सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 298, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 298

निर्देशः ] द्वितीयं कोशस्थानम् २७७
तथा ॥ ४७ ॥
सभागता सा तु पुनर्विपाकापि¹
न केवलं नैःष्यन्दिकी कामरूपारूप्यावचरी,
आप्तयो द्विधा ।
प्राप्तयो नैःष्यन्दिक्यः, विपाकजाश्च ।
लक्षणानि च
द्विधेति वर्तते, प्राप्तिवत् ।
निःष्यन्दाः समापत्त्यसमन्वयाः ॥ ४८ ॥
द्वे अचित्तसमापत्ती अस मन्वागमश्च नैःष्यन्दिका एव। शेषमेषां वक्तव्यमुक्तम् ।
“तथा सभागता” इति । तथाशब्देन सत्त्वाख्यनैष्यन्दिकाव्याकृतत्वमेव
सभागताया अतिदिश्यते; त्रिधातवाप्ताया अपवादरूपेण वक्ष्यमाणत्वात् । सा तु
इति। तुशब्दो विशेषणार्थः । नामकायादिभ्यो हि सभागता विशिष्यते ।
कथम् ? इत्याह—“विपाकापि” इति । विपाकजापीत्यर्थः । न केवलमियं
नैष्यन्दिकी, किं तर्हि ? विपाकजापीति । न त्वौपचयिकी; तथैव चयाभावात् ।
“आप्तयो द्विधा” इति। द्विधाशब्देन नैष्यन्दिकविपाकजत्वप्रभेदावेव प्राप्ती-
नामुच्येते, प्रभेदान्तरस्योक्तत्वात् । लक्षणानामपि जात्यादीनां तावेव प्रभेदा-
वेवमेव वक्तव्यौ । अस मन्वागमः अप्राप्तिः, सानिवृत्ताव्याकृतापि न विपाकजा ।
न हि विपाकस्याप्यसमन्वागमो विपाको भवितुमर्हति । तथा ह्यकुशलस्य कुशल-
सास्रवस्य च विपाक इष्यते । न चानयोरप्राप्तिर्विपाको भवितुमर्हति । यो हि
बुद्धिपूर्वकश्चेतनात्मकस्तत्सम्प्रयुक्तसमुत्थो वा धर्मः स विपाकहेतुः । न चासम-
न्वागम एवं बुद्धिपूर्वककर्मकृत इत्यतो न विपाकजः । शेषमेषां वक्तव्यमुक्तमिति ।
एषां प्राप्तिलक्षणसमापत्त्यसमन्वागमानां वक्तव्यं व्याख्यातव्यमुक्तं व्याख्यात-
मित्यर्थः । किं पुनः तच्छेषमिति ? धात्वाप्तता, सत्त्वासत्त्वाख्यता, कुशला-
कुशलाव्याकृतता च । कथं पुनस्तदुक्तम् ? प्राप्तेस्तावद्धात्वाप्ततोक्ता, 'स्वधातुका
तदाप्तानाम्' (अभि० को० २.३७) इति वचनात् । सत्त्वाख्यतोक्ता, समन्वा-
गमवचनात् । न ह्यसत्त्वसंख्यातेन संस्कृतेन सन्ति समन्वागमाः; “प्राप्त्यप्राप्ती
स्वसन्तानपतितानाम्” (अभि० को० २.३६) इति वचनात् । कथं कुशला-
कुशलाव्याकृततोक्ता ? “शुभादीनां शुभादिका” (अभि० को० २.३७) इति
वचनात् । लक्षणानामपि त्रैधातुकप्रतिसंयुक्ततोक्ता, “सर्वं संस्कृतलक्षणैः”
१. ०विपाकोऽपि—का० ।