अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 303, कुल 1258 में से
संदर्भ में पढ़ें२८२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
यस्तु प्रधानः कारणहेतुः, स उत्पादनेऽपि समर्थः, यथा चक्षूरूपे
चक्षुर्विज्ञानस्य, आहारः शरीरस्य, बीजादयोऽङ्कुरादीनामिति ।
यस्त्वेवं चोदयति—अनावरणभावेन चेत् सर्वं धर्महेतवो भवन्ति, कस्मान्न
सर्वस्योत्पादो युगपद्भवति, प्राणातिपातेन च घातकवत् सर्वे तद्भाजो भवन्तीति ?
तस्येदमचोद्यम्; यस्मादनावरणभावेन सर्वधर्माः हेतुः प्रतिज्ञायन्ते, न
कारकभावेनेति ।
सर्वस्यैव कारणहेतोः सर्वोत्पत्तौ सामर्थ्यमित्यपरे । तद्यथा—निर्वाणस्यापि
चक्षुर्विज्ञानम् ।
कथं कृत्वा ? तेन ह्यालम्बनात् मनोविज्ञानमुत्पद्यते कुशलाकुशलम्; यतः
क्रमेण पश्चाच्चक्षुर्विज्ञानमिति कारणपरम्परया तस्यापि प्रत्ययीभावादस्ति सामर्थ्यम् ।
एवमन्यस्यापि प्रतिपत्तव्यम् । एषा हि दिक् ।
उक्तः कारणहेतुः ॥
यो हि प्रधानो जनकः स कारणहेतुः। स सुतरामविघ्नभावेनावतिष्ठते, न
केवलमितरः । आहारः शरीरस्योत्पादनेऽपि समर्थ इत्यधिकृतम्; “आहारस-
मुदयात् कायसमुदयः" इति वचनात् । रसादिपरिणामयोगात् । बीजादयोऽङ्-
कुरादीनामिति । बीजाङ्कुरनालगण्डप्रसवादीनामुत्पादने समर्था इत्येवम् ।
यस्त्वेवं चोदयतीति । विस्तारः—कारणे सति कार्येण भवितव्यमिति मत्वा
चोदयति—कस्मान्न सर्वस्योत्पादो युगपद् भवति । यथा च प्राणातिपातकारकः
प्राणातिपातभाग् भवति, तथा सर्वेऽपि कस्मान्न तद्भाजो भवन्तीति । न
कारकभावेनेति । न मुख्यवृत्त्यास्य कारणत्वमिति दर्शयति । तेन सर्वस्य तावद्
युगपदुत्पादो न प्राप्नोति; प्रत्ययसामग्र्यभावेनानुत्पद्यमानत्वात् । प्राणातिपात-
भागश्च न भवति; अकारकत्वात् । यस्तु कारकः स प्राणातिपातभागेव भवति ।
मनोविज्ञानमुत्पद्यते कुशलाकुशलमिति । कुशलं मनोविज्ञानमिति निर्वाणा-
लम्बनत्वात् । निर्वाणालम्बनात् कुशलादकुशलाद्वा मनोविज्ञानमुत्पद्यते ।
ततश्चक्षुर्विज्ञानमिति । एवं परम्परया तस्यापि निर्वाणस्य प्रत्ययीभावादस्ति
सामर्थ्यम् । क्व ? चक्षुर्विज्ञान इत्यधिकृतम् । एवमन्यस्यापि प्रतिपत्तव्यमिति ।
नारकादीनामप्यारूप्यस्कन्धोत्पत्तौ सामर्थ्यम् । कथम् ? अमी बत नारक-
प्रेतादयः परमदुःखिता इति नारकाद्यालम्बनं मनोविज्ञानं कुशलमुत्पद्यते,
यतः क्रमेण शीले व्यवस्थितस्य भावनायां प्रयोगादारूप्यसमापत्तिः, उपपत्ति-
श्चोपपद्यत इति ।