अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 302, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] द्वितीयं कोशस्थानम् २८१
भवेत् तावदुत्पत्तौ विघ्नकारणे समर्थानामविघ्नकारणाद्धेतुत्वम्। तद्यथा
अनुपद्रोतारं भोजकमधिकृत्य ग्रामीणा भवन्ति वक्तारः—‘स्वामिना स्मः
सुखिताः' इति।
यस्य पुनर्नास्त्येव शक्तिर्विघ्नयितुम्, तस्य कथं हेतुभावः, तद्यथा
निर्वाणस्यानुत्पत्तिधर्माणां¹ च सर्वोत्पत्तौ, नारकादीनां चारूप्यस्कन्धोत्पत्तौ² ?
असन्तोऽपि ह्येते तथैव विघ्नं कर्तुमसमर्थाः स्युः। असमर्थेऽपि हि भोजके
तथा वक्तारो भवन्तीति स एवात्र दृष्टान्तः सामान्येनैव निर्देशः।
मानस्योत्पादं प्रति सर्वधर्मा एवाविघ्नभावेनावतिष्ठन्ते, न सर्वस्येत्यवगन्तव्यम्।
ज्ञाने पुनः सति त आस्रवा नोत्पद्यमाना भवन्ति, प्राप्त्याद्यभावेन प्रत्यय-
सामग्र्यभावात्। ज्योतिर्दर्शनमपि प्रत्ययनैकल्यादेव नोत्पद्यमानमिति योज्यम्।
अतस्तदवस्थमिदं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवन्तीति।
तद्यथाऽनुपद्रोतारं भोजकमिति विस्तरः। अनुपद्रवकरं ग्रामपतिमभिसन्धाय
मनुष्या ब्रूयुः—स्वामिना स्मः सुखिता इति। कस्मात् त एवं वक्तारो भवन्ति ?
यस्मादसावुपद्रवकरणे समर्थ उपद्रवं न करोति।
तद्यथा निर्वाणस्यानुत्पत्तिधर्माणां च। किम्? कथं हेतुभावः सर्वोत्पत्तौ।
नारकादीनाञ्च नारकतिर्यग्योन्यादिकानामारूप्यस्कन्धोत्पत्तौ कथं हेतुभावः।
नारकादिग्रहणं मनुष्यादीनां कदाचिद् भवेदुपदेशादिनेत्यभिप्रायः। असन्तोऽपि
ह्येवेति। असन्तोऽपि ह्येते निर्वाणदयस्तथैव, यथा सन्तो विद्यमाना विघ्नं
कर्तुमसमर्थाः स्युः। अतोऽसतां सतां चैषा निर्वाणादीनां विघ्नकरणे निर्विशिष्ट-
त्वम्। असत्तुल्यास्त इत्यर्थः। असमर्थेऽपीति। उपद्रवं कर्तुमसमर्थेऽपि भोजके
ग्रामीणास्तथा वक्तारो भवन्ति—‘स्वामिना स्मः सुखिताः' इति। स एवात्र दृष्टान्तो
यः प्राक्तनः। अतोऽनेनैव दृष्टान्तेन विघ्नयितुमसमर्थानामपि निर्वाणादीनाम-
विघ्नभावावस्थानात् कारणहेतुभावः सिद्धः। कस्मात् पुनरसत्तुल्यानां निर्वाण-
दीनां कारणहेतुत्वमिष्यते, न पुनरसतां शशविषाणादीनाम्? असद्दृष्टान्ता-
भावात्। न ह्यसन्तं भोजकमधिकृत्य ग्रामीणा भवन्ति वक्तारः—स्वामिना स्मः
सुखिता इति, न वा शशविषाणेन स्मः सुखिता इति। अचोद्यमेतत्। सामान्य-
नैव निर्देश इति। यश्च प्रधानः कारणहेतु, यश्चाप्रधानः सर्वमधिकृत्योक्तम्—
“स्वतोऽन्ये कारणं हेतुः” इति।
१. ॰धर्मकाणां—का० ।
२. सत्त्वस्कन्धो०—का० ।