सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 292, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 292

निर्देशः ] द्वितीयं कोशस्थानम् २७१
व्यञ्जनम् = अक्षरम्, तद्यथा—अ, आ इत्येवमादि,
ननु चाक्षराण्यपि लिप्यवयवानां नामानि ? न वै लिप्यवयवानां प्रत्याय-
नार्थमक्षराणि प्रणीतानि, अक्षराणामेव तु प्रत्यायनार्थं लिप्यवयवाः प्रणीताः ।
कथमश्रूयमाणानि लेख्येन प्रतीयेरन्निति नाक्षराण्येषाम् नामानि ।
एषां च संज्ञादीनां समुक्तयो नामादिकायाः । “उच समवाये” ( मा०
धा० ४.११४ ) पठन्ति, तस्य 'समुक्तिः' इत्येतद् रूपं भवति । योऽर्थः
समवाय इति, सोऽर्थः समुक्तिरिति ।
तत्र नामकायस्तद्यथा - रूपशब्दगन्धरसस्प्रष्टव्यानीत्येवमादि ।
पदकायस्तद्यथा - “सर्वे संस्कारा अनित्याः”, “सर्वे धर्मा अनात्मानः”,
“शान्तं निर्वाणम्”, इत्येवमादि ।
व्यञ्जनकायस्तद्यथा—क, ख, ग, घ, ङेत्येवमादि ।
ननु च १ ते' वाक्स्वभावत्वाच्छब्दात्मका इति रूपस्वभावा भवन्ति, कस्मा-
च्चित्तविप्रयुक्ता इत्युच्यन्ते ? नैते वाक्स्वभावाः । घोषो हि वाक्, न च घोष-
इत्याहुः । तदेव स्वलक्षणाभिद्योतकं नाम क्रियादिसम्बन्धविशेषाभिद्योतकं
पदमित्युक्तं भवति ।
व्यञ्जनमक्षरमिति । वर्ण इत्यर्थः । न तु हल् एव; अचामपि व्यञ्जन-
कत्वेनेष्टत्वात् ।
ननु चाक्षराण्यपि लिप्यवयवानां नामानीति । लिपयो मनुष्यादिभिः पत्रादिषु
ये लिखिताः, तेषामक्षराणि नामानि । रूपनामग्रहणे रूपप्रतीतिवद् व्यञ्जन-
ग्रहणे लिपिप्रतीतिः । अतो व्यञ्जनमपि लिप्यवयवानां नाम भवतीति लक्षण-
साङ्कर्यम् । ततश्च यदभिप्रेतम् — नाम्नो व्यतिरिक्तमन्यदेव व्यञ्जनमक्षरमिति,
तन्नोपपद्यते । न वै लिप्यवयवानामिति । विस्तरः—विपरीतमेतदिति व्याचष्टे ।
यत्तु व्यञ्जनग्रहणे लिपिप्रतीतिरिति, तत् प्रत्याय्यप्रत्यायकभावेन संकेतिकत्वात्,
न तु तन्नामभावात् ।
समुक्तिरिति । 'उच समवाये' ( मा० धा० ४।११४ ) इत्येतस्य धातोः क्तिनि
'समुक्तिः' इत्येतद् रूपं भवति ।
योऽर्थः समवाय इति सोऽर्थ समुक्तिरिति । समवाय इत्यर्थः ।
ननु च ते इति । सौत्रान्तिकवचनम् । नैते वाक्स्वभावा इति । विस्तरेण
वैभाषिकवचनम् । न च घोषमात्रेणेति, नानक्षरात्मकेन घोषेणार्थोऽवगम्यते,
१-१. चैते—का० ।