सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 392, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 392

करोति । अतः पारम्पर्यमभिसन्धायोक्तम्—"अशुभासहगतं स्मृतिसम्बोध्याङ्गं
॰ावयति" इति ।
आर्यमार्गानन्तरमपि सामान्यमनस्कारमेवेत्यपरे ।
स्यात् तावदनागम्यादित्रीभूमिसन्निश्रयेण¹ नियामावक्रान्तौ तन्मार्गानन्तरं
कामावचरं सामान्यमनस्कारं सम्मुखीकुर्याद्, अथ द्वितीयादिध्यानसन्निश्रयेण
नियामावक्रान्तौ कथम् ? न हि कामावचरः शक्योऽतिविप्रकृष्टत्वात् । न च
तद्भूमिकः प्रतिलब्धोऽन्यत्र निर्वेधभागीयात् । न चार्यो निर्वेधभागीय पुनः
सम्मुखीकरोति । न हि प्राप्तफलस्य तत्प्रयोगसम्मुखीभावो युक्त इति अन्यो-
ऽप्यस्य तज्जातीयः सामान्यमनस्कारो भावनां गच्छति । तद्यथा—"सर्व-
आर्यमार्गानन्तरमपीति विस्तरः । न केवलं सामान्यमनस्कारानन्तरमार्य-
मार्गं सम्मुखीकरोति, आर्यमार्गानन्तरमपि सामान्यमनस्कारमेव सम्मुखीकरोती-
त्यपरे ।
स्यात्तावदिति विस्तरः । अनागम्यादीति । आदिशब्देनानागम्यप्रथमध्यान-
ध्यानान्तर-त्रिभूमिसन्निश्रयेण नियामावक्रान्तौ तन्मार्गानन्तरं त्रिमार्गानन्तरं कामा-
वचरं सामान्यमनस्कारं श्रुतमयं चिन्तामयं वा सम्मुखीकुर्यात्; सन्निकृष्टत्वात् ।
अथ द्वितीयादिध्यानसन्निश्रयेण द्वितीयतृतीयचतुर्थध्यानसन्निश्रयेण नियामाव-
क्रान्तौ कथमार्यमार्गानन्तरं कथं सामान्यमनस्कारं सम्मुखीकरोति । न हि
कामावचरः शक्यः सम्मुखीकर्त्तुमिति वाक्यशेषः । कस्मात् ? प्रथमध्यानाव्यवहित-
त्वेनातिविप्रकृष्टत्वात् । ब्रूयास्त्वम्—द्वितीयादिध्यानभूमिकमेव सम्मुखीकरिष्य-
तीति ? अत आह—न च तद्भूमिकः प्रतिलब्धोऽन्यत्र निर्वेधभागीयादिति ।
द्वितीयध्यानादिभूमिकोऽनागम्यादिभूमिको वानास्रवो मार्गोऽन्यत्र निर्वेधभागी-
यान्न प्रतिलब्ध आसीत् । अनाकारापतितस्तु लौकिको मार्गः प्रतिलब्ध आसीत् ,
न तु सः । तस्मादार्याय व्युत्थानाथं रोचते । निर्वेधभागीयंतर्हि सामान्यमन-
स्कारं सम्मुखीकरिष्यतीति ? अत आह—न चार्यो निर्वेधभागीयमिति विस्तरः ।
किमर्थमिति चेत् ? अत आह—न हि प्राप्तफलस्य तत्प्रयोगसम्मुखीभावो युक्त इति ।
प्रयोगस्य कृतार्थत्वान्निहीनत्वाच्च निर्वेधभागीयानि चार्यमार्गस्य प्रयोग इति ।
अन्योऽप्यस्य तज्जातीय इति । यः सत्यालम्बनत्वान्निर्वेधभागीयजातीयः सामान्य-
मनस्कारो भावनां गच्छति । अनास्रवमार्गोत्पत्तिककाले प्राप्यत इत्यर्थः ।
१. ०संनिश्रयेण—का० ।