सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 394, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 394

निर्देशः ] द्वितीयं कोशस्थानम् ३७३
तैरसमन्वागतस्य कामावचरस्य कुशलस्य विचिकित्सया कुशलमूलप्रतिसन्धानाद्,
धातुप्रत्यागमनाच्च । अकुशलनिवृताव्याकृतयोः रूपावचरस्य १ क्लिष्टस्य धातु-
प्रत्यागमनात्, परिहाणितश्च । आरूप्यावचरस्य क्लिष्टस्य परिहाणितः शैक्षस्य च ।
रूपावचरे २ क्लिष्टे षष्णां लाभः । रूपावचराणां त्रयाणाम्, कामा-
गतस्येति । तैः षड्भिश्चित्तैरसमन्वागतस्य पुद्गलस्य । कथम् ? इह कुशलप्रति-
सन्धानं सम्यग्दृष्ट्या वा, विचिकित्सया वा । तद्यदि विचिकित्सया प्रतिसन्धत्ते, तत्र
विचिकित्सासम्प्रयुक्ते क्लिष्टे चित्ते सम्मुखीभूते रूपधातोरारूप्यधातोर्वा कामधातुं
प्रत्यागच्छति । तदास्यान्तराभवप्रतिसन्धिचित्तेऽवश्यक्लिष्टे तस्य कुशलस्य
लाभस्तेनासन्मवागतस्येति । अकुशलनिवृत्ताव्याकृतयोरिति । विस्तरः—अकुशलं
च निवृताव्याकृतं च कामावचरमेवाधिकाराद्, रूपावचरस्य च निवृतस्य पृथक्
पाठात् । तयोरकुशलनिवृताव्याकृतयो रूपावचरस्य क्लिष्टस्य । किम् ? लाभ
इति प्रकृतम् । कथं लाभः ? इत्याह—धातुप्रत्यागमनात् परिहाणितश्चेति । यदा रूप-
धातोरारूप्यधातोर्वा कामधातुं प्रत्यागच्छति तदास्यान्तराभवप्रतिसन्धिचित्तेऽव-
श्यं क्लिष्टेऽकुशलनिवृताव्याकृतयोरन्यतरस्मिन् सम्मुखीभूते तयोरकुशलनिवृता-
व्याकृतयोर्लाभो भवति; पूर्वविहीनत्वात् तेनासन्मवागतस्य । परिहाणितश्च ।
यदा च कामवैराग्यात् परिहीयते तदास्थ क्लिष्टे पारिहाणिचित्ते सम्मुखीभूते
तयोः क्लिष्टयोर्लाभस्तेनासन्मवागतस्य । रूपावचरस्य च क्लिष्टस्य धातुप्रत्या-
गमनात् । यदारूप्यधातोः कामधातुं प्रत्यागच्छति तदास्यान्तराभवप्रतिसन्धि-
चित्तेऽवश्यं क्लिष्टे रूपावचरस्य क्लिष्टस्य पूर्वविहीनस्य लाभो भवति तेना-
समन्वागतस्य । परिहाणितश्च । यदा रूपवैराग्यात् परिहीयते कामावचरेण
चित्तेन, तदास्य वैराग्यत्यक्तस्य रूपावचरस्य क्लिष्टस्य लाभो भवति तेनासम-
न्वागतस्य । आरूप्यावचरस्य क्लिष्टस्य परिहाणितः । यदा कामावचरेण चित्तेना-
रूप्यवैराग्यात् परिहीयते, तदास्यारूप्यावचरस्य क्लिष्टस्य लाभो भवति तेना-
समन्वागतस्य । शैक्षस्य च । परिहाणित इत्यधिकृतम् । यदा कामावचरेण
चित्तेनार्हत्त्वात् परिहीयते तदास्य शैक्षचित्तस्य लाभो भवति तेनासमन्वागतस्य ।
एवं तावत् कामावचरे क्लिष्टे चित्ते सम्मुखीभूते षण्णां चित्तानां लाभ
उक्तस्तैरसमन्वागतस्य ।
रूपावचरे क्लिष्टे चित्ते सम्मुखीभूते षण्णां लाभस्तैरसमन्वागतस्य । रूपा-
वचराणामिति । विस्तरः—यदा आरूप्यधातो रूपधातुं प्रत्यागच्छति तदास्य
१. रूपावचरस्य च—का० । २. रूपावचरेऽपि—का० ।