सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 401, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 401

३८० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
चतस्रो गतयः; षड्¹ देवनिकायाः, तद्यथा—चातुर्महाराजिकाः²,
त्रयस्त्रिंशाः³, यामाः, तुषिताः, निर्माणरतयः, परनिर्मितवशवर्तिनश्च—इत्येष
कामधातुः सह भाजनलोकेन ।
स एष कति स्थानानीति ? आह—
स नरकद्वीपभेदेन विंशतिः ॥ १ ॥
'स्थानानि' इति वाक्यशेषः सम्बध्यते । अष्टौ महानरकाः—सञ्जीवः,
विस्तरः—चतस्रो गतय इति । नरकप्रेततिर्यङ्मनुष्यगतयश्चतस्रः साकल्येन
कामधातावन्तर्गताः, देवगतिस्तु न साकल्येन । किं तर्हि ? षड् देवनिकाया
इति दर्शयति । तत्र नीयन्त इति "नृ नये" (मा० धा० ९.२६), न रञ्जयन्तीति
रञ्जेः (१.७२१) । नरेरिति "री गतिरेषणयोः" (मा० धा० ९.३२) इत्यस्य
प्रतिषेधपूर्वस्य रूपम्। नीयन्तेऽस्मिन् सत्त्वा अपुण्येनेति नरकाः। न रञ्जयन्त इति
नरका इत्यपरे । नरेरासादनार्थस्यैतद्रूपम् । रञ्जयन्ति प्रावन्ति नास्पृहयन्ति
त्राणमिति नरका इत्याचार्यसङ्घभद्रः । भृशमितोऽपुनरावृत्तेरिताः प्रेताः,
पिपासया परीता इत्यपरे । तिर्यग्गमनात् तिर्यञ्चः । मनस उद्भूतत्वा-
न्मनुष्याः । मनोरपत्या इति लौकिकाः । द्यौरौको येषामिति "दिवौकसः" ।
"कामप्रभावितो धातुः कामधातुः" (अभि० को० भा० ३ ३) इति
वक्ष्यति । चत्वारो महाराजानो लोकपालाः—विरूढकः, विरूपाक्षः, धृत-
राष्ट्रः, वैश्रवणश्च, तेषु भवाः चातुर्महाराजिकाः । तन्मध्यगता इत्यर्थः ।
तद् यथा देवेषूपपद्यते, देवमध्ये उत्पद्यत इत्यर्थः । चतुर्महाराजस्थाने भवाश्चा-
तुर्महाराजिकाः, मध्यमपदलोपो गोरथवदित्यपरे । सकृत्सुकृतैरत्रोपपद्यन्त इति
त्रयस्त्रिंशाः । समानपुण्यैरित्यर्थः । अष्टौ वसवः, द्वावश्विनौ, एकादश रुद्राः
द्वादशादित्या इति तावत् प्रमुखत्वात् त्रयस्त्रिंशा इति लौकिकाः । तदनुसारेण
प्रवचनेऽपि तथा नामव्यवहार इत्यपरे । दुःखाद् याताः पुण्येन नेति यामाः ।
दुःखानि वा यामयन्तीति यामाः । तुषा तुष्ट्या इताः, तुषो वा विद्यन्ते
एषामिति तुषिताः । स्वयं कृते निर्माणे रतिरेषामिति निर्माणरतयः । पर-
निर्मितान् भोगान् वशे वर्त्तयितुं शीलमेषामिति परनिर्मितवशवर्तिनः ।
स्थानानीति वाक्यशेष इति । यानि विंशतिस्थानानि स कामधातुः । यदि
तु विंशतिस्थानः “विंशतिः” इति उत्तरपदलोपः क्रियेत, तद्यथा—पीततोया
अश्वाः पीता इति, सुतरां श्लिष्यति । सञ्जीवः, यत्र सत्त्वान् म्रियमाणान्
१. षट् च—का० । २. चातुर्महाराजकायिकाः—का० ।
३. त्रायस्त्रिंशाः—का० ।