सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 297, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 297

२७६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
सन्त्येव तु विप्रयुक्तसंस्कारभावना नामकायादयो द्रव्यत इति वैभाषिकाः।
न हि सर्वे¹ धर्मास्तर्कगम्या¹ भवन्तीति ।
अथ किंप्रतिसंयुक्ता एते नामकायादयः सत्त्वाख्यासत्त्वाख्या² विपाकजा
औपचयिका नैःष्यन्दिकाः कुशला अकुशला अव्याकृता इति वक्तव्यम् ? आह-
कामरूपाप्तसत्त्वाख्या निःष्यन्दाव्याकृताः
कामाप्ताः, रूपाप्ताश्चेति । आरूप्याप्ता अपि सन्ति, ते त्वनभिलाप्या
इत्यपरे । सत्त्वाख्या एते । यश्च द्योतयति स तैः समन्वागतः, न यो
द्योत्यते । नैःष्यन्दिका अनिवृताव्याकृताश्च ।
यथा चैते नामकायादयः सत्त्वाख्या नैःष्यन्दिका अनिवृताव्याकृताश्च,
न हि सर्वे धर्मास्तर्कगम्या इति । केचिदेव तर्कगम्याः, न सर्वे । ये हि
तथागतज्ञानगोचरपतिता एव, न ते तर्कगम्या इत्यभिप्रायः ।
चित्तविप्रयुक्तप्रभेदविवक्षयेदमुपन्यस्यते-अथ किंप्रतिसंयुक्ता इति । विस्तरः-
कस्मिन् धातौ प्रतिसंयुक्ताः किंप्रतिसंयुक्ताः । सत्त्वाख्यासत्त्वाख्येति किमिति ।
“कामरूपाप्तसत्त्वाख्या निष्यन्दाव्याकृताः” इति । कामरूपाप्ता एव, सत्त्वाख्या
एव, निष्यन्दा एव, अव्याकृता एव चेत्यवधारणम् ।
ते त्वनभिलाप्या इति । ते त्वारूप्याप्ता नामकायादयोऽकथ्याः; वाचस्त-
त्राभावात् । कथं ते सन्तीति गम्यन्ते ? यदा ते नाभिलप्यन्ते । तस्मात्,
कामरूपाप्ता एव, नारूप्याप्ता इति वैभाषिकाः । सत्त्वाख्या एव च; सत्त्वप्रयत्ना-
भिनिर्वृत्तवर्णादिस्वभावत्वात् । यश्च द्योतयति, स तैः समन्वागत इति । कुतः
पुनरियमाशङ्का-अन्योन्यस्य तैः समन्वागमः स्यादिति ? अस्येदं नामेति
व्यपदेशात् । यथा चक्षुरिन्द्रियेण द्रष्टेव समन्वागतो न दृश्यः सत्त्वः, तथा
द्योतयितैव तैः समन्वागतो न द्योत्यः । नैष्यन्दिकाः । सभागहेतुजनितत्वात् । न
विपाकजाः, इच्छात्तः प्रवृत्तेः । नौपचयिकाः, अरूपिणां चयाभावादिति । अनि-
वृताव्याकृताश्च । न कुशला नाकुशलाः । कस्मात् ? समुच्छिन्नकुशलमूलकाम-
वीतरागाणामपि तत्समन्वागमप्रसङ्गात् । इतरथा हि यदा समुच्छिन्नकुशल-
मूलः कुशलान् धर्मान् द्योतयति, तदास्य कुशलधर्मसमन्वागमः स्यात् । एवं
कामवीतरागस्याप्यकुशलधर्मद्योतने योज्यम् । तस्मादनिवृत्ताव्याकृता एव;
अनिवृत्ताव्याकृतानां कुशलाकुशलैरविरोधात् ॥ ४७ ॥
१-१. सर्वधर्माः०-का० । २ सत्त्वाख्या असत्त्वाख्या-का० ।