सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 399, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 399

३७८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रियनिर्देशः
संग्रहश्लोकः—
उपपत्ति-समापत्ति-वैराग्य-परिहाणिषु ।
कुशलप्रतिसन्धौ च चित्तलाभो ह्यतद्वतः ॥ इति ॥ ७३ ॥
समाप्तः प्रत्ययप्रसङ्गः ॥
अभिधर्मकोशभाष्ये इन्द्रियनिर्देशो नाम
द्वितीयं कोशस्थानं समाप्तमिति¹
संग्रहश्लोक इति । सर्वम्—"उपपत्तौ" धातूपपन्नादिति वचनात् ।
"समापत्तौ" तस्यैव कुशलस्यैवमादिवचनात् ततस्त्यसमाधिलाभत इति
वचनात् । "वैराग्ये" कामरूपधातुवैराग्य इति वचनात् । "परिहाणौ" परि-
हाणित इति वचनात् । "कुशलप्रतिसन्धौ च" इति विचिकित्सया सम्यग्दृष्ट्या
च कुशलमूलप्रतिसन्धानादिति वचनात् । "चित्तलाभः" चित्तप्रतिलम्भः ।
"ह्यतद्वतः" पुद्गलस्य तैरसमन्वागतस्येति वचनादिति ॥ ७३ ॥
आचार्ययशोमित्रकृतायामभिधर्मकोशव्याख्यायाम्
इन्द्रियनिर्देशो नाम
द्वितीयं कोशस्थानं समाप्तम्
१. ०श्लोलामावाकस्य—का० ।