अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 296, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] द्वितीयं कोशस्थानम् २७५
वर्त्तमानं नाम न स्याद् । अपत्यानां पितृभिर्यथेष्टं नामानि कल्प्यन्त इति कतमन्नाम
तत् सहजं स्यात् ! असंस्कृतानां च धर्माणां केन सहजं नाम न¹ स्यात् इत्य-
निष्टिरेवेयम् ।
यदप्युक्तं भगवता—
“नामसन्निश्रिता गाथा गाथानां कविराश्रयः” ( ) इति ।
तत्रार्थेषु² कृतावधिः शब्दो नाम, नाम्नां³ च रचनाविशेषो गाथेति
नामसन्निश्रिता भवति । रचनाविशेषश्च द्रव्यान्तरं नोपपद्यते, पंक्तिवत्,
चित्तानुपूर्व्यवच्च ।
अस्तु वा व्यञ्जनमात्रस्य द्रव्यान्तरभावपरिकल्पना । तत्समूहा एव
नामकायादयो भविष्यन्तीत्यपार्थिका तत्प्रक्लृप्तिः⁴ ।
मत्वा पक्षान्तरमिदं विकल्प्यते । यथा जात्यादीनि लक्षणान्यर्थसहजान्येष्यन्ते,
नातीतानागतस्यार्थस्य वर्त्तमानानि भवन्ति । एवमेव यदि नामेष्येत। अतीता-
नागतस्यार्थस्य वर्त्तमानं नाम न स्यात् । ततश्चातीतानागतार्थव्यवहारो न शक्येत
कर्तुम् । न ह्यतीतानागतं नामार्थं द्योतयितुमर्हति, यथातीतानागता वाङ्नाम
नोत्पादयितुं व्यञ्जयितुं चार्हति । नामबहुत्वे च न सहजं नाम परिच्छिद्येत ।
असंस्कृतानां चानुत्पत्तिमत्त्वात् सहजं नाम न स्यादित्यनिष्टिरेवेयम् । न कर्त्तव्ये-
वेयमिष्टिरित्यभिप्रायः ।
नामसन्निश्रिता गाथा इति । गाथा = वाक्यम् । सा नामानि सन्निश्रिता;
नामसूत्पन्नेषु भावात् । तस्मात् सन्ति नामानि वाक्यं चेति वचनावकाशोऽ-
स्ति ? इत्याह—तत्रार्थेषु कृतावधिशब्दो नामेति । विस्तरः—अर्थकृतावधिशब्द-
स्वभावानां नाम्नां रचनाविशेषो गाथा । विन्यासविशेष इत्यर्थः । पंक्तिवदिति
यथा पंक्तिः पिपीलिकादीनां रचनाविशेषः, न ततो द्रव्यान्तरमुपपद्यते, तद्वत् ।
एककालवर्त्तिनां पक्षिपिपीलिकादीनां रचनाविशेषः पंक्तिरित्युच्यते, क्रमवर्त्तिनां
तु शब्दानां न रचनाविशेषः, तेन वैषम्यमिति वचनावकाशमभिसमीक्ष्य
द्वितीयो दृष्टान्त उपन्यस्यते—चित्तानुपूर्व्यवच्चेति । यथानुक्रमवर्त्तिभ्यश्चित्तेभ्यो
नान्यदानुपूर्व्यमस्ति, तद्वत् ।
अपार्थिका तत् प्रक्लृप्तिरिति । निष्प्रयोजना नामपदद्वयोरर्थान्तरपरिकल्प-
नेत्यर्थः ।
१. का० पुस्तके नास्ति । २. अत्रा०—का० ।
३. नाम्ना—का० । ४. तत्प्रज्ञप्तिः—का० ।