सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 390, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 390

निर्देशः ] द्वितीयं कोशस्थानम् ३६९
दुर्बलानभिसंस्कारवाहित्वाच्चैतानि न प्रायोगिकानुकूलानि । निष्क्रमणचित्तं
त्वनभिसंस्कारवाहीति युक्तोऽस्य प्रायोगिकचित्तानन्तरमुत्पादः ।
एवं तर्हि क्लिष्टेभ्योऽपि प्रायोगिकं नोत्पद्यते, विगुणत्वात् ? तथापि क्लेश-
समुदाचारपरिखिन्नस्य तत्परिज्ञानाद् युक्तः प्रायोगिकसम्मुखीभावः । कामाव-
चरमुपपत्तिप्रतिलम्भिकं पटुत्वात् शैक्षाशैक्षाभ्यां रूपावचरप्रायोगिकाच्चानन्तर-
मुत्पद्यते । अनभिसंस्कारवाहित्वात् तस्मादेतानि नोत्पद्यन्ते । रूपावचरक्लिष्टानन्तरं
संस्करणे प्रवृत्तम्, गमनाद्याकारत्वात् । शैलपस्थानिकं च शिल्पाभिसंस्करणे
प्रवृत्तम्, 'इदमेव करोमीदमेव करोमि' इत्येवमाकारप्रवृत्तत्वात् । दुर्बलानभि-
संस्कारवाहित्वान्न विपाकजानन्तरं प्रायोगिकं नोत्पद्यते । तद्धि विपाकजमव्या-
कृतत्वाद् दुर्बलम्; पूर्वकर्माक्षेपात् । अयत्नेन च प्रवृत्तेरनभिसंस्कारवाहीति ।
अथ वा—ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वाद् ऐर्यापथिकशैलपस्थानिका-
नन्तरं न प्रायोगिकमुत्पद्यते । दुर्बलानभिसंस्कारवाहित्वाच्च ऐर्यापथिक-
शैलपस्थानिकविपाकजानन्तरं प्रायोगिकं नोत्पद्यते; सर्वेषामव्याकृतत्वेन
दुर्बलत्वात् । अनभिसंस्कारवाहित्वाच्च विपाकजस्यैवैकस्य ऐर्यापथिक-
शैलपस्थानिकयोरपि वा प्रायोगिकाभिसंस्काराभावात् । अन्यव्यापारपरत्व-
मात्राद्धि तयोरभिसंस्करणप्रवृत्तत्वमुक्तम् । अथ वा—अयमेवास्य वाक्यस्याभि-
सम्बन्धः—ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात्, दुर्बलानभिसंस्कारवाहित्वा-
च्चैतानि विपाकजैर्यापथिकशैलपस्थानिकानि न प्रायोगिकानुकूलानि । अतो न
तदनन्तरं प्रायोगिकमुत्पद्यत इति सम्बन्धनीयम् । निष्क्रमणचित्तं त्वनभि-
संस्कारवाहीति । प्रायोगिकचित्तप्रवाहाद् यदन्यच्चित्तं तन्निष्क्रमणचित्तम् ।
तेन ह्यसौ योगी ततः प्रवाहान्निष्क्रामति; तदवसानत्वात् । निष्क्रमणचित्तमन-
भिसंस्कारवाह्यानाभोगवाहीति युक्तोऽस्य निष्क्रमणचित्तस्य विपाकजादीना-
मन्यतमस्वभावस्य प्रायोगिकचित्तादनन्तरमुत्पादः ।
एवं तर्हीति । यदि न प्रायोगिकानुकूलानीति विपाकजादिभ्योऽनन्तरं
प्रायोगिकं नोत्पद्यते, एवं तर्हि क्लिष्टेभ्योऽपि प्रायोगिकं नोत्पद्यते विगुणत्वात् ।
विगुणो हि क्लिष्टो धर्मः कुशलस्य नानुकूल इत्यर्थः; तद्विरोधित्वात् । तथापीति
विस्तरः । यद्यपि तद्विगुणम्, तथापि क्लेशसमुदाचारपरिखिन्नस्य योगिनस्तत्-
परिज्ञानात् क्लेशसमुदाचारपरिज्ञानाद् युक्तः प्रायोगिकसम्मुखीभावः । तत्परि-
ज्ञानमेव हि प्रायोगिकं चित्तमिति । पटुत्वादिति । कामावचरमुत्पत्तिप्रतिलम्भिकं पटु
तच्छैक्षादिभ्यो व्युत्थानचित्तं सम्भवति । अत एव च क्लिष्टसमाध्युत्पीडितस्य
तदाश्रयणं भवति । अनभिसंस्कारवाहित्वात् तु तस्य तस्माच्छैक्षादीनि नोत्पद्यन्ते ।
अभि० को० २४