अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 299, कुल 1258 में से
संदर्भ में पढ़ें२७८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
शेषयोश्चासंज्ञिकजीवितयोः, अतो न पुनर्ब्रूमः ।
कथं प्राप्त्यादीनां सत्त्वाख्यतोक्ता ? समन्वगमवचनात् ।
कथं लक्षणानां सत्त्वासत्त्वाख्यतोक्ता ? सर्वसंस्कृतसहभूत्वात् ॥ ४८ ॥
उक्ता विप्रयुक्ताः ॥
यत्तूक्तम्—"जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना" (अभि० को०
२.४६) इति, क इमे हेतवः ? के च प्रत्ययाः ?
(अभि० को० २.२३) इति वचनात् । सत्त्वासत्त्वाख्यताप्यत एवोक्ता;
सर्वं संस्कृतसहभूतत्वात् । अत एव च कुशलाकुशलाव्याकृतताप्युक्ता;
“चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च ।
चित्तानुवर्तिनः कालफलादिशुभतादिभिः" ॥ (अभि० को० २.५१) इति
वचनात् । असंज्ञिसमापत्ते रूपधात्वाप्ततोक्ता, "ध्यानेऽन्त्ये" (अभि०को० २.४२)
इति वचनात् । कुशलतापि "शुभा" (अभि० को० २.४२) इति वचनात् ।
सत्त्वाख्यताप्यत एव, "उपपद्यवेद्येव" (अभि० को० २.४२) इति वचनात् ।
निरोधसमापत्तेरप्यारूप्यधात्वाप्ततोक्ता, “भवाग्रजा" (अभि० को० २.४३)
इति वचनात् । कुशलतापि "शुभा" (अभि० को० २.४२) इति वचनात्,
सत्त्वाख्यताप्यत एव, कुशलसंस्कृतत्वात् । असमन्वागमस्य त्रिधात्वाप्ततोक्ता,
“कामाद्यप्तामलानां” च (अभि० को० २.४०) इति वचनात् । सत्त्वाख्यता,
समन्वगमवचनात् । अव्याकृतताप्युक्ता, "अक्लिष्टाव्याकृता प्राप्तिः” (अभि०
को० २.३९) इति वचनात् । शेषयोश्चासंज्ञिकजीवितयोः । किम् ? वक्तव्यमुक्त-
मिति वर्तते । आसंज्ञिकस्य रूपाप्तसत्त्वाख्यविपाकाव्याकृततोक्ता, "विपाकस्ते
बृहत्फलाः” (अभि० को० २.४१) इति वचनात् । जीवितस्य त्रिधात्वाप्त-
तोक्ताः, “आयुर्जीवितम्” (अभि० को० २.४५) इति वचनात् । आयुष्यञ्च
त्रैधातुकत्वात् । सत्त्वाख्यताप्युक्ता, "विपाको जीवितम्” (अभि० को० २.१०)
इति सूत्रात् । विपाको हि सत्त्वाख्य एव, "विपाकोऽव्याकृतो धर्मः सत्त्वाख्यो
व्याकृतोद्भवः” (अभि० को० २.५८) इति वचनात् । अत एवास्या-
निवृत्ताव्याकृतताप्युक्तेति । आचार्येण तु यद्दर्शनं वक्तव्यमुक्तं तद्विवृत्तम् । कथं
प्राप्त्यादीनां सत्त्वाख्यतोक्ता समन्वगमवचनादित्यादि ॥ ४८ ॥
क इमे हेतवः के च प्रत्यया इति । हेतुनां च कः प्रतिविशेषः ? न कश्चि-
दित्याह । तथा ह्युक्तं भगवता—"द्वौ हेतू द्वौ प्रत्ययौ सम्यग्दृष्टेरुत्पादाय ।
कतमौ द्वौ ? परतश्च घोषोऽध्यात्मं च योनिशोमनस्कारः" इति । हेतुः प्रत्ययो
निदानं कारणं निमित्तं लिङ्गमुपनिषदिति पर्यायाः । उपनिषच्छब्दस्तु कदाचिद्