अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 290, कुल 1258 में से
संदर्भ में पढ़ेंजायत इत्यभूत्वा भवति । असंस्कृतं च नित्यमस्तीति न जायते । यथा
च धर्मतया न सर्वं जातिमदिष्यते, तथा न सर्वं जायत इत्येष्टव्यम् । यथा च
तुल्ये जातिमत्त्वे तदन्ये प्रत्ययास्तदन्यस्योत्पादने न समर्था भवन्ति, एवमेवा-
संस्कृतस्योत्पादने सर्वेऽप्यसमर्थाः स्युः ।
सिद्धा एव तु द्रव्यभावेन जात्यादय इति वैभाषिकाः । न हि दूषकाः
सन्तीत्यागमा अपास्यन्ते, न हि मृगाः सन्तीति यवा नोप्यन्ते, न हि
मक्षिकाः पतन्तीति मोदका न भक्ष्यन्ते ! तस्माद्दोषेषु प्रतिविधातव्यम्, सिद्धान्त-
श्चानुसर्तव्यः¹ ॥ ४६ ॥
उक्तानि लक्षणानि ॥
तस्य विशेषणार्थं रूपस्य विनाश इति षष्ठीं कुर्वन्ति, यथा रूपसंज्ञक एव
विनाशः प्रतीयेत, मान्यः प्रत्यायीति । सर्वत्र च दृष्टान्तद्वयं वक्तव्यम् । तद्यथा
चन्दनस्य गन्धादयः, शिलापुत्रकस्य शरीरमिति ।
यथा च धर्मतयेति । धर्मता धर्मप्रकृतिः, धर्मस्वभावः, धर्मशैलीत्यर्थः ।
धर्मता धर्मप्रकृतिरिति कुत एतत् ? चक्षुः गम्भूद्धे शून्यं नित्येन ध्रुवेण शाश्वतेना-
विपरिणामधर्मेणात्मनात्मीयेन च । तत् कस्य हेतोः ? प्रकृतिरस्यैषेति । यथा च
न सर्वं जातिमदिष्यते आकाशादि, तथा धर्मतया न सर्वं जायत इत्येष्टव्यम् । न
ह्यत्र किञ्चित् कारणमस्ति यत् संस्कृतमेव जातिमद् भवति, नासंस्कृतमित्य-
न्यत्र धर्मतायाः । एवमसत्यामपि जातो संस्कृतमेवोत्पद्यते, नासंस्कृतमिति ।
यथा च तुल्यजातिमतां केषाञ्चिद् रूपवेदनादीनाम् । तदन्ये प्रत्ययाः, तेभ्यः
रूपोत्पत्तिप्रत्ययेभ्योऽन्येवेदनाद्युत्पत्तिप्रत्ययास्तदन्ये, ते तदन्ये प्रत्ययास्तदन्यस्यो-
त्पादने न समर्था भवन्ति । तेभ्यो वेदनादिभ्योऽन्यत् तदन्यत्, किं तत् ? रूपम्,
तस्य तदन्यस्य ते वेदनादिप्रत्यया उत्पादने यथा न समर्था भवन्ति; एवम-
संस्कृतस्याकाशादेरुत्पादने सर्वेऽपि रूपवेदनादिप्रत्यया न समर्थाः स्युरिति । पूर्वं
स्वभावनियमेनोक्तम्, इदानीं शक्तिनियमेनेति ।
न हि दूषकाः सन्ति इति । विस्तरः- यथा न मृगाः सन्तीति यवा नोप्यन्ते ।
उप्यन्त एवेत्यर्थः । द्वौ प्रतिषेधौ प्रकृतमर्थं गमयतः यथा न मक्षिकाः पतन्तीति
मोदका न भक्ष्यन्ते । किं तर्हि ? भक्ष्यन्त एव । तथा न दूषकाः सन्तीत्यागमोऽ-
भिधर्मशास्त्राण्यापस्यन्ते । तस्माद्दोषेषु प्रतिविधातव्यम्, दोषेषु परव्यवस्थापितेषु
परिहार कर्तव्यः । सिद्धान्तश्चानुसर्तव्यः । न परित्याज्य इत्यभिप्रायः ॥ ४६ ॥
१. ॰नुवर्तितव्यः-का० ।