अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 294, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] द्वितीयं कोशस्थानम् २७३
नाम प्रकाशयिष्यति । यादृशो वा घोषविशेष इष्यते नाम्नः प्रकाशकः, स
एवार्थस्य द्योतको भविष्यति । न खल्वपि शब्दानां सामग्र्यमस्ति क्षणिकमिलनम् ।
न चैकस्य भागश उत्पादो युक्त इति कथमुत्पादयन्ती वाङ् नामोत्पादयेत् !
कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्यविज्ञप्तिम् ? एवं तर्हि
पश्चिम 'शब्दे एव' नाम्न उत्पादाद् योऽपि तमेवैकं शृणोति सोऽप्यर्थं प्रतिपद्येत ।
अथाप्येवं कल्प्येत—वाग् व्यञ्जनं जनयति, व्यञ्जनं तु नामेति ?
प्रकाशयत्यर्थद्योतनायेति यदिष्यते ? अत्रोच्यते—सर्व घोषमात्रं नाम प्रकाश-
यिष्यतीति पूर्ववद् वाच्यम् । न खल्वपि शब्दानां सामग्र्यमस्तीति । यदनेकाक्षरं
नाम तदुत्पत्तिपरिकल्पोऽनेक शब्दापेक्षः । तेनैवं विचार्यते-- इहोच्चरितप्रध्वंसिनः
शब्दः, तस्मादेषां युगपदवस्थानं नास्ति । एकस्य च द्रव्यसतो धर्मस्य भागशः
खण्डश उत्पादो न युक्तः, यथा घटपटादेः प्रज्ञप्तिसतः कल्प्यत इति कथमुत्पादयन्ती
वाङ् नामोत्पादयेत् ! यदा तदुत्पादयति तदा कथं सा तदुत्पादयतीति वाक्यार्थः ।
वर्त्तमाना हि वाङ् नामोत्पादयन्त्युत्पादयेत्, न च सर्वे वाक्शब्दक्षणा युगपद्
वर्त्तमाना भवन्ति । यदा हि रूपमिति र शब्दो वर्त्तमानो भवति तदा ऊकार-
पकाराकारा अनागता भवन्ति, यदा ऊकारो वर्त्तमानो भवति तदा रशब्दोऽ-
तीतः पकाराकारावनागतौ, एवं पकाराकारावपि क्रमशो यदा वर्त्तमानौ
भवतस्तदा इतरे न वर्त्तमाना—इत्येवं सा वाङ् नाम नैवोत्पादयेत् ।
ब्रूयास्त्वम्—वर्त्तमानो रशब्दस्तस्य रूपनाम्नः पूर्वं भागमुत्पादयति, ऊशब्दोऽपि
वर्त्तमानो द्वितीयं भागम्, एवं यावदकारशब्दस्तस्य चतुर्थभागमुत्पादयतीति ?
तदयुक्तम्; एकस्य धर्मस्य भागश उत्पादासम्भवादिति । उक्तमेतत् ।
कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षणः उत्पादयत्यविज्ञप्तिमिति । प्राति-
मोक्षसंवरसमादाने कायवाग्विज्ञप्तयः प्रवर्त्तन्ते, तासा नास्ति सामग्र्यम् । अथ
चातीतकायवाग्विज्ञप्तिक्षणापेक्षः पश्चिमो विज्ञप्तिक्षणः प्रातिमोक्षसंवरसंगृहीता-
मविज्ञप्तिमुत्पादयति, एवमतीतशब्दक्षणापेक्षः पश्चिमो वाक्शब्दक्षणो नामो-
त्पादयतीति । एवं तर्हीति विस्तरः । पश्चिमशब्द एव नाम्न उत्पादात् योऽपि
तमेवैकं शृणोति योऽपि पश्चिममेवैकं शब्दं शृणोति रूपमिति । सोऽप्यर्थं
प्रतिपद्येत । सोऽपि रूपनामार्थं गृह्णीयात्; तन्नोमोत्पत्तेः । न चैवं प्रतिपद्यते ।
तस्मादयुक्तमेतत् ।
अथाप्येवं कल्प्येत इति विस्तरः । क्षणप्रतिभासा वर्णवाग्, व्यञ्जनमपि
तत्प्रतिभासमिति पक्षान्तरमुपन्यस्यते । वाग् व्यञ्जनं जनयति, व्यञ्जनं तु
१ १. पश्चिम एव शब्दे—का० ।
अभि० को० १८