सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 295, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 295

२७४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
अत्रापि स एव प्रसङ्गः; व्यञ्जनानां सामग्र्याभावात् ।
एष एव तु १ प्रसङ्गो नाम्नः प्रकाशकत्वे वाचः । व्यञ्जनं चापि वाग्विशिष्ट-
प्राज्ञा अप्यवहितचेतस्का लक्षणतः परिच्छेत्तुं नोत्सहन्त इति व्यञ्जनस्यापि वाङ्
नैवोत्पादिका, न प्रकाशिका युज्यते ।
अथाप्यर्थसहजं नाम जात्यादिवदिष्येत २ ? एवं सत्यतीतानागतस्यार्थस्य
नाम जनयतीति । अत्रापि स. एव प्रसङ्गो व्यञ्जनानां सामग्र्याभावात् । कथम् ?
न खलु व्यञ्जनानां सामग्र्यमस्ति । न चैकस्य धर्मस्य भागश उत्पादो युक्त
इति कथमुत्पादयद् व्यञ्जनं नामोत्पादयेत्, कथं तावदतीतापेक्षः पश्चिमो
विज्ञप्तिक्षणः उत्पादृत्यविज्ञप्तिम् ! एवं तर्हि पश्चिम एव व्यञ्जने नाम्न उत्पा-
दाद् योऽपि तमेवैकं पश्चिमं व्यञ्जनोत्पादकं शब्दं शृणोति, यो वा तदेवेकं
पश्चिमं व्यञ्जनं शृणोति, सोऽप्यर्थं प्रतिपद्येत ।
एष एव तु प्रसङ्गो नाम्नः प्रकाशकत्वे वाच इति । न खल्वपि शब्दानां
सामग्र्यमस्ति । न चैकस्य धर्मस्य भागशः प्रकाशो युक्त इति कथं प्रकाशयन्ती
वाङ् नाम प्रकाशयेत् । कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षणः प्रकाशयत्य-
विज्ञप्तिम् । एवं तर्हि पश्चिम एव शब्दे नाम्नः प्रकाशाद् योऽपि तमेवैकं शब्दं
शृणोति, सोऽप्यर्थं प्रतिपद्येत । अथाप्येवं कल्प्येत—वाग् व्यञ्जनं प्रकाशयति,
व्यञ्जनं तु नामेति ? अत्रापि स एव प्रसङ्गः; व्यञ्जनानां सामग्र्याभावात् ।
यस्य तर्हि शब्दमात्रं नामानेकाक्षरं च नाम भवति, न च शब्दानां सामग्र्यं-
मस्ति, तस्य कथं नामार्थं पत्याययति ? सर्वाक्षरस्मृत्यनन्तरत्वादर्थप्रतिपत्तेः ।
अत एव च नान्तरीयकन्यायेन प्रथमाक्षरश्रवणकाल एव शेषाक्षरानुस्मृतिबलेन
कश्चिदर्थं प्रतिपद्यत एवेति । व्यञ्जनस्यापि वाङ् नैवोत्पादिका न प्रकाशिका
युज्यत इति । पूर्वं शब्दस्योत्पाद्यं शब्दस्य व्यङ्ग्यं वा व्यञ्जनमभ्युपगम्य दोष
उद्ग्राहितः, इदानीं शब्दव्यतिरिक्तानुपलब्धेरुत्पाद्यव्यङ्ग्यत्वमपि तस्य
नास्तीति तदेवोन्मूलयति । न तु शब्दानां सामग्र्यभावादिति दोषो वक्तव्यः ।
न ह्यनेक शब्दापेक्षा व्यञ्जनप्रतिपत्तिः । अपि च—घोषस्वभावत्वाद् वाचः सर्वं
घोषमात्रं व्यञ्जनमुत्पादयिष्यति, प्रकाशयिष्यति वा । यादृशो वा घोषविशेष
इष्यते व्यञ्जनस्योत्पादकः प्रकाशको वा, स एव व्यञ्जनार्थं करिष्यतीति ।
अथाप्यर्थसहजं नाम जात्यादिवदिष्येतेति । विस्तरः—अथ सहजे नाम्नि
कल्प्यमाने वाचोत्पाद्यं प्रकाश्यं वा नामेत्येवमादिदोषप्रसङ्गो न भविष्यतीति
१. च—का० ।
२. ०विष्यते—का० ।