अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 284, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] द्वितीयं कोशस्थानम् २६३
न च संस्कृतानां रूपादीनां तावत् संस्कृतत्वं लक्ष्यते, गृह्यतापि स्वभावम्,
यावत् प्राग्भावो न ज्ञायते पश्चाच्च सन्ततेश्च विशेषः । तस्मान्न तेनैव
तल्लक्षितं भवति । न च तेभ्यो द्रव्यान्तराण्येव जात्यादीनि विद्यन्ते ।
अथापि नाम द्रव्यान्तराण्येव जात्यादीनि भवेयुः ? किमयुक्तं स्यात् ?
एको धर्मः एकस्मिन्नेव काले जातः स्थितो जीर्णो नष्टः स्यादेषां सहभूतत्वात् १ ?
न; कारित्रकालभेदात् । अनागता हि जातिः कारित्रं २ करोति । यस्मान्न जातं
जन्यते । जनिते तु धर्मे वर्त्तमानाः स्थित्यादयः कारित्रं कुर्वन्तीति न यदा जायते
तदा तिष्ठति, विनश्यति वा ।
इदं तावदिह सम्प्रधार्यं भवेत्—किमनागतं द्रव्यतोऽस्ति नास्तीति पश्चा-
ज्जनयति वा न वेति सिद्ध्येत् । सत्यपि तु तस्मिन् जातिः कारित्रं कुर्वती कथ-
मनागता सिध्यतीत्यनागतलक्षणं वक्तव्यम् । उपरतकारित्रा चोत्पन्ना कथं वर्त्तमाना
न च संस्कृतानां रूपादीनां तावत् संस्कृतत्वं लक्ष्यते गृह्यतापि स्वभावम् ।
गृह्यतापि रूपादीनां स्वभावम् । यावत् प्राग्भावो न ज्ञायते । यावत् तेषां
रूपादीनां प्रागुत्पत्त्यभावो न ज्ञायते । पश्चाच्च । किम् ? अभावः, प्रागभावश्च
प्रध्वंसाभावश्च यावन्न ज्ञायते । सन्ततेश्च विशेषः । यावन्न ज्ञायत इति वर्त्तते ।
तस्मान्न तेनैव तल्लक्षितं भवति । न तेनैव संस्कृतत्वेन संस्कृतत्वं लक्ष्यते । किं
तर्हि ? प्रागभावादिभिस्तत् संस्कृतत्वं लक्ष्यते । यदि हि रूपादीनां स्वभावम्
गृह्णन् संस्कृतमिति गृह्णीयात्, प्राग्भावं पश्चादभावं न सन्ततेश्च विशेषमज्ञात्वा
तेनैव तल्लक्षितं स्यात् । न त्वेवं जानीत इति । न तेनैव तल्लक्षितं भवति ।
न च तेभ्योऽपि रूपादिभ्यो द्रव्यान्तराण्येव जात्यादीनि विद्यन्ते । 'जातिरादिः
प्रवाहस्य' इति विस्तरेण वचनात् ।
एषां सहभूतत्वात् । जात्यादीनां समानकालोत्पादत्वात् । न; कारित्रकाल-
भेदादिति । नैतदेवम्; कस्मात् ? कारित्रकालभेदात्, पुरुषकारकालभेदादि-
त्यर्थः । तत् प्रतिपादयन्नाह—अनागता हि जातिः कारित्रं करोतीति विस्तरः ।
किमनागतं द्रव्यतोऽस्ति नास्तीति । अनागतमेव तावद् द्रव्यतो नास्तीति
प्रतिपादयिष्यते । कुतोऽनागता जातिः कारित्रं करोतीत्यभिप्रायः । सत्यपि
तु तस्मिन्निति । सत्यपि तु द्रव्यतोऽनागते जातिरनागतावस्थाया कारित्रं
कुर्वती कथमनागता सिध्यति । अप्राप्तकारित्रं ह्यनागतमिति सिद्धान्तः, स
१. सहभूतत्वात्—का० ।
२. कारित्रं हि—का० ।