अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 396, कुल 1258 में से
संदर्भ में पढ़ेंमार्गेण कामवैराग्यं करोति, तदा नवविमुक्तिमार्गसंगृहीते शैक्षे चित्ते सम्मुखीभूते
कामारूपावचरयोरनिवृताव्याकृतयोर्निर्माणचित्तयोर्लाभस्ताभ्यामसमन्वागत -
स्य । यदा तु षड्भूमिकानामार्यमार्गाणामन्यतमेन रूपवैराग्यं करोति, तदाद्य-
प्रकारचित्ते शैक्षे सम्मुखीभूतेऽतीतानागतप्राप्तिन्यायेन। रूपावचरस्य कुशलस्य
लाभस्तेनासमन्वागतस्य । आर्यमार्गग्रहणं सास्रवचित्तनिरासार्थम् । शैक्षे चित्ते
सम्भूतेऽयं लाभो वर्ण्यते ।
अत्राचार्यगुणमतिर्व्याचष्टे—
“शैक्षे चतुर्णाम्” । तस्यैव शैक्षस्य कामरूपावचरयोश्चानिवृताव्याकृतयो-
रारूप्यावचरस्य च कुशलस्येति । कथम् ? इत्यतो ब्रवीति—आर्यमार्गेण
कामरूपवैराग्ये । यदा अयमनागम्यभूमिकेनार्यमार्गेण कामधातुवैराग्यं करोति,
तदा यो नवमो विमुक्तिमार्गस्तस्मिन् मौलध्यानभूमिकमपूर्वं शैक्षं लभत
इति शैक्षस्य लाभ उच्यते । कामरूपावचरयोरनिवृताव्याकृतयोर्निर्माण-
चित्तयोरेव तस्मिन् लाभः । षड्भूमिकेन त्वार्यमार्गेण कामरूपवैराग्ये । यो
नवमो विमुक्तिमार्गस्तस्मिन्नारूप्यावचरं कुशलं प्रतिलभत इति ।
तच्छिष्योऽप्याचार्यवसुमित्रस्तमेवार्थं तेन वाक्येन तैरेव पदव्यञ्जनैर्लिखति ।
तदेतदयुक्तं व्याख्यानम्; न ह्येवमेकवाक्येन व्याख्यातार्थो घटते, वाक्य-
भेदेन घटते । ‘तस्यैव शैक्षस्य लाभः’ इत्येतदेकं वाक्यम्, ‘कामरूपावचरयोश्च
यावत् कामरूपधातुवैराग्ये’ इत्यपरं वाक्यम् । आर्यमार्गेण कामरूपधातुवैराग्य
इत्येतेन विशेषेण तस्यैव शैक्षस्येत्येतत् पूर्वार्द्धं न विशेष्यम्; वाक्यान्तरत्वात् ।
अतद्धतो ह्ययं चित्तलाभो वर्ण्यते; “चित्तलाभो ह्यतद्धतः” ( अभि० को० २.७३ )
इति वचनात् । कथम् ? नवमे विमुक्तिमार्गे शैक्षचित्तवतः पुद्गलस्य शैक्षचित्त-
लाभो व्यवस्थाप्यते । ननु चोक्तम्—मौलध्यानभूमिकपूर्वकं शैक्षं लभ्यत इति ?
न; अतिप्रसङ्गात् । रूपावचरमपि कुशलं चित्तं मौलध्यानभूमिकमपूर्वं प्रति-
लभ्यत इति तस्यापि लाभ इति प्रसज्येत ।
आचार्यवसुमित्र आह—शैक्षचित्तस्थितस्य कामधातुवैराग्ये कुशल-
मूष्मगतावस्थायामेव रूपावचरं नियामावक्रान्तौ लब्धमिति कृत्वा न
गण्यत इति ।
तदयुक्तम्; शैक्षस्याप्यगणनाप्राप्तेः । शैक्षमपि हि दर्शनमार्गावस्थायां लब्ध-
मिति न भवता तथा स्थापयितव्यमिति प्राप्नोति । अतश्चेदमपव्याख्यानमिति
निश्चीयते । यस्मादाचार्येणैव मिश्रश्लोकव्याख्यान एवं लिखितम्—शैक्षस्या-
शैक्षस्य च नियामावक्रान्त्यर्हत्त्वयोरिति ।