सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 287, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 287

२६६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [इन्द्रिय-
योऽप्याह निकायान्तरीयः- "विनाशकारणं प्राप्यानित्यता बिना-
शयति" इति ? तस्य 'हरीतकीं प्राप्य देवता विरेचयति' इत्यापन्नं भवति, किं
पुनस्तां कल्पयित्वा ! तत एवास्तु विनाशकारणाद् विनाशः, चित्तचैत्तानां च
क्षणिकत्वाभ्युपगमात् तदनित्यताया विनाशकारणानपेक्षत्वात् स्थित्यनित्यते कारित्रम-
भिन्नकालं कुर्यातामित्येकस्यैकत्र काले स्थितिविनष्टता सम्प्रसज्यते¹ । तस्मात्
प्रवाहं प्रत्येतानि संस्कृतलक्षणान्युक्तानीति, एवमेतत् सूत्रं सुनीतं भवति ।
अपि च-यद्यनागता जातिर्जन्यस्य जनिका, किमर्थं सर्वमनागतं युग-
पत्नोत्पद्यते ? यस्मात्
जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना ॥ ४६ ॥
न हि विना हेतुप्रत्ययसामग्र्या जातिर्जनिका भवति ।
हेतुप्रत्ययानामेव तर्हि सामर्थ्यं पश्यामः; सति सामग्र्ये भावाद्, असति
चाभावात् । न जातेरिति हेतुप्रत्यया एव जनकाः सन्तः ।
तस्यान्यप्रकारता युज्यत इति ? यदि स एव नासावन्यथा, अथान्यथा न स
एव । ययोर्ह्यन्यथात्वं तयोरन्यत्वं दृष्टम्, तद्यथा-देवदत्तयज्ञदत्तयोः ।
योऽप्याह निकायान्तरीय इति । आर्यसम्मतीयः । स घटादेर्मुद्गरादिकृतो
विनाश इति मन्यते । कालान्तरावस्थायि हि तस्य रूपम् । चित्तचैत्तानां च
क्षणिकत्वम् । अत उच्यते-चित्तचैत्तानां च क्षणिकत्वाभ्युपगमात् तदनित्यताया-
श्चित्तचैत्तानित्यताया विनाशकारणानपेक्षत्वात् स्वयं विनश्वरत्वात् स्थित्यनित्यते
कारित्रं युगपत् कुर्याताम् । अत एकस्य चित्तस्य चैत्तस्य वा युगपत् स्थितिविन-
ष्टता अन्योन्यविरुद्धापि सम्प्रसज्यते । एवमेतत् सूत्रं सुनीतमिति । यदेतत्-
"त्रीणीमानि भिक्षवः संस्कृतस्य संस्कृतलक्षणानि" इति ।
सति सामग्र्ये भावात्, असति चाभावात् इति । सति हेतुप्रत्ययानां सामग्र्ये
भावात् जन्यस्य, असति चाभावात् । न जातेः । किम् ? 'सामर्थ्यम् पश्यामः'
इत्यधिकृतम् । न हि हेतुप्रत्ययसामग्र्येऽपि तज्जन्यं कदाचिद् भवति, कदाचिन्न
भवति ।
अत्र भदन्तानन्तवर्माऽऽह-यथा चक्षुन विनालोकादिभिश्चक्षुर्विज्ञानं जन-
यति, न चातस्तदुत्पत्तौ न कारणम्, एवं जातिर्न विना हेतुप्रत्ययैर्धर्मं जनयति;
न चातस्तदुत्पत्तौ न कारणमिति ?
१. सम्प्रसज्येत-का० ।