अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
निर्देशः ] द्वितीयं कोशस्थानम् २६३
न च संस्कृतानां रूपादीनां तावत् संस्कृतत्वं लक्ष्यते, गृह्यतापि स्वभावम्,
यावत् प्राग्भावो न ज्ञायते पश्चाच्च सन्ततेश्च विशेषः । तस्मान्न तेनैव
तल्लक्षितं भवति । न च तेभ्यो द्रव्यान्तराण्येव जात्यादीनि विद्यन्ते ।
अथापि नाम द्रव्यान्तराण्येव जात्यादीनि भवेयुः ? किमयुक्तं स्यात् ?
एको धर्मः एकस्मिन्नेव काले जातः स्थितो जीर्णो नष्टः स्यादेषां सहभूतत्वात् १ ?
न; कारित्रकालभेदात् । अनागता हि जातिः कारित्रं २ करोति । यस्मान्न जातं
जन्यते । जनिते तु धर्मे वर्त्तमानाः स्थित्यादयः कारित्रं कुर्वन्तीति न यदा जायते
तदा तिष्ठति, विनश्यति वा ।
इदं तावदिह सम्प्रधार्यं भवेत्—किमनागतं द्रव्यतोऽस्ति नास्तीति पश्चा-
ज्जनयति वा न वेति सिद्ध्येत् । सत्यपि तु तस्मिन् जातिः कारित्रं कुर्वती कथ-
मनागता सिध्यतीत्यनागतलक्षणं वक्तव्यम् । उपरतकारित्रा चोत्पन्ना कथं वर्त्तमाना
न च संस्कृतानां रूपादीनां तावत् संस्कृतत्वं लक्ष्यते गृह्यतापि स्वभावम् ।
गृह्यतापि रूपादीनां स्वभावम् । यावत् प्राग्भावो न ज्ञायते । यावत् तेषां
रूपादीनां प्रागुत्पत्त्यभावो न ज्ञायते । पश्चाच्च । किम् ? अभावः, प्रागभावश्च
प्रध्वंसाभावश्च यावन्न ज्ञायते । सन्ततेश्च विशेषः । यावन्न ज्ञायत इति वर्त्तते ।
तस्मान्न तेनैव तल्लक्षितं भवति । न तेनैव संस्कृतत्वेन संस्कृतत्वं लक्ष्यते । किं
तर्हि ? प्रागभावादिभिस्तत् संस्कृतत्वं लक्ष्यते । यदि हि रूपादीनां स्वभावम्
गृह्णन् संस्कृतमिति गृह्णीयात्, प्राग्भावं पश्चादभावं न सन्ततेश्च विशेषमज्ञात्वा
तेनैव तल्लक्षितं स्यात् । न त्वेवं जानीत इति । न तेनैव तल्लक्षितं भवति ।
न च तेभ्योऽपि रूपादिभ्यो द्रव्यान्तराण्येव जात्यादीनि विद्यन्ते । 'जातिरादिः
प्रवाहस्य' इति विस्तरेण वचनात् ।
एषां सहभूतत्वात् । जात्यादीनां समानकालोत्पादत्वात् । न; कारित्रकाल-
भेदादिति । नैतदेवम्; कस्मात् ? कारित्रकालभेदात्, पुरुषकारकालभेदादि-
त्यर्थः । तत् प्रतिपादयन्नाह—अनागता हि जातिः कारित्रं करोतीति विस्तरः ।
किमनागतं द्रव्यतोऽस्ति नास्तीति । अनागतमेव तावद् द्रव्यतो नास्तीति
प्रतिपादयिष्यते । कुतोऽनागता जातिः कारित्रं करोतीत्यभिप्रायः । सत्यपि
तु तस्मिन्निति । सत्यपि तु द्रव्यतोऽनागते जातिरनागतावस्थाया कारित्रं
कुर्वती कथमनागता सिध्यति । अप्राप्तकारित्रं ह्यनागतमिति सिद्धान्तः, स
१. सहभूतत्वात्—का० ।
२. कारित्रं हि—का० ।
२६४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
सिद्धयतीति वर्तमानलक्षणं वक्तव्यम् ।
स्थित्यादयोऽपि च युगपत् कारित्रे वर्तमाना एकक्षण एव धर्मस्य स्थित-
जीर्णविनष्टतां प्रसञ्जेयुः । यदैव ह्येनं स्थितिः स्थापयति तदैव जरा जरयति अनि-
त्यता विनाशयतीति । किमयं तत्र काले तिष्ठतु, आहोस्विज्जीर्यतु विनश्यतु वा ।
योऽपि हि ब्रूयात्—स्थित्यादीनामपि कारित्रं क्रमेणेति ? तस्य क्षणिकत्वं
बाध्यते ।
अथाप्येवं ब्रूयात्—एष एव हि नः क्षणो यावतैतत् सर्वं समाप्यत इति ?
एवमपि ताभ्यां सहोत्पन्ना स्थितिस्तावत् स्थापयति, न तु जरा जरयति,
अनित्यता वा विनाशयतीति । कुत एतत् ? स्थितेर्बलीयस्त्वात् । पुनः केना-
बलीयस्त्वम् ? यदेनां¹ सह धर्मेणानित्यता निहन्ति² ।
कृतकृत्या पुनः कर्तुं नोत्सहते जातिवत् । स्थातुर्युक्तमनुसोढुम् ।
विरुध्येत, तस्माद् तद् वक्तव्यम् । कथं वर्तमाना सिध्यतीति । उपरतकारित्रोऽतीत
इष्यते, जातिश्चानागतेव । उपरतकारित्रे हि वर्तमानावस्थायामेवातीता
प्राप्नोतीति न वर्तमाना भवेदिति वर्तमानलक्षणं वक्तव्यमिति । अपरिसमाप्त-
कारित्रो वर्तमान इति चेत् ? अतीतो वर्तमानः स्यात्, अतीतस्यापि हि फल-
दानकारित्रमिष्यते । यदैव ह्येनं स्थितिरिति । विस्तरः—स्थितिजराविनाशवृत्तयो
ऽन्योन्यविप्रतिषिद्धाः । न हि स एव धर्मस्तिष्ठति च जीर्यति च विनश्यति चेति
युक्तो व्यवस्थापयितुम् । तस्य क्षणिकत्वं बाध्यत इति । प्रथमं स्थितिः स्थापयति,
ततो जरा जरयति, ततोऽनित्यता विनाशयति । क्षणत्रयावस्थानात् क्षणिकत्वं
बाध्यत इति ।
एष एव हि नः क्षण इति । कार्यपरिसमाप्तिः क्षणः, न तूत्पत्त्यनन्तरविनाश-
लक्षण इत्यर्थः । एवमपीति विस्तरः । सहोत्पन्नानां क्रमेण कारित्रं न युज्यते ।
कुत एतत् ? स्थितिस्तावत् स्थापयति । न तु तस्मिन् काले जरा जरयति, नाप्य-
नित्यता विनाशयतीति । पुनः केनाबलीयस्त्वम् । पश्चात् केनाबलीयस्त्वम् ।
यदेनां यस्मादेनां स्थितिं सह धर्मेण यस्यासौ स्थितिः । तेन धर्मेण सहानित्यता
निहन्ति ।
कृतकृत्या पुनः कर्तुं नोत्सहते जातिवदिति । यथा जातिः कृतकृत्या जन्यं
जनयित्वा परिक्षीणशक्तिर्न पुनर्जनयति, तथा स्थितिरपि तद्वदेव न पुनः स्था-
१. यदैनां—का० । २. हन्ति—का० ।
न हि शक्यं जात्यादिजन्यं वर्त्तमानतामानीतं पुनरानेतुम् । शक्यं तु खलु
स्थित्या स्थाप्यमत्यन्तं¹ स्थापयितुम् । अतो न युक्तं यन्नोत्सहते ।
को वाऽत्र प्रतिबन्धः ? ते एव जराऽनित्यते । यदि हि ते बलीयस्यौ
स्याताम्, पूर्वमेव स्याताम् । निवृत्तकारित्रायां खल्वपि स्थितौ ते अपि² न
तिष्ठतः, स चापि धर्म इति, कथं³ कुत्र वा कारित्रं कर्तुमुत्सहिष्येते, किं वा
पुनस्ताभ्यां कर्त्तव्यम् !
स्थितिपरिग्रहाद्धि स धर्म उत्पन्नमात्रो न व्यनश्यत् । स तु तयाऽप्युपेक्ष्य-
माणो⁴ नियतं न स्थास्यति—अयमेवास्य विनाशः ।
स्याच्च तावदेकस्य धर्मस्योत्पन्नस्याविनाशः स्थितिः, विनाशोऽनित्यता ।
जरा तु खलु सर्वथात्वेन न तथा; पूर्वापरविशेषात्, विपरिणामाच्च । अतस्तद-
न्यथात्वेऽन्य एव । उक्तं हि—
“तथात्वेन जराऽसिद्धिरन्यथात्वेऽन्य एव सः ।
तस्मान्नैकस्य भावस्य जरा नामोपपद्यते” ॥ ( )
पयतीति । न हि शक्यमिति विस्तरः । न वर्त्तमानतामानीतं जन्यं पुनरानेतुं
शक्यते; अनवस्थाप्रसङ्गात् । शक्यं तु खलु स्थित्या स्थाप्यमत्यन्तं स्थापयितुम्;
स्थितेर्विनाशप्रतिबन्धलक्षणत्वात् ।
ते एव जरानित्यते इति । ते एव जरानित्यते प्रतिबन्धः, येन स्थितिः स्था-
प्यमत्यन्तं स्थापयितुं न शक्नोति । जरा हि स्थिति दुर्बलीकरोति, दुर्बलामनि-
त्यता निहन्तीति ।
आचार्य आह—यदीति सर्वम् । यदि हि ते जरानित्यते बलीयस्यौ स्यातां
पूर्वमेव स्यातां स्थितिकारित्रकाले । यतः सा स्थितिर्न लभते कारित्रं कर्तुम् ।
निवृत्तकारित्रायामिति । विस्तरः—यदा निवृत्तिकारित्रा स्थितिः, तदा ते अपि
जरानित्यते न तिष्ठतः, स चापि धर्मः । स्थितिकारित्राद्धि तेषां स्थितिः कल्पते ।
तस्मात्ते अपि न तिष्ठतः । कथमतिष्ठन्त्यौ जरानित्यते कुत्र वा धर्मिण्यतिष्ठति
कारित्रं कर्तुम् उत्सहिष्येते । किं वा पुनस्ताभ्यां जरानित्यताभ्यां कर्त्तव्यम् ।
स्थितिसामर्थ्याद्धि स धर्म उत्पन्नमात्रो न विनष्टोऽभूत् । स तया उपरतकारित्रया
स्थित्याप्युपेक्ष्यमाणोऽस्थाप्यमानो ध्रुवं न स्थास्यतीति अयमेवास्य विनाशो यदि-
दमनवस्थानम् । किं पुनर्जरानित्यताभ्यां कार्यमित्यभिप्रायः । न च तस्मादेव
१. ०त्यन्तमपि—का० ।
२. चापि—का० ।
३. का० पुस्तके नास्ति ।
४. व्युपेक्ष्यमाणो—का० ।
२६६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [इन्द्रिय-
योऽप्याह निकायान्तरीयः- "विनाशकारणं प्राप्यानित्यता बिना-
शयति" इति ? तस्य 'हरीतकीं प्राप्य देवता विरेचयति' इत्यापन्नं भवति, किं
पुनस्तां कल्पयित्वा ! तत एवास्तु विनाशकारणाद् विनाशः, चित्तचैत्तानां च
क्षणिकत्वाभ्युपगमात् तदनित्यताया विनाशकारणानपेक्षत्वात् स्थित्यनित्यते कारित्रम-
भिन्नकालं कुर्यातामित्येकस्यैकत्र काले स्थितिविनष्टता सम्प्रसज्यते¹ । तस्मात्
प्रवाहं प्रत्येतानि संस्कृतलक्षणान्युक्तानीति, एवमेतत् सूत्रं सुनीतं भवति ।
अपि च-यद्यनागता जातिर्जन्यस्य जनिका, किमर्थं सर्वमनागतं युग-
पत्नोत्पद्यते ? यस्मात्
जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना ॥ ४६ ॥
न हि विना हेतुप्रत्ययसामग्र्या जातिर्जनिका भवति ।
हेतुप्रत्ययानामेव तर्हि सामर्थ्यं पश्यामः; सति सामग्र्ये भावाद्, असति
चाभावात् । न जातेरिति हेतुप्रत्यया एव जनकाः सन्तः ।
तस्यान्यप्रकारता युज्यत इति ? यदि स एव नासावन्यथा, अथान्यथा न स
एव । ययोर्ह्यन्यथात्वं तयोरन्यत्वं दृष्टम्, तद्यथा-देवदत्तयज्ञदत्तयोः ।
योऽप्याह निकायान्तरीय इति । आर्यसम्मतीयः । स घटादेर्मुद्गरादिकृतो
विनाश इति मन्यते । कालान्तरावस्थायि हि तस्य रूपम् । चित्तचैत्तानां च
क्षणिकत्वम् । अत उच्यते-चित्तचैत्तानां च क्षणिकत्वाभ्युपगमात् तदनित्यताया-
श्चित्तचैत्तानित्यताया विनाशकारणानपेक्षत्वात् स्वयं विनश्वरत्वात् स्थित्यनित्यते
कारित्रं युगपत् कुर्याताम् । अत एकस्य चित्तस्य चैत्तस्य वा युगपत् स्थितिविन-
ष्टता अन्योन्यविरुद्धापि सम्प्रसज्यते । एवमेतत् सूत्रं सुनीतमिति । यदेतत्-
"त्रीणीमानि भिक्षवः संस्कृतस्य संस्कृतलक्षणानि" इति ।
सति सामग्र्ये भावात्, असति चाभावात् इति । सति हेतुप्रत्ययानां सामग्र्ये
भावात् जन्यस्य, असति चाभावात् । न जातेः । किम् ? 'सामर्थ्यम् पश्यामः'
इत्यधिकृतम् । न हि हेतुप्रत्ययसामग्र्येऽपि तज्जन्यं कदाचिद् भवति, कदाचिन्न
भवति ।
अत्र भदन्तानन्तवर्माऽऽह-यथा चक्षुन विनालोकादिभिश्चक्षुर्विज्ञानं जन-
यति, न चातस्तदुत्पत्तौ न कारणम्, एवं जातिर्न विना हेतुप्रत्ययैर्धर्मं जनयति;
न चातस्तदुत्पत्तौ न कारणमिति ?
१. सम्प्रसज्येत-का० ।
निर्देशः ] द्वितीयं कोशस्थानम् २६७
किं च भोः सर्वं विद्यमानमुपलभ्यते, सूक्ष्मा अपि हि¹ धर्मप्रकृतयः
संविद्यन्ते । जातमित्येव तु न स्याद्, असत्यां जातौ षष्ठीवचनं च—रूपस्यो-
त्पादः इति, यथा—रूपस्य रूपमिति । एवं यावदनित्यता यथायोगं वक्तव्या ।
तेन तर्ह्यानात्मत्वमप्येष्टव्यमनात्मबुद्धिसिद्ध्यर्थम् । संख्यापरिमाणपृथक्त्वसंयोग-
विभागपरत्वापरत्वसत्तादयोऽपि तीर्थकरपरिकल्पिता अभ्युपगन्तव्या एकद्विमहदणु-
अत्रोच्यते—असमानमेतत् । चक्षुर्हि दृष्टसामर्थ्यं सत्त्वालोकादिप्रबन्धान-
सूक्ष्मा अपि हि धर्मप्रकृतय इति । तद्यथा स्पर्शादीनां चैतसिकानां प्रकृतयः
स्वभावाः दुःपरिच्छेद्यत्वात् सूक्ष्माः । अस्त्येतदेवम्; अदृश्यमानोऽपि कश्चिद्धर्मः
कारित्रेण निर्धार्यते, न त्वेवं जातिः कारित्रेण निर्धार्यते । स्पर्शस्य हि कारित्रं
भगवतैव निर्धारितम्—'यः कश्चिद् वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धः
सर्वः स स्पर्शं प्रतीत्य' इति विस्तरः ।
जातमित्येव तु न स्यादसत्यां जाताविति । स्वलक्षणापेक्षा रूपे रूपबुद्धिः ।
न तु जातमिति स्वलक्षणापेक्षा जातबुद्धिः, वेदनादिष्वपि भावात्। तस्माद-
र्थान्तरभूतजातिद्रव्यापेक्षेयं जातबुद्धिरिति निर्धार्यते । षष्ठीवचनं च न स्याद्-
रूपस्योत्पाद इति । वैयधिकरण्ये हि षष्ठीनिर्देशः, न सामानाधिकरण्ये, तेनाह—
यथा रूपस्य रूपमिति । वैधर्म्यदृष्टान्त एषः । यथा रूपं रूपादन्यदिति कृत्वा
षष्ठीनिर्देशो न भवति—रूपस्य रूपमिति, तथा रूपस्योत्पाद इति न स्यात् ।
तस्माज्जातिनिमित्तोऽयं षष्ठीनिर्देश इति गम्यते । एवं यावदनित्यता यथायोगं
वक्तव्येति । स्थितमेव तु न स्यादसत्यां स्थितौ । षष्ठीवचनं च—रूपस्य स्थिति-
रिति, यथा—रूपस्य रूपम् इति । जीर्णमित्येव तु न स्यात् रूपस्य जरायाम् ।
षष्ठीवचनं च—रूपस्य जरेति, यथा रूपस्य रूपमिति । तथा विनष्टमित्येव
तु न स्यादसत्यामनित्यतायाम् । षष्ठीवचनं च—रूपस्य विनाश इति, यथा
रूपस्य रूपमिति ।
तेन तर्हीति विस्तरः । यदि जातमित्येवमादिबुद्धिसिद्ध्यर्थं षष्ठीविधा-
नार्थं च जात्यादयः कल्प्यन्ते, . . . . न हि निर्निमित्तानात्म-
बुद्धिर्भवितुमर्हति । अथानात्मत्वं प्रज्ञप्तिसदिष्यते, तन्निमित्ता नात्मबुद्धिः ?
जात्याद्यपि प्रज्ञप्तिसदिष्टव्यम् । तन्निमित्ता च आत्मबुद्धिरिति । साधनं चात्र
"प्रज्ञप्तिसज्जात्यादि, द्रव्यसदपेक्ष्य गृह्यमाणत्वादनारमत्ववत्” इति । सत्तादयो-
ऽपीति । आदिशब्देन द्रव्यत्वरूपघटत्वादि गृह्यते । एकं रूपं द्वे रूपे महदणु
१. का० पुस्तके नास्ति ।
२६८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
पृथक्संयुक्तविभक्तपरापरसदादिवुद्धिसिद्धयर्थम्¹ । षष्ठीविधानार्थं च—रूपस्य
संयोग इति। एषा च षष्ठी कथं कल्प्यते—रूपस्य स्वभाव इति ! तस्मात्
प्रज्ञप्तिमात्रमेवैतदभूत्वाभावज्ञापनार्थं क्रियते जातमिति।
स चाभूत्वाभावलक्षण उत्पादो बहुविकल्पः। तस्य विशेषणार्थं रूपस्योत्पाद
इति षष्ठीं कुर्वन्ति—यथा रूपसंज्ञक एवोत्पादः प्रतीयेत, माऽन्यः प्रत्यायीति ।
तद्यथा—चन्दनस्य गन्धादयः, शिलापुत्रकस्य शरीरमिति ।
एवं स्थित्यादयोऽपि यथायोगं वेदितव्याः ।
यदि जात्या विना जायते, कस्मादसंस्कृतमप्याकाशादिकं न जायते ?
पृथक् संयुक्तं विभक्तं परमपरं सद् रूपमिति । तथा द्रव्यमेतद्, रूपमिदम्,
घटोऽयमित्येवमादिवुद्धिसिद्धयर्थं संख्यादयोऽपि वैशेषिकपरिकल्पिता अभ्युप-
गन्तव्याः। षष्ठीविधानार्थं च रूपस्य संयोग इति । संयोगग्रहणमुदाहरण-
मात्रम् । रूपस्य विभागः, परत्वापरत्वमित्येवमाद्यपि योज्यम् । एषा च षष्ठी कथं
कल्प्यते—रूपस्य स्वभाव इति। न हि वैभाषिकाणां रूपादन्यो रूपस्य स्वभाव
इष्टः। जातमिति। जातमेव न विनष्टमित्यभूत्वाभावज्ञापनार्थं क्रियते प्रज्ञप्तिः।
बहुविकल्प इति । बहुभेदो रूपवेदनादिभेदात् । तस्य विशेषणार्थं रूपस्यो-
त्पाद इति । न वेदनादीनामुत्पाद इति विशेषणार्थं षष्ठीं कुर्वन्ति । मा अन्यः
प्रत्याये रूपसंज्ञक एवोत्पादो न वेदनादिसंज्ञक इति। दृष्टान्तं कथयन्ति—
चन्दनस्य गन्धादयः, शिलापुत्रकस्य शरीरमिति । अनर्थान्तरभावेऽपि षष्ठीनिर्देशः
क्रियते । गन्धादिसमूहमात्रं हि चन्दनमिति बौद्धसिद्धान्तः । वैशेषिकसिद्धान्ता-
पेक्षया त्वसिद्धश्चन्दन इत्यपरो दृष्टान्तः उपन्यस्यते—शिलापुत्रकस्य शरीर-
मिति । शिलापुत्रकशरीरयोर्वैशेषिकाणामपि सिद्धान्ते नार्थान्तरभावः । भवति
च षष्ठीनिर्देशः । अर्थान्तरपरिकल्पकृतो हि तथा निर्देशः ।
एवं स्थित्यादयोऽपि यथायोगं वेदितव्या इति । तस्मात् प्रज्ञप्तिमात्रमेवेदं
प्रवाहावस्थानज्ञापनार्थं क्रियते—स्थितमिति । स च प्रवाहावस्थानलक्षणा
स्थितिर्बहुविकल्पा । तस्या विशेषणार्थं रूपस्य स्थितिरिति षष्ठीं कुर्वन्ति, यथा
रूपसंज्ञकैव स्थितिः प्रतीयेत, मान्याः प्रत्यायीति । तथा प्रज्ञप्तिमात्रमेवैतत्
पूर्वापरविशेषज्ञापनार्थं क्रियते—जीर्णमिति । सा च पूर्वापरविशेषलक्षणा जरा
बहुविकल्पा। तस्या विशेषणार्थं रूपस्य जरेति षष्ठीं कुर्वन्ति, यथा रूपसंज्ञकैव
जरा प्रतीयेत, मान्या प्रत्यायीति । तथा प्रज्ञप्तिमात्रमेवैतत् प्रवाहनिवृत्तिज्ञाप-
नार्थं क्रियते—विनष्टमिति । स च प्रवाहनिवृत्तिलक्षणो विनाशो बहुविकल्पः।
१. ॰वियुक्त॰—का० ।
जायत इत्यभूत्वा भवति । असंस्कृतं च नित्यमस्तीति न जायते । यथा
च धर्मतया न सर्वं जातिमदिष्यते, तथा न सर्वं जायत इत्येष्टव्यम् । यथा च
तुल्ये जातिमत्त्वे तदन्ये प्रत्ययास्तदन्यस्योत्पादने न समर्था भवन्ति, एवमेवा-
संस्कृतस्योत्पादने सर्वेऽप्यसमर्थाः स्युः ।
सिद्धा एव तु द्रव्यभावेन जात्यादय इति वैभाषिकाः । न हि दूषकाः
सन्तीत्यागमा अपास्यन्ते, न हि मृगाः सन्तीति यवा नोप्यन्ते, न हि
मक्षिकाः पतन्तीति मोदका न भक्ष्यन्ते ! तस्माद्दोषेषु प्रतिविधातव्यम्, सिद्धान्त-
श्चानुसर्तव्यः¹ ॥ ४६ ॥
उक्तानि लक्षणानि ॥
तस्य विशेषणार्थं रूपस्य विनाश इति षष्ठीं कुर्वन्ति, यथा रूपसंज्ञक एव
विनाशः प्रतीयेत, मान्यः प्रत्यायीति । सर्वत्र च दृष्टान्तद्वयं वक्तव्यम् । तद्यथा
चन्दनस्य गन्धादयः, शिलापुत्रकस्य शरीरमिति ।
यथा च धर्मतयेति । धर्मता धर्मप्रकृतिः, धर्मस्वभावः, धर्मशैलीत्यर्थः ।
धर्मता धर्मप्रकृतिरिति कुत एतत् ? चक्षुः गम्भूद्धे शून्यं नित्येन ध्रुवेण शाश्वतेना-
विपरिणामधर्मेणात्मनात्मीयेन च । तत् कस्य हेतोः ? प्रकृतिरस्यैषेति । यथा च
न सर्वं जातिमदिष्यते आकाशादि, तथा धर्मतया न सर्वं जायत इत्येष्टव्यम् । न
ह्यत्र किञ्चित् कारणमस्ति यत् संस्कृतमेव जातिमद् भवति, नासंस्कृतमित्य-
न्यत्र धर्मतायाः । एवमसत्यामपि जातो संस्कृतमेवोत्पद्यते, नासंस्कृतमिति ।
यथा च तुल्यजातिमतां केषाञ्चिद् रूपवेदनादीनाम् । तदन्ये प्रत्ययाः, तेभ्यः
रूपोत्पत्तिप्रत्ययेभ्योऽन्येवेदनाद्युत्पत्तिप्रत्ययास्तदन्ये, ते तदन्ये प्रत्ययास्तदन्यस्यो-
त्पादने न समर्था भवन्ति । तेभ्यो वेदनादिभ्योऽन्यत् तदन्यत्, किं तत् ? रूपम्,
तस्य तदन्यस्य ते वेदनादिप्रत्यया उत्पादने यथा न समर्था भवन्ति; एवम-
संस्कृतस्याकाशादेरुत्पादने सर्वेऽपि रूपवेदनादिप्रत्यया न समर्थाः स्युरिति । पूर्वं
स्वभावनियमेनोक्तम्, इदानीं शक्तिनियमेनेति ।
न हि दूषकाः सन्ति इति । विस्तरः- यथा न मृगाः सन्तीति यवा नोप्यन्ते ।
उप्यन्त एवेत्यर्थः । द्वौ प्रतिषेधौ प्रकृतमर्थं गमयतः यथा न मक्षिकाः पतन्तीति
मोदका न भक्ष्यन्ते । किं तर्हि ? भक्ष्यन्त एव । तथा न दूषकाः सन्तीत्यागमोऽ-
भिधर्मशास्त्राण्यापस्यन्ते । तस्माद्दोषेषु प्रतिविधातव्यम्, दोषेषु परव्यवस्थापितेषु
परिहार कर्तव्यः । सिद्धान्तश्चानुसर्तव्यः । न परित्याज्य इत्यभिप्रायः ॥ ४६ ॥
१. ॰नुवर्तितव्यः-का० ।
२७० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
नामकायादयः कतमे ?
नामकायादयः संज्ञावाक्याक्षरसमुक्तयः ।
आदिग्रहणेन पदव्यञ्जनकायग्रहणम् ।
तत्र संज्ञाकरणं नाम, तद्यथा—रूपम्, शब्द इत्येवमादिः !
वाक्यं पदम्, यावताऽर्थपरिसमाप्तिः, तद्यथा—“अनित्या बत संस्काराः”
इत्येवमादि, येन क्रियागुणकालसम्बन्धविशेषा गम्यन्ते ।
“नामकायादयः संज्ञावाक्याक्षरसमुक्तयः” इति। संज्ञासमुक्तयो नामकायाः,
वाक्यसमुक्तयः पदकायाः, अक्षरसमुक्तयो व्यञ्जनकायाः ।
संज्ञाकरणमिति लोकभाषेयम् । संज्ञाकरणम्, नामधेयमिति पर्यायः । तथा
हि लोके वक्तारो भवन्ति—‘देवदत्तः’ इति अस्य संज्ञाकरणमिति । संज्ञायाः
करणं संज्ञाकरणम्, येन संज्ञा चैतसिको धर्मः क्रियते जन्यते । संज्ञैव वा करणं
संज्ञाकरणम् । संज्ञाग्रहणं ......... करणग्रहणं चैतसिकविशे-
पणार्थम् । यदि हि संज्ञा नामेत्युच्येत, चैतसिकोऽपि स भाव्येत । ततः पुनः
संज्ञाकरणं नाम रूपं शब्दो रसो गन्धो वेत्येवमादि ।
वाक्यं पदमिति । पद्यते गम्यतेऽनेनेति । पदं तु सुप्तिङन्तं पदं गृह्यते ।
तेनाह—यावतार्थपरिसमाप्तिस्तद्यथा “अनित्या बत संस्काराः” इत्येवमादीति ।
आदिशब्देन “उत्पादव्ययधर्मिणः, उत्पद्य हि निरुध्यन्ते, तेषां व्युपशमः सुखम्”
इत्येवमादि ।
अस्या गाथाया एवमर्थं व्याचक्षते—‘अनित्या बत संस्काराः’ इति प्रतिज्ञा,
‘उत्पादव्ययधर्मिणः’ इति हेतुः, यस्मादुत्पादव्ययधर्मवन्तस्तस्मादनित्या इति
परिच्छिद्यन्ते । ‘उत्पद्य हि निरुध्यन्ते’ इति दृष्टान्तः । य उत्पद्यन्ते निरुध्यन्ते
च तेऽनित्याः । तद्यथा-घटादयः, यथा च संस्कारा इति । अपरे पुनर्व्याचक्षते-
असिद्धहेतुसाधनार्थमेतदिति । कथमेतद्गम्यते ? उत्पादव्ययधर्मिणस्त इति,
यस्मादेते उत्पद्य निरुध्यमाना दृष्टा इति । अपरे वर्णयन्ति—अनित्या बत
संस्कारा उत्पादव्ययधर्मिण इति धर्मदेशनेत्युच्यते । कस्माद् ? इत्याह—
यस्मादुत्पद्य निरुध्यन्त इति हेतुवचनम् । तेषां व्युपशमः सुखम् । ये ह्यनित्यास्ते
दुःखा, अतस्तेषां व्युपशमः सुखमिति विनेयजनं नियोजयति ।
येन क्रियागुणकालसम्बन्धविशेषा गम्यन्ते । साव्ययकारकविशेषणं वाक्यमिति
वाक्यविदो वदन्ति । तद्यथा—पचति पठति गच्छतीति, कृष्णो गौरो रक्तः
इति, पचति पक्ष्यत्यपाक्षीदिति क्रियागुणकालांनां सम्बन्धविशेषा गम्यन्ते तत्
पदम् । तथा हि सामान्ये वर्त्तमानानां पदानां यद्विशेषेऽवस्थानं स वाक्यार्थं
निर्देशः ] द्वितीयं कोशस्थानम् २७१
व्यञ्जनम् = अक्षरम्, तद्यथा—अ, आ इत्येवमादि,
ननु चाक्षराण्यपि लिप्यवयवानां नामानि ? न वै लिप्यवयवानां प्रत्याय-
नार्थमक्षराणि प्रणीतानि, अक्षराणामेव तु प्रत्यायनार्थं लिप्यवयवाः प्रणीताः ।
कथमश्रूयमाणानि लेख्येन प्रतीयेरन्निति नाक्षराण्येषाम् नामानि ।
एषां च संज्ञादीनां समुक्तयो नामादिकायाः । “उच समवाये” ( मा०
धा० ४.११४ ) पठन्ति, तस्य 'समुक्तिः' इत्येतद् रूपं भवति । योऽर्थः
समवाय इति, सोऽर्थः समुक्तिरिति ।
तत्र नामकायस्तद्यथा - रूपशब्दगन्धरसस्प्रष्टव्यानीत्येवमादि ।
पदकायस्तद्यथा - “सर्वे संस्कारा अनित्याः”, “सर्वे धर्मा अनात्मानः”,
“शान्तं निर्वाणम्”, इत्येवमादि ।
व्यञ्जनकायस्तद्यथा—क, ख, ग, घ, ङेत्येवमादि ।
ननु च १ ते' वाक्स्वभावत्वाच्छब्दात्मका इति रूपस्वभावा भवन्ति, कस्मा-
च्चित्तविप्रयुक्ता इत्युच्यन्ते ? नैते वाक्स्वभावाः । घोषो हि वाक्, न च घोष-
इत्याहुः । तदेव स्वलक्षणाभिद्योतकं नाम क्रियादिसम्बन्धविशेषाभिद्योतकं
पदमित्युक्तं भवति ।
व्यञ्जनमक्षरमिति । वर्ण इत्यर्थः । न तु हल् एव; अचामपि व्यञ्जन-
कत्वेनेष्टत्वात् ।
ननु चाक्षराण्यपि लिप्यवयवानां नामानीति । लिपयो मनुष्यादिभिः पत्रादिषु
ये लिखिताः, तेषामक्षराणि नामानि । रूपनामग्रहणे रूपप्रतीतिवद् व्यञ्जन-
ग्रहणे लिपिप्रतीतिः । अतो व्यञ्जनमपि लिप्यवयवानां नाम भवतीति लक्षण-
साङ्कर्यम् । ततश्च यदभिप्रेतम् — नाम्नो व्यतिरिक्तमन्यदेव व्यञ्जनमक्षरमिति,
तन्नोपपद्यते । न वै लिप्यवयवानामिति । विस्तरः—विपरीतमेतदिति व्याचष्टे ।
यत्तु व्यञ्जनग्रहणे लिपिप्रतीतिरिति, तत् प्रत्याय्यप्रत्यायकभावेन संकेतिकत्वात्,
न तु तन्नामभावात् ।
समुक्तिरिति । 'उच समवाये' ( मा० धा० ४।११४ ) इत्येतस्य धातोः क्तिनि
'समुक्तिः' इत्येतद् रूपं भवति ।
योऽर्थः समवाय इति सोऽर्थ समुक्तिरिति । समवाय इत्यर्थः ।
ननु च ते इति । सौत्रान्तिकवचनम् । नैते वाक्स्वभावा इति । विस्तरेण
वैभाषिकवचनम् । न च घोषमात्रेणेति, नानक्षरात्मकेन घोषेणार्थोऽवगम्यते,
१-१. चैते—का० ।
२७२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
मात्रेणार्थाः प्रतीयन्ते । किं तर्हि ? वाङ् नाम्नि प्रवर्त्तते, नाम अर्थं द्योतयति ।
न¹ वै¹ घोषमात्रं वाक्, येन तु घोषेणार्थः प्रतीयते स घोषो वाक् ।
केन पुनर्घोषेणार्थः प्रतीयते ? योऽर्थेषु कृतावधिर्वक्तृभिः, तद्यथा—
गौरित्येष शब्दो नवस्वर्थेषु कृतावधिः—
“वाग्दिग्भूरश्मिवज्रेषु पश्वक्षित्स्वर्गवारिषु ।
नवस्वर्थेषु मेधावी गोशब्दमुपधारयेत्” ॥ ( ) इति ।
योऽपि हि मन्यते—नामार्थं द्योतयतीति ? तेनाप्येतदवश्यमभ्युपगन्तव्यं
यदि प्रतीतपदार्थकं भवतीति । तच्चैतच्छन्दमात्राद्² प्रतीतपदार्थकात् सिध्यतीति
किमर्थान्तरं नाम कल्पयित्वा !
इदं चापि न ज्ञायते—कथं वाङ् नाम्नि वर्त्तत इति, किं तावदुत्पादयति ?
आहोस्वित् प्रकाशयति ? यद्युत्पादयति, घोषस्वभावत्वाद् वाचः सर्वं घोषमात्रं
नामोत्पादयिष्यति । यादृशो वा घोषविशेष इष्यते नाम्न उत्पादकः, स एवार्थस्य
द्योतको भविष्यति । अथ प्रकाशयति, घोषस्वभावत्वाद् वाचः सर्वं घोषमात्रं
किं तर्हि ? वाङ्नाम्नि प्रवर्त्तते, तन्नामात्मरूपतामिव वाच आपादयदर्थत्वं
द्योतयति । तां वाचमुपादाय पदार्थं द्योतयति, प्रत्याययतीत्यर्थः ।
सौत्रान्तिक आह—न वै घोषमात्रं वागिति । विस्तरः—न वयं घोषमात्रं
वागिति वर्णयामः, कश्चिदेव तु घोषो वर्णात्मकः । सैव वाग्योऽर्थेषु कृतावधिः ।
कृतमर्यादः । एतेन संकेतापेक्षः शब्दोऽर्थं प्रत्याययति, न यः कश्चिच्छब्द इति
दर्शयति, कृतसङ्केतः शब्दोऽर्थं प्रत्याययतीति ।
तच्चैतच्छन्दमात्रात् प्रतीतपदार्थकात् सिध्यतीति । तच्चैतदर्थद्योतनं
नामरहिताच्छब्दाज्जातसंकेतान्निदर्शनात् सिध्यतीत्ययमस्यार्थ इति ।
यद्युत्पादयतीति । विस्तरः—वाचि सत्यां स चित्तविप्रयुक्त उत्पद्यत
इतीष्यते, तेनाचष्टे—यद्युत्पादयतीति । एवं चेत् सर्वं घोषमात्रं वृषभादि-
गर्जितमपि नामोत्पादयिष्यति, घोषस्वभावा वागिति कृत्वा । ब्रूयास्त्वम्—
विशिष्ट एव घोषो यो वर्णात्मकः सम्भावितः, स एव नामोत्पादयतीति ?
अत्रोच्यते—यादृशो वा घोषविशेष इष्यते नाम्नः उत्पादकः, स एवार्थस्य
द्योतको भविष्यति । न तु स चित्तविप्रयुक्त इत्यभिप्रायः । अथ
प्रकाशयतीति । विस्तरः—घोषेणोत्पद्यमानेन स चित्तविप्रयुक्त उत्पद्यते, स तं
१-१. नैव—का० । २. ०मात्रादेव—का० ।
निर्देशः ] द्वितीयं कोशस्थानम् २७३
नाम प्रकाशयिष्यति । यादृशो वा घोषविशेष इष्यते नाम्नः प्रकाशकः, स
एवार्थस्य द्योतको भविष्यति । न खल्वपि शब्दानां सामग्र्यमस्ति क्षणिकमिलनम् ।
न चैकस्य भागश उत्पादो युक्त इति कथमुत्पादयन्ती वाङ् नामोत्पादयेत् !
कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्यविज्ञप्तिम् ? एवं तर्हि
पश्चिम 'शब्दे एव' नाम्न उत्पादाद् योऽपि तमेवैकं शृणोति सोऽप्यर्थं प्रतिपद्येत ।
अथाप्येवं कल्प्येत—वाग् व्यञ्जनं जनयति, व्यञ्जनं तु नामेति ?
प्रकाशयत्यर्थद्योतनायेति यदिष्यते ? अत्रोच्यते—सर्व घोषमात्रं नाम प्रकाश-
यिष्यतीति पूर्ववद् वाच्यम् । न खल्वपि शब्दानां सामग्र्यमस्तीति । यदनेकाक्षरं
नाम तदुत्पत्तिपरिकल्पोऽनेक शब्दापेक्षः । तेनैवं विचार्यते-- इहोच्चरितप्रध्वंसिनः
शब्दः, तस्मादेषां युगपदवस्थानं नास्ति । एकस्य च द्रव्यसतो धर्मस्य भागशः
खण्डश उत्पादो न युक्तः, यथा घटपटादेः प्रज्ञप्तिसतः कल्प्यत इति कथमुत्पादयन्ती
वाङ् नामोत्पादयेत् ! यदा तदुत्पादयति तदा कथं सा तदुत्पादयतीति वाक्यार्थः ।
वर्त्तमाना हि वाङ् नामोत्पादयन्त्युत्पादयेत्, न च सर्वे वाक्शब्दक्षणा युगपद्
वर्त्तमाना भवन्ति । यदा हि रूपमिति र शब्दो वर्त्तमानो भवति तदा ऊकार-
पकाराकारा अनागता भवन्ति, यदा ऊकारो वर्त्तमानो भवति तदा रशब्दोऽ-
तीतः पकाराकारावनागतौ, एवं पकाराकारावपि क्रमशो यदा वर्त्तमानौ
भवतस्तदा इतरे न वर्त्तमाना—इत्येवं सा वाङ् नाम नैवोत्पादयेत् ।
ब्रूयास्त्वम्—वर्त्तमानो रशब्दस्तस्य रूपनाम्नः पूर्वं भागमुत्पादयति, ऊशब्दोऽपि
वर्त्तमानो द्वितीयं भागम्, एवं यावदकारशब्दस्तस्य चतुर्थभागमुत्पादयतीति ?
तदयुक्तम्; एकस्य धर्मस्य भागश उत्पादासम्भवादिति । उक्तमेतत् ।
कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षणः उत्पादयत्यविज्ञप्तिमिति । प्राति-
मोक्षसंवरसमादाने कायवाग्विज्ञप्तयः प्रवर्त्तन्ते, तासा नास्ति सामग्र्यम् । अथ
चातीतकायवाग्विज्ञप्तिक्षणापेक्षः पश्चिमो विज्ञप्तिक्षणः प्रातिमोक्षसंवरसंगृहीता-
मविज्ञप्तिमुत्पादयति, एवमतीतशब्दक्षणापेक्षः पश्चिमो वाक्शब्दक्षणो नामो-
त्पादयतीति । एवं तर्हीति विस्तरः । पश्चिमशब्द एव नाम्न उत्पादात् योऽपि
तमेवैकं शृणोति योऽपि पश्चिममेवैकं शब्दं शृणोति रूपमिति । सोऽप्यर्थं
प्रतिपद्येत । सोऽपि रूपनामार्थं गृह्णीयात्; तन्नोमोत्पत्तेः । न चैवं प्रतिपद्यते ।
तस्मादयुक्तमेतत् ।
अथाप्येवं कल्प्येत इति विस्तरः । क्षणप्रतिभासा वर्णवाग्, व्यञ्जनमपि
तत्प्रतिभासमिति पक्षान्तरमुपन्यस्यते । वाग् व्यञ्जनं जनयति, व्यञ्जनं तु
१ १. पश्चिम एव शब्दे—का० ।
अभि० को० १८
२७४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
अत्रापि स एव प्रसङ्गः; व्यञ्जनानां सामग्र्याभावात् ।
एष एव तु १ प्रसङ्गो नाम्नः प्रकाशकत्वे वाचः । व्यञ्जनं चापि वाग्विशिष्ट-
प्राज्ञा अप्यवहितचेतस्का लक्षणतः परिच्छेत्तुं नोत्सहन्त इति व्यञ्जनस्यापि वाङ्
नैवोत्पादिका, न प्रकाशिका युज्यते ।
अथाप्यर्थसहजं नाम जात्यादिवदिष्येत २ ? एवं सत्यतीतानागतस्यार्थस्य
नाम जनयतीति । अत्रापि स. एव प्रसङ्गो व्यञ्जनानां सामग्र्याभावात् । कथम् ?
न खलु व्यञ्जनानां सामग्र्यमस्ति । न चैकस्य धर्मस्य भागश उत्पादो युक्त
इति कथमुत्पादयद् व्यञ्जनं नामोत्पादयेत्, कथं तावदतीतापेक्षः पश्चिमो
विज्ञप्तिक्षणः उत्पादृत्यविज्ञप्तिम् ! एवं तर्हि पश्चिम एव व्यञ्जने नाम्न उत्पा-
दाद् योऽपि तमेवैकं पश्चिमं व्यञ्जनोत्पादकं शब्दं शृणोति, यो वा तदेवेकं
पश्चिमं व्यञ्जनं शृणोति, सोऽप्यर्थं प्रतिपद्येत ।
एष एव तु प्रसङ्गो नाम्नः प्रकाशकत्वे वाच इति । न खल्वपि शब्दानां
सामग्र्यमस्ति । न चैकस्य धर्मस्य भागशः प्रकाशो युक्त इति कथं प्रकाशयन्ती
वाङ् नाम प्रकाशयेत् । कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षणः प्रकाशयत्य-
विज्ञप्तिम् । एवं तर्हि पश्चिम एव शब्दे नाम्नः प्रकाशाद् योऽपि तमेवैकं शब्दं
शृणोति, सोऽप्यर्थं प्रतिपद्येत । अथाप्येवं कल्प्येत—वाग् व्यञ्जनं प्रकाशयति,
व्यञ्जनं तु नामेति ? अत्रापि स एव प्रसङ्गः; व्यञ्जनानां सामग्र्याभावात् ।
यस्य तर्हि शब्दमात्रं नामानेकाक्षरं च नाम भवति, न च शब्दानां सामग्र्यं-
मस्ति, तस्य कथं नामार्थं पत्याययति ? सर्वाक्षरस्मृत्यनन्तरत्वादर्थप्रतिपत्तेः ।
अत एव च नान्तरीयकन्यायेन प्रथमाक्षरश्रवणकाल एव शेषाक्षरानुस्मृतिबलेन
कश्चिदर्थं प्रतिपद्यत एवेति । व्यञ्जनस्यापि वाङ् नैवोत्पादिका न प्रकाशिका
युज्यत इति । पूर्वं शब्दस्योत्पाद्यं शब्दस्य व्यङ्ग्यं वा व्यञ्जनमभ्युपगम्य दोष
उद्ग्राहितः, इदानीं शब्दव्यतिरिक्तानुपलब्धेरुत्पाद्यव्यङ्ग्यत्वमपि तस्य
नास्तीति तदेवोन्मूलयति । न तु शब्दानां सामग्र्यभावादिति दोषो वक्तव्यः ।
न ह्यनेक शब्दापेक्षा व्यञ्जनप्रतिपत्तिः । अपि च—घोषस्वभावत्वाद् वाचः सर्वं
घोषमात्रं व्यञ्जनमुत्पादयिष्यति, प्रकाशयिष्यति वा । यादृशो वा घोषविशेष
इष्यते व्यञ्जनस्योत्पादकः प्रकाशको वा, स एव व्यञ्जनार्थं करिष्यतीति ।
अथाप्यर्थसहजं नाम जात्यादिवदिष्येतेति । विस्तरः—अथ सहजे नाम्नि
कल्प्यमाने वाचोत्पाद्यं प्रकाश्यं वा नामेत्येवमादिदोषप्रसङ्गो न भविष्यतीति
१. च—का० ।
२. ०विष्यते—का० ।
निर्देशः ] द्वितीयं कोशस्थानम् २७५
वर्त्तमानं नाम न स्याद् । अपत्यानां पितृभिर्यथेष्टं नामानि कल्प्यन्त इति कतमन्नाम
तत् सहजं स्यात् ! असंस्कृतानां च धर्माणां केन सहजं नाम न¹ स्यात् इत्य-
निष्टिरेवेयम् ।
यदप्युक्तं भगवता—
“नामसन्निश्रिता गाथा गाथानां कविराश्रयः” ( ) इति ।
तत्रार्थेषु² कृतावधिः शब्दो नाम, नाम्नां³ च रचनाविशेषो गाथेति
नामसन्निश्रिता भवति । रचनाविशेषश्च द्रव्यान्तरं नोपपद्यते, पंक्तिवत्,
चित्तानुपूर्व्यवच्च ।
अस्तु वा व्यञ्जनमात्रस्य द्रव्यान्तरभावपरिकल्पना । तत्समूहा एव
नामकायादयो भविष्यन्तीत्यपार्थिका तत्प्रक्लृप्तिः⁴ ।
मत्वा पक्षान्तरमिदं विकल्प्यते । यथा जात्यादीनि लक्षणान्यर्थसहजान्येष्यन्ते,
नातीतानागतस्यार्थस्य वर्त्तमानानि भवन्ति । एवमेव यदि नामेष्येत। अतीता-
नागतस्यार्थस्य वर्त्तमानं नाम न स्यात् । ततश्चातीतानागतार्थव्यवहारो न शक्येत
कर्तुम् । न ह्यतीतानागतं नामार्थं द्योतयितुमर्हति, यथातीतानागता वाङ्नाम
नोत्पादयितुं व्यञ्जयितुं चार्हति । नामबहुत्वे च न सहजं नाम परिच्छिद्येत ।
असंस्कृतानां चानुत्पत्तिमत्त्वात् सहजं नाम न स्यादित्यनिष्टिरेवेयम् । न कर्त्तव्ये-
वेयमिष्टिरित्यभिप्रायः ।
नामसन्निश्रिता गाथा इति । गाथा = वाक्यम् । सा नामानि सन्निश्रिता;
नामसूत्पन्नेषु भावात् । तस्मात् सन्ति नामानि वाक्यं चेति वचनावकाशोऽ-
स्ति ? इत्याह—तत्रार्थेषु कृतावधिशब्दो नामेति । विस्तरः—अर्थकृतावधिशब्द-
स्वभावानां नाम्नां रचनाविशेषो गाथा । विन्यासविशेष इत्यर्थः । पंक्तिवदिति
यथा पंक्तिः पिपीलिकादीनां रचनाविशेषः, न ततो द्रव्यान्तरमुपपद्यते, तद्वत् ।
एककालवर्त्तिनां पक्षिपिपीलिकादीनां रचनाविशेषः पंक्तिरित्युच्यते, क्रमवर्त्तिनां
तु शब्दानां न रचनाविशेषः, तेन वैषम्यमिति वचनावकाशमभिसमीक्ष्य
द्वितीयो दृष्टान्त उपन्यस्यते—चित्तानुपूर्व्यवच्चेति । यथानुक्रमवर्त्तिभ्यश्चित्तेभ्यो
नान्यदानुपूर्व्यमस्ति, तद्वत् ।
अपार्थिका तत् प्रक्लृप्तिरिति । निष्प्रयोजना नामपदद्वयोरर्थान्तरपरिकल्प-
नेत्यर्थः ।
१. का० पुस्तके नास्ति । २. अत्रा०—का० ।
३. नाम्ना—का० । ४. तत्प्रज्ञप्तिः—का० ।
२७६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
सन्त्येव तु विप्रयुक्तसंस्कारभावना नामकायादयो द्रव्यत इति वैभाषिकाः।
न हि सर्वे¹ धर्मास्तर्कगम्या¹ भवन्तीति ।
अथ किंप्रतिसंयुक्ता एते नामकायादयः सत्त्वाख्यासत्त्वाख्या² विपाकजा
औपचयिका नैःष्यन्दिकाः कुशला अकुशला अव्याकृता इति वक्तव्यम् ? आह-
कामरूपाप्तसत्त्वाख्या निःष्यन्दाव्याकृताः
कामाप्ताः, रूपाप्ताश्चेति । आरूप्याप्ता अपि सन्ति, ते त्वनभिलाप्या
इत्यपरे । सत्त्वाख्या एते । यश्च द्योतयति स तैः समन्वागतः, न यो
द्योत्यते । नैःष्यन्दिका अनिवृताव्याकृताश्च ।
यथा चैते नामकायादयः सत्त्वाख्या नैःष्यन्दिका अनिवृताव्याकृताश्च,
न हि सर्वे धर्मास्तर्कगम्या इति । केचिदेव तर्कगम्याः, न सर्वे । ये हि
तथागतज्ञानगोचरपतिता एव, न ते तर्कगम्या इत्यभिप्रायः ।
चित्तविप्रयुक्तप्रभेदविवक्षयेदमुपन्यस्यते-अथ किंप्रतिसंयुक्ता इति । विस्तरः-
कस्मिन् धातौ प्रतिसंयुक्ताः किंप्रतिसंयुक्ताः । सत्त्वाख्यासत्त्वाख्येति किमिति ।
“कामरूपाप्तसत्त्वाख्या निष्यन्दाव्याकृताः” इति । कामरूपाप्ता एव, सत्त्वाख्या
एव, निष्यन्दा एव, अव्याकृता एव चेत्यवधारणम् ।
ते त्वनभिलाप्या इति । ते त्वारूप्याप्ता नामकायादयोऽकथ्याः; वाचस्त-
त्राभावात् । कथं ते सन्तीति गम्यन्ते ? यदा ते नाभिलप्यन्ते । तस्मात्,
कामरूपाप्ता एव, नारूप्याप्ता इति वैभाषिकाः । सत्त्वाख्या एव च; सत्त्वप्रयत्ना-
भिनिर्वृत्तवर्णादिस्वभावत्वात् । यश्च द्योतयति, स तैः समन्वागत इति । कुतः
पुनरियमाशङ्का-अन्योन्यस्य तैः समन्वागमः स्यादिति ? अस्येदं नामेति
व्यपदेशात् । यथा चक्षुरिन्द्रियेण द्रष्टेव समन्वागतो न दृश्यः सत्त्वः, तथा
द्योतयितैव तैः समन्वागतो न द्योत्यः । नैष्यन्दिकाः । सभागहेतुजनितत्वात् । न
विपाकजाः, इच्छात्तः प्रवृत्तेः । नौपचयिकाः, अरूपिणां चयाभावादिति । अनि-
वृताव्याकृताश्च । न कुशला नाकुशलाः । कस्मात् ? समुच्छिन्नकुशलमूलकाम-
वीतरागाणामपि तत्समन्वागमप्रसङ्गात् । इतरथा हि यदा समुच्छिन्नकुशल-
मूलः कुशलान् धर्मान् द्योतयति, तदास्य कुशलधर्मसमन्वागमः स्यात् । एवं
कामवीतरागस्याप्यकुशलधर्मद्योतने योज्यम् । तस्मादनिवृत्ताव्याकृता एव;
अनिवृत्ताव्याकृतानां कुशलाकुशलैरविरोधात् ॥ ४७ ॥
१-१. सर्वधर्माः०-का० । २ सत्त्वाख्या असत्त्वाख्या-का० ।
निर्देशः ] द्वितीयं कोशस्थानम् २७७
तथा ॥ ४७ ॥
सभागता सा तु पुनर्विपाकापि¹
न केवलं नैःष्यन्दिकी कामरूपारूप्यावचरी,
आप्तयो द्विधा ।
प्राप्तयो नैःष्यन्दिक्यः, विपाकजाश्च ।
लक्षणानि च
द्विधेति वर्तते, प्राप्तिवत् ।
निःष्यन्दाः समापत्त्यसमन्वयाः ॥ ४८ ॥
द्वे अचित्तसमापत्ती अस मन्वागमश्च नैःष्यन्दिका एव। शेषमेषां वक्तव्यमुक्तम् ।
“तथा सभागता” इति । तथाशब्देन सत्त्वाख्यनैष्यन्दिकाव्याकृतत्वमेव
सभागताया अतिदिश्यते; त्रिधातवाप्ताया अपवादरूपेण वक्ष्यमाणत्वात् । सा तु
इति। तुशब्दो विशेषणार्थः । नामकायादिभ्यो हि सभागता विशिष्यते ।
कथम् ? इत्याह—“विपाकापि” इति । विपाकजापीत्यर्थः । न केवलमियं
नैष्यन्दिकी, किं तर्हि ? विपाकजापीति । न त्वौपचयिकी; तथैव चयाभावात् ।
“आप्तयो द्विधा” इति। द्विधाशब्देन नैष्यन्दिकविपाकजत्वप्रभेदावेव प्राप्ती-
नामुच्येते, प्रभेदान्तरस्योक्तत्वात् । लक्षणानामपि जात्यादीनां तावेव प्रभेदा-
वेवमेव वक्तव्यौ । अस मन्वागमः अप्राप्तिः, सानिवृत्ताव्याकृतापि न विपाकजा ।
न हि विपाकस्याप्यसमन्वागमो विपाको भवितुमर्हति । तथा ह्यकुशलस्य कुशल-
सास्रवस्य च विपाक इष्यते । न चानयोरप्राप्तिर्विपाको भवितुमर्हति । यो हि
बुद्धिपूर्वकश्चेतनात्मकस्तत्सम्प्रयुक्तसमुत्थो वा धर्मः स विपाकहेतुः । न चासम-
न्वागम एवं बुद्धिपूर्वककर्मकृत इत्यतो न विपाकजः । शेषमेषां वक्तव्यमुक्तमिति ।
एषां प्राप्तिलक्षणसमापत्त्यसमन्वागमानां वक्तव्यं व्याख्यातव्यमुक्तं व्याख्यात-
मित्यर्थः । किं पुनः तच्छेषमिति ? धात्वाप्तता, सत्त्वासत्त्वाख्यता, कुशला-
कुशलाव्याकृतता च । कथं पुनस्तदुक्तम् ? प्राप्तेस्तावद्धात्वाप्ततोक्ता, 'स्वधातुका
तदाप्तानाम्' (अभि० को० २.३७) इति वचनात् । सत्त्वाख्यतोक्ता, समन्वा-
गमवचनात् । न ह्यसत्त्वसंख्यातेन संस्कृतेन सन्ति समन्वागमाः; “प्राप्त्यप्राप्ती
स्वसन्तानपतितानाम्” (अभि० को० २.३६) इति वचनात् । कथं कुशला-
कुशलाव्याकृततोक्ता ? “शुभादीनां शुभादिका” (अभि० को० २.३७) इति
वचनात् । लक्षणानामपि त्रैधातुकप्रतिसंयुक्ततोक्ता, “सर्वं संस्कृतलक्षणैः”
१. ०विपाकोऽपि—का० ।
२७८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
शेषयोश्चासंज्ञिकजीवितयोः, अतो न पुनर्ब्रूमः ।
कथं प्राप्त्यादीनां सत्त्वाख्यतोक्ता ? समन्वगमवचनात् ।
कथं लक्षणानां सत्त्वासत्त्वाख्यतोक्ता ? सर्वसंस्कृतसहभूत्वात् ॥ ४८ ॥
उक्ता विप्रयुक्ताः ॥
यत्तूक्तम्—"जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना" (अभि० को०
२.४६) इति, क इमे हेतवः ? के च प्रत्ययाः ?
(अभि० को० २.२३) इति वचनात् । सत्त्वासत्त्वाख्यताप्यत एवोक्ता;
सर्वं संस्कृतसहभूतत्वात् । अत एव च कुशलाकुशलाव्याकृतताप्युक्ता;
“चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च ।
चित्तानुवर्तिनः कालफलादिशुभतादिभिः" ॥ (अभि० को० २.५१) इति
वचनात् । असंज्ञिसमापत्ते रूपधात्वाप्ततोक्ता, "ध्यानेऽन्त्ये" (अभि०को० २.४२)
इति वचनात् । कुशलतापि "शुभा" (अभि० को० २.४२) इति वचनात् ।
सत्त्वाख्यताप्यत एव, "उपपद्यवेद्येव" (अभि० को० २.४२) इति वचनात् ।
निरोधसमापत्तेरप्यारूप्यधात्वाप्ततोक्ता, “भवाग्रजा" (अभि० को० २.४३)
इति वचनात् । कुशलतापि "शुभा" (अभि० को० २.४२) इति वचनात्,
सत्त्वाख्यताप्यत एव, कुशलसंस्कृतत्वात् । असमन्वागमस्य त्रिधात्वाप्ततोक्ता,
“कामाद्यप्तामलानां” च (अभि० को० २.४०) इति वचनात् । सत्त्वाख्यता,
समन्वगमवचनात् । अव्याकृतताप्युक्ता, "अक्लिष्टाव्याकृता प्राप्तिः” (अभि०
को० २.३९) इति वचनात् । शेषयोश्चासंज्ञिकजीवितयोः । किम् ? वक्तव्यमुक्त-
मिति वर्तते । आसंज्ञिकस्य रूपाप्तसत्त्वाख्यविपाकाव्याकृततोक्ता, "विपाकस्ते
बृहत्फलाः” (अभि० को० २.४१) इति वचनात् । जीवितस्य त्रिधात्वाप्त-
तोक्ताः, “आयुर्जीवितम्” (अभि० को० २.४५) इति वचनात् । आयुष्यञ्च
त्रैधातुकत्वात् । सत्त्वाख्यताप्युक्ता, "विपाको जीवितम्” (अभि० को० २.१०)
इति सूत्रात् । विपाको हि सत्त्वाख्य एव, "विपाकोऽव्याकृतो धर्मः सत्त्वाख्यो
व्याकृतोद्भवः” (अभि० को० २.५८) इति वचनात् । अत एवास्या-
निवृत्ताव्याकृतताप्युक्तेति । आचार्येण तु यद्दर्शनं वक्तव्यमुक्तं तद्विवृत्तम् । कथं
प्राप्त्यादीनां सत्त्वाख्यतोक्ता समन्वगमवचनादित्यादि ॥ ४८ ॥
क इमे हेतवः के च प्रत्यया इति । हेतुनां च कः प्रतिविशेषः ? न कश्चि-
दित्याह । तथा ह्युक्तं भगवता—"द्वौ हेतू द्वौ प्रत्ययौ सम्यग्दृष्टेरुत्पादाय ।
कतमौ द्वौ ? परतश्च घोषोऽध्यात्मं च योनिशोमनस्कारः" इति । हेतुः प्रत्ययो
निदानं कारणं निमित्तं लिङ्गमुपनिषदिति पर्यायाः । उपनिषच्छब्दस्तु कदाचिद्
निर्देशः ] द्वितीयं कोशस्थानम् २७५
कारणं सहभूश्चैव सभागः सम्प्रयुक्तकः ।
सर्वत्रगो विपाकाख्यः षड्विधो हेतुरिष्यते ॥ ४९ ॥
उपांशौ, कदाचित् प्रामुख्य इति । तद् यथापि सूर्योपनिषदो देवा इति, उपांशु-
प्रयोग उपनिषत्प्रयोग इति । यदि प्रतिविशेषो नास्ति किमर्थं हेतूनां प्रत्ययानां
च पृथङ्निर्देशः ? अन्येनार्थविशेषेण हेतुनिर्देशोऽन्येन प्रत्ययनिर्देशः । हेतुनिर्देशे
ह्यविघ्नभावसहभूत्वसदृशत्वादिरर्थविशेष उक्तः । प्रत्ययनिर्देशे तु हेतुसमन्तर-
त्वादिभिरपरोऽर्थविशेष उक्त इति । अथ कतमस्मिन् सूत्रे षड् हेतवः उक्ताः ?
सर्वो ह्यभिधर्मः सूत्रार्थः सूत्रनिकषः सूत्रव्याख्यानमिति । अन्तर्हितं तत् सूत्रमिति
वैभाषिकाः । तथा हि-एकोत्तरिकागम आ शताद्धर्मनिर्देश आसीत्, इदानीं त्वा
दशकाद् दृश्यन्त इति कथयन्ति ।
अपि तु सन्ति प्रतिनियतहेतुवाचकानि सूत्राणि तान्युदाहरिष्यामः ।
“चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम्” इति कारणहेतुः । जनना-
विघ्नभावेन ह्येष व्यवस्थाप्यते ।
“इमानि त्रीणि मार्गाङ्गानि सम्यग्दृष्टिमनुपरिवर्त्तन्ते । तैः सह जाता वेदना
संज्ञा चेतना च” इति सहभूहेतुः । अन्योन्यानुपरिवर्त्तनैककृत्यार्थेन ह्येष
व्यवस्थाप्यते ।
“समन्वागमोऽयं पुद्गल कुशलैरपि धर्मैरकुशलैरपि यावदस्ति चास्याणुसह-
गतं कुशलमूलमसमुच्छिन्नं यतोऽस्य कुशलमूलादन्यद् कुशलमूलमुत्पत्स्यते ।
एवमयं पुद्गल आयत्यां विशुद्धिधर्मा भविष्यति” इति सभागहेतुः । एष ह्यतीत-
प्रत्युत्पन्नानां धर्माणां स्वफलनिर्वर्त्तनार्थेन व्यवस्थाप्यते ।
“इयमुच्यते दर्शनमूलिका श्रद्धा वेत्यज्ञानसम्प्रयुक्ता । यद्विजानाति तत्
प्रजानाति” इति सम्प्रयुक्तकहेतुः । एकालम्बनकृत्यार्थेन ह्येष व्यवस्थाप्यते ।
“मिथ्यादृष्टेः पुरुषपुद्गलस्य यच्च कायकर्म तद्दृष्टेर्यच्च वाक्कर्म या चेतना
यः प्रणिधिर्ये च संस्कारास्तदन्वयाः, सर्वेऽप्येते धर्मा अनिष्टत्वाय संवर्तन्तेऽ-
कान्तत्वायाप्रियत्वायामनआपत्वाय । तत् कस्य हेतोः ? दृष्टिर्ह्यस्य पापिका
यदुत मिथ्यादृष्टिः” इति सर्वत्रगहेतुः । एष हि सभागविसभागक्लिष्टधर्म-
प्रबन्धजनकार्थेन व्यवस्थाप्यते ।
'इह कृतस्य कर्मणः कुशलस्य सास्रवस्य भावनामयस्य तत्रोत्पन्ना विपाकं
प्रतिसंवेदयन्ते । सञ्चेतनीयस्य कर्मणः कृतस्योपचितस्य विपाकः” इति विपाक-
हेतुः । एष हि विसदृशफलाक्षेपकत्वेन व्यवस्थाप्यते ।
इत्यत एते षड् हेतवः सूत्रत एव प्रसिद्धा इति “षड्विधो हेतुरिष्यते”
-वैभाषिकैरित्यभिप्रायः ॥ ४९ ॥
२८० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
षडिमे हेतवः—कारणहेतुः, सहभूहेतुः, सभागहेतुः, सम्प्रयुक्तक-
हेतुः, सर्वत्रगहेतुः, विपाकहेतुरिति । तत्र—
स्वतोऽन्ये कारणं हेतुः
संस्कृतस्य हि धर्मस्य स्वभाववर्ज्याः सर्वधर्माः कारणहेतुः, उत्पादं¹ प्रति¹
अविघ्नभावावस्थानात् ।
ननु च येऽस्याजानत उदपत्स्यन्तास्रवा जानतोऽस्य ते नोत्पद्यन्त इति
ज्ञानमेषां विघ्नमुत्पत्तौ करोति, सूर्यप्रभा² चञ्च ज्योतिषां³ दर्शनस्येति कथं स्वभाव-
वर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवन्ति ?
उत्पद्यमानस्याविघ्नभावेनावस्थानादिति³ ज्ञातव्यम् ।
“स्वतोऽन्ये” इति । आत्मनोऽन्य इत्यर्थः । स्वात्मनि वृत्तिविरोधात् स्वात्मा
न हेतुः । सर्वधर्माः संस्कृतासंस्कृता कारणहेतुरिति । कारणमेव हेतुः कारणहेतुः ।
यो हेतुविशेषसंज्ञया नोच्यते, सामान्यं हेतुभावं परिगृह्योच्यते, स कारणहेतुः ।
अन्येषु हि विशेषसंज्ञानिरुक्तेषु हेतुषु यो न विशेषितः कारणं च । तस्य तदेव
विशेषणं भवति । यथा रूपायतनमुक्तमिति । उत्पादं प्रत्यविघ्नभावावस्थानादिति ।
यस्मादुत्पादं प्रत्युत्पत्तिमतां स्वतोऽन्ये धर्मा अविघ्नभावेनावतिष्ठन्ते, तस्मात्
कारणहेतुरित्युच्यते ।
ननु च येऽस्याजानत इति विस्तरः । ज्ञानञ्चेन्नोदपत्स्यत । उदपत्स्यन्तास्र-
वास्त इति । विस्तरो लृङोऽर्थः । तेनाह—अस्याजानत अनुत्पन्नदर्शनभावना-
मार्गपुद्गलस्य ये दर्शनभावनामार्गवध्या रागादयः सास्रवा उदपत्स्यन्त । जानत
उत्पन्नदर्शनभावनामार्गस्यास्य पुद्गलस्य तद्वध्यास्ते रागादयो नोत्पद्यन्ते ।
ततः किम् ? इत्याह—ज्ञानमेषां विघ्नमुत्पत्तौ करोति दर्शनभावनामार्गसंगृहीतम् ।
सूर्यप्रभा च ज्योतिषां दर्शनस्य । विघ्नमुत्पत्तौ करोतीत्यधिकृतम् । एवं सति
कथं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवन्ति । यस्मादास्रवोत्पत्तौ न
ज्ञानं कारणहेतुः । ज्योतिर्दर्शनोत्पत्तौ च सूर्यप्रभा । एवं हि वक्तव्यं स्यात्—
आस्रवोत्पत्तौ स्वभावज्ञानवर्ज्याः सर्वधर्माः कारणहेतुः, ज्योतिर्दर्शनोत्पत्तौ च
स्वभावसूर्यप्रभावर्ज्याः सर्वधर्माः कारणहेतुरिति । उत्पद्यमानस्याविघ्नभावावस्था-
नादिति । समग्रेषु हेतुप्रत्ययेष्वनन्तरभावी धर्म उत्पद्यमान उच्यते । तस्योत्पद्य-
१-१. उत्पादं प्रत्य०—का० ।
२-२. सूर्यप्रभावज्ज्योतिषां—का० ।
निर्देशः ] द्वितीयं कोशस्थानम् २८१
भवेत् तावदुत्पत्तौ विघ्नकारणे समर्थानामविघ्नकारणाद्धेतुत्वम्। तद्यथा
अनुपद्रोतारं भोजकमधिकृत्य ग्रामीणा भवन्ति वक्तारः—‘स्वामिना स्मः
सुखिताः' इति।
यस्य पुनर्नास्त्येव शक्तिर्विघ्नयितुम्, तस्य कथं हेतुभावः, तद्यथा
निर्वाणस्यानुत्पत्तिधर्माणां¹ च सर्वोत्पत्तौ, नारकादीनां चारूप्यस्कन्धोत्पत्तौ² ?
असन्तोऽपि ह्येते तथैव विघ्नं कर्तुमसमर्थाः स्युः। असमर्थेऽपि हि भोजके
तथा वक्तारो भवन्तीति स एवात्र दृष्टान्तः सामान्येनैव निर्देशः।
मानस्योत्पादं प्रति सर्वधर्मा एवाविघ्नभावेनावतिष्ठन्ते, न सर्वस्येत्यवगन्तव्यम्।
ज्ञाने पुनः सति त आस्रवा नोत्पद्यमाना भवन्ति, प्राप्त्याद्यभावेन प्रत्यय-
सामग्र्यभावात्। ज्योतिर्दर्शनमपि प्रत्ययनैकल्यादेव नोत्पद्यमानमिति योज्यम्।
अतस्तदवस्थमिदं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवन्तीति।
तद्यथाऽनुपद्रोतारं भोजकमिति विस्तरः। अनुपद्रवकरं ग्रामपतिमभिसन्धाय
मनुष्या ब्रूयुः—स्वामिना स्मः सुखिता इति। कस्मात् त एवं वक्तारो भवन्ति ?
यस्मादसावुपद्रवकरणे समर्थ उपद्रवं न करोति।
तद्यथा निर्वाणस्यानुत्पत्तिधर्माणां च। किम्? कथं हेतुभावः सर्वोत्पत्तौ।
नारकादीनाञ्च नारकतिर्यग्योन्यादिकानामारूप्यस्कन्धोत्पत्तौ कथं हेतुभावः।
नारकादिग्रहणं मनुष्यादीनां कदाचिद् भवेदुपदेशादिनेत्यभिप्रायः। असन्तोऽपि
ह्येवेति। असन्तोऽपि ह्येते निर्वाणदयस्तथैव, यथा सन्तो विद्यमाना विघ्नं
कर्तुमसमर्थाः स्युः। अतोऽसतां सतां चैषा निर्वाणादीनां विघ्नकरणे निर्विशिष्ट-
त्वम्। असत्तुल्यास्त इत्यर्थः। असमर्थेऽपीति। उपद्रवं कर्तुमसमर्थेऽपि भोजके
ग्रामीणास्तथा वक्तारो भवन्ति—‘स्वामिना स्मः सुखिताः' इति। स एवात्र दृष्टान्तो
यः प्राक्तनः। अतोऽनेनैव दृष्टान्तेन विघ्नयितुमसमर्थानामपि निर्वाणादीनाम-
विघ्नभावावस्थानात् कारणहेतुभावः सिद्धः। कस्मात् पुनरसत्तुल्यानां निर्वाण-
दीनां कारणहेतुत्वमिष्यते, न पुनरसतां शशविषाणादीनाम्? असद्दृष्टान्ता-
भावात्। न ह्यसन्तं भोजकमधिकृत्य ग्रामीणा भवन्ति वक्तारः—स्वामिना स्मः
सुखिता इति, न वा शशविषाणेन स्मः सुखिता इति। अचोद्यमेतत्। सामान्य-
नैव निर्देश इति। यश्च प्रधानः कारणहेतु, यश्चाप्रधानः सर्वमधिकृत्योक्तम्—
“स्वतोऽन्ये कारणं हेतुः” इति।
१. ॰धर्मकाणां—का० ।
२. सत्त्वस्कन्धो०—का० ।
२८२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
यस्तु प्रधानः कारणहेतुः, स उत्पादनेऽपि समर्थः, यथा चक्षूरूपे
चक्षुर्विज्ञानस्य, आहारः शरीरस्य, बीजादयोऽङ्कुरादीनामिति ।
यस्त्वेवं चोदयति—अनावरणभावेन चेत् सर्वं धर्महेतवो भवन्ति, कस्मान्न
सर्वस्योत्पादो युगपद्भवति, प्राणातिपातेन च घातकवत् सर्वे तद्भाजो भवन्तीति ?
तस्येदमचोद्यम्; यस्मादनावरणभावेन सर्वधर्माः हेतुः प्रतिज्ञायन्ते, न
कारकभावेनेति ।
सर्वस्यैव कारणहेतोः सर्वोत्पत्तौ सामर्थ्यमित्यपरे । तद्यथा—निर्वाणस्यापि
चक्षुर्विज्ञानम् ।
कथं कृत्वा ? तेन ह्यालम्बनात् मनोविज्ञानमुत्पद्यते कुशलाकुशलम्; यतः
क्रमेण पश्चाच्चक्षुर्विज्ञानमिति कारणपरम्परया तस्यापि प्रत्ययीभावादस्ति सामर्थ्यम् ।
एवमन्यस्यापि प्रतिपत्तव्यम् । एषा हि दिक् ।
उक्तः कारणहेतुः ॥
यो हि प्रधानो जनकः स कारणहेतुः। स सुतरामविघ्नभावेनावतिष्ठते, न
केवलमितरः । आहारः शरीरस्योत्पादनेऽपि समर्थ इत्यधिकृतम्; “आहारस-
मुदयात् कायसमुदयः" इति वचनात् । रसादिपरिणामयोगात् । बीजादयोऽङ्-
कुरादीनामिति । बीजाङ्कुरनालगण्डप्रसवादीनामुत्पादने समर्था इत्येवम् ।
यस्त्वेवं चोदयतीति । विस्तारः—कारणे सति कार्येण भवितव्यमिति मत्वा
चोदयति—कस्मान्न सर्वस्योत्पादो युगपद् भवति । यथा च प्राणातिपातकारकः
प्राणातिपातभाग् भवति, तथा सर्वेऽपि कस्मान्न तद्भाजो भवन्तीति । न
कारकभावेनेति । न मुख्यवृत्त्यास्य कारणत्वमिति दर्शयति । तेन सर्वस्य तावद्
युगपदुत्पादो न प्राप्नोति; प्रत्ययसामग्र्यभावेनानुत्पद्यमानत्वात् । प्राणातिपात-
भागश्च न भवति; अकारकत्वात् । यस्तु कारकः स प्राणातिपातभागेव भवति ।
मनोविज्ञानमुत्पद्यते कुशलाकुशलमिति । कुशलं मनोविज्ञानमिति निर्वाणा-
लम्बनत्वात् । निर्वाणालम्बनात् कुशलादकुशलाद्वा मनोविज्ञानमुत्पद्यते ।
ततश्चक्षुर्विज्ञानमिति । एवं परम्परया तस्यापि निर्वाणस्य प्रत्ययीभावादस्ति
सामर्थ्यम् । क्व ? चक्षुर्विज्ञान इत्यधिकृतम् । एवमन्यस्यापि प्रतिपत्तव्यमिति ।
नारकादीनामप्यारूप्यस्कन्धोत्पत्तौ सामर्थ्यम् । कथम् ? अमी बत नारक-
प्रेतादयः परमदुःखिता इति नारकाद्यालम्बनं मनोविज्ञानं कुशलमुत्पद्यते,
यतः क्रमेण शीले व्यवस्थितस्य भावनायां प्रयोगादारूप्यसमापत्तिः, उपपत्ति-
श्चोपपद्यत इति ।