सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 393, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 393

३७२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
संस्कारा अनित्याः", "सर्वधर्मा अनात्मानः", "शान्तं निर्वाणम्" इति, तत्
सम्मुखीकरिष्यति ?
तदेतन्न वर्णयन्ति । अनागम्यं निश्रित्यार्हत्त्वं प्राप्नुवतः तद्भूमिकं कामावचरं
वा व्युत्थानं चित्तम् । आकिञ्चन्यायतनं निश्रित्य तद्भूमिकं भावाग्रिकं वा ।
शेषासु स्वभूमिकमेव । कामधातौ त्रयो मनस्काराः—श्रुतचिन्तामयोपपत्तिप्रति-
लम्भिकाः, भावनामयो नास्ति । रूपधातौ त्रयः—श्रुतभावनामयोपपत्तिप्रति-
लम्भिकाः, चिन्तामयो नास्ति । यदा चिन्तयितुमारभन्ते तदैषां समाधिरेवोप-
तिष्ठते । आरूप्यधातौ भावनामयोपपत्तिप्रतिलम्भिकौ । तत्र पञ्चविधमनस्कारानन्तर-
मार्यमार्गसम्मुखीभावोऽन्यत्रोपपत्तिप्रतिलम्भिकेभ्यः; प्रयोगप्रतिबद्धत्वात् । मार्गानन्तरं
तूपपत्तिप्रतिलम्भिकस्यापि कामावचरस्य सम्मुखीभावः, पटुत्वादिति ॥ ७२ ॥
यानि द्वादश चित्तानि उक्तानि, एषां कतमस्मिंश्चित्ते कतीनां लाभः ?
क्लिष्टे त्रिधातुके¹ लाभः षण्णां षण्णां द्वयोः
कामावचरे हि² क्लिष्टे चित्ते सम्मुखीभूते षण्णां चित्तानां लाभः ।
कथम् ? 'शान्तं निर्वाणम्' इति सामान्यमनस्कारः; सर्वनिर्वाणालम्बनत्वात् ।
तान्मुक्त्वाऽन्यानि । सर्वसंस्कारा अनित्या इति वा, सर्वधर्मा अनात्मान
इति वा, शान्तं निर्वाणमिति वा आर्यमार्गानन्तरं सम्मुखीकरिष्यतीति ।
तदेतन्न वर्णयन्ति । कस्मात् ? एषां तज्जातीयानां सामान्यमनस्काराणां
निर्वेधभागीयप्रतिबद्धभावनत्वात् । न किलैषामनास्रवमार्गप्रतिबद्धभावेनेति ।
अनागम्यं निश्रित्येति विस्तरः । तद्भूमिकमिति । अनागम्यभूमिकम् । तद्भूमिकं
भावाग्रिकं वेति । आकिञ्चन्यायतनभूमिकं भावाग्रिकं वा यदि भवाग्रोपपन्नो
भवति । शेषासु भूमिषु, स्वभूमिकमेव व्युत्थानचित्तम्, नान्यभूमिकम् ; अन्यभूमि
कस्य प्रयोगसाध्यत्वात् । स्वभूमिकमनभिसंस्कारेण भवतीति ।
प्रयोगप्रतिबद्धत्वादिति । कस्य ? आर्यमार्गस्य । मार्गानन्तरं तूपपत्तिप्रति
लम्भिकस्यापि कामावचरस्य सम्मुखीभाव इत्यधिकृतम् ॥ ७२ ॥
“क्लिष्टे त्रिधातुके लाभः षण्णां षण्णां द्वयोः” इति । यथासंख्येन निर्देशः ।
कामावचरे क्लिष्टे षण्णां चित्तानां लाभः । प्रतिलम्भ इत्यर्थः । रूपावचरे षण्णाम्,
आरूप्यावचरे द्वयोरिति । तेनाह-कामावचरे हि क्लिष्ट इति विस्तरः । तैरसमन्या-
१. त्रैधातुके—का० । २. का० पुस्तके नास्ति ।