातूपपन्नादिति वचनात् ।
"समापत्तौ" तस्यैव कुशलस्यैवमादिवचनात् ततस्त्यसमाधिलाभत इति
वचनात् । "वैराग्ये" कामरूपधातुवैराग्य इति वचनात् । "परिहाणौ" परि-
हाणित इति वचनात् । "कुशलप्रतिसन्धौ च" इति विचिकित्सया सम्यग्दृष्ट्या
च कुशलमूलप्रतिसन्धानादिति वचनात् । "चित्तलाभः" चित्तप्रतिलम्भः ।
"ह्यतद्वतः" पुद्गलस्य तैरसमन्वागतस्येति वचनादिति ॥ ७३ ॥
आचार्ययशोमित्रकृतायामभिधर्मकोशव्याख्यायाम्
इन्द्रियनिर्देशो नाम
द्वितीयं कोशस्थानं समाप्तम्
१. ०श्लोलामावाकस्य—का० ।

तृतीयं कोशस्थानम्
( लोकनिर्देशः )
इदमीदानीं वक्तव्यम् - कामरूपारूप्यधातुनैयम्येन१ चित्तादीनां कृतो
निर्देशः, तत्र कतमे ते कामरूपारूप्यधातव इति ? उच्यते—
नरकप्रेततिर्यञ्चो मनुष्याः षड् दिवौकसः ।
कामधातुः,
स्फुटार्थाव्याख्यायां
तृतीयं कोशस्थानम्
इदमीदानीं वक्तव्यमिति । द्वितीयस्य तृतीयस्य च कोशस्थानस्य सम्बन्ध-
प्रदर्शनार्थमिदमुक्तम् । चित्तादीनां कृतो निर्देश इति ।
नियमस्य भावो नैयम्यम्, नियम एव वा नैयम्यम्, तेन चित्तादीनां कृतो
निर्देशः;
“कुशलाकुशलं कामे निवृत्तानिवृत्तं मनः ।
रूपारूप्येष्वकुशलादन्यत्र” ( अभि० को० २.६७ ) इति वचनात् ।
आदिशब्देन चैत्तादीनां ग्रहणम्;
“यदवितर्कविचारत्वात् कुशले कामचेतसि ।
कौकृत्यमिद्धाकुशलानान्ये ध्याने न सन्त्यतः ॥ ( अभि० २.२८ )
“ध्यानान्तरे वितर्कश्च ' ( अभि० २.३१ )
इति वचनात् ।
इन्द्रियाणां कामादिनैयम्येन कृतो निर्देशः;
“कामाप्तममलं हित्वा रूपाप्तं स्त्रीपुमिन्द्रिये ।
दुःखे च हित्वा रूपाप्तं सुखं चापोह्य रूपि च ॥” ( अभि० २.१२ )
इति वचनात् ।
तेन कामरूपादिधातवोऽन्तर्लक्षणा — इत्यतः पृच्छति—तत्र कतमे ते
कामरूपारूप्यधातव इति । अत इदमुच्यते—“नरकप्रेततिर्यञ्चः” इति ।
१. रूप्यनैयम्येन—का० ।

तृतीय एवं चतुर्थ कोशस्थान: लोक-निर्देश (संसार रचना) एवं कर्म-निर्देश

३८० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
चतस्रो गतयः; षड्¹ देवनिकायाः, तद्यथा—चातुर्महाराजिकाः²,
त्रयस्त्रिंशाः³, यामाः, तुषिताः, निर्माणरतयः, परनिर्मितवशवर्तिनश्च—इत्येष
कामधातुः सह भाजनलोकेन ।
स एष कति स्थानानीति ? आह—
स नरकद्वीपभेदेन विंशतिः ॥ १ ॥
'स्थानानि' इति वाक्यशेषः सम्बध्यते । अष्टौ महानरकाः—सञ्जीवः,
विस्तरः—चतस्रो गतय इति । नरकप्रेततिर्यङ्मनुष्यगतयश्चतस्रः साकल्येन
कामधातावन्तर्गताः, देवगतिस्तु न साकल्येन । किं तर्हि ? षड् देवनिकाया
इति दर्शयति । तत्र नीयन्त इति "नृ नये" (मा० धा० ९.२६), न रञ्जयन्तीति
रञ्जेः (१.७२१) । नरेरिति "री गतिरेषणयोः" (मा० धा० ९.३२) इत्यस्य
प्रतिषेधपूर्वस्य रूपम्। नीयन्तेऽस्मिन् सत्त्वा अपुण्येनेति नरकाः। न रञ्जयन्त इति
नरका इत्यपरे । नरेरासादनार्थस्यैतद्रूपम् । रञ्जयन्ति प्रावन्ति नास्पृहयन्ति
त्राणमिति नरका इत्याचार्यसङ्घभद्रः । भृशमितोऽपुनरावृत्तेरिताः प्रेताः,
पिपासया परीता इत्यपरे । तिर्यग्गमनात् तिर्यञ्चः । मनस उद्भूतत्वा-
न्मनुष्याः । मनोरपत्या इति लौकिकाः । द्यौरौको येषामिति "दिवौकसः" ।
"कामप्रभावितो धातुः कामधातुः" (अभि० को० भा० ३ ३) इति
वक्ष्यति । चत्वारो महाराजानो लोकपालाः—विरूढकः, विरूपाक्षः, धृत-
राष्ट्रः, वैश्रवणश्च, तेषु भवाः चातुर्महाराजिकाः । तन्मध्यगता इत्यर्थः ।
तद् यथा देवेषूपपद्यते, देवमध्ये उत्पद्यत इत्यर्थः । चतुर्महाराजस्थाने भवाश्चा-
तुर्महाराजिकाः, मध्यमपदलोपो गोरथवदित्यपरे । सकृत्सुकृतैरत्रोपपद्यन्त इति
त्रयस्त्रिंशाः । समानपुण्यैरित्यर्थः । अष्टौ वसवः, द्वावश्विनौ, एकादश रुद्राः
द्वादशादित्या इति तावत् प्रमुखत्वात् त्रयस्त्रिंशा इति लौकिकाः । तदनुसारेण
प्रवचनेऽपि तथा नामव्यवहार इत्यपरे । दुःखाद् याताः पुण्येन नेति यामाः ।
दुःखानि वा यामयन्तीति यामाः । तुषा तुष्ट्या इताः, तुषो वा विद्यन्ते
एषामिति तुषिताः । स्वयं कृते निर्माणे रतिरेषामिति निर्माणरतयः । पर-
निर्मितान् भोगान् वशे वर्त्तयितुं शीलमेषामिति परनिर्मितवशवर्तिनः ।
स्थानानीति वाक्यशेष इति । यानि विंशतिस्थानानि स कामधातुः । यदि
तु विंशतिस्थानः “विंशतिः” इति उत्तरपदलोपः क्रियेत, तद्यथा—पीततोया
अश्वाः पीता इति, सुतरां श्लिष्यति । सञ्जीवः, यत्र सत्त्वान् म्रियमाणान्
१. षट् च—का० । २. चातुर्महाराजकायिकाः—का० ।
३. त्रायस्त्रिंशाः—का० ।