सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 400, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 400

तृतीयं कोशस्थानम्
( लोकनिर्देशः )
इदमीदानीं वक्तव्यम् - कामरूपारूप्यधातुनैयम्येन१ चित्तादीनां कृतो
निर्देशः, तत्र कतमे ते कामरूपारूप्यधातव इति ? उच्यते—
नरकप्रेततिर्यञ्चो मनुष्याः षड् दिवौकसः ।
कामधातुः,
स्फुटार्थाव्याख्यायां
तृतीयं कोशस्थानम्
इदमीदानीं वक्तव्यमिति । द्वितीयस्य तृतीयस्य च कोशस्थानस्य सम्बन्ध-
प्रदर्शनार्थमिदमुक्तम् । चित्तादीनां कृतो निर्देश इति ।
नियमस्य भावो नैयम्यम्, नियम एव वा नैयम्यम्, तेन चित्तादीनां कृतो
निर्देशः;
“कुशलाकुशलं कामे निवृत्तानिवृत्तं मनः ।
रूपारूप्येष्वकुशलादन्यत्र” ( अभि० को० २.६७ ) इति वचनात् ।
आदिशब्देन चैत्तादीनां ग्रहणम्;
“यदवितर्कविचारत्वात् कुशले कामचेतसि ।
कौकृत्यमिद्धाकुशलानान्ये ध्याने न सन्त्यतः ॥ ( अभि० २.२८ )
“ध्यानान्तरे वितर्कश्च ' ( अभि० २.३१ )
इति वचनात् ।
इन्द्रियाणां कामादिनैयम्येन कृतो निर्देशः;
“कामाप्तममलं हित्वा रूपाप्तं स्त्रीपुमिन्द्रिये ।
दुःखे च हित्वा रूपाप्तं सुखं चापोह्य रूपि च ॥” ( अभि० २.१२ )
इति वचनात् ।
तेन कामरूपादिधातवोऽन्तर्लक्षणा — इत्यतः पृच्छति—तत्र कतमे ते
कामरूपारूप्यधातव इति । अत इदमुच्यते—“नरकप्रेततिर्यञ्चः” इति ।
१. रूप्यनैयम्येन—का० ।