सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 285, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 285

२६४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
सिद्धयतीति वर्तमानलक्षणं वक्तव्यम् ।
स्थित्यादयोऽपि च युगपत् कारित्रे वर्तमाना एकक्षण एव धर्मस्य स्थित-
जीर्णविनष्टतां प्रसञ्जेयुः । यदैव ह्येनं स्थितिः स्थापयति तदैव जरा जरयति अनि-
त्यता विनाशयतीति । किमयं तत्र काले तिष्ठतु, आहोस्विज्जीर्यतु विनश्यतु वा ।
योऽपि हि ब्रूयात्—स्थित्यादीनामपि कारित्रं क्रमेणेति ? तस्य क्षणिकत्वं
बाध्यते ।
अथाप्येवं ब्रूयात्—एष एव हि नः क्षणो यावतैतत् सर्वं समाप्यत इति ?
एवमपि ताभ्यां सहोत्पन्ना स्थितिस्तावत् स्थापयति, न तु जरा जरयति,
अनित्यता वा विनाशयतीति । कुत एतत् ? स्थितेर्बलीयस्त्वात् । पुनः केना-
बलीयस्त्वम् ? यदेनां¹ सह धर्मेणानित्यता निहन्ति² ।
कृतकृत्या पुनः कर्तुं नोत्सहते जातिवत् । स्थातुर्युक्तमनुसोढुम् ।
विरुध्येत, तस्माद् तद् वक्तव्यम् । कथं वर्तमाना सिध्यतीति । उपरतकारित्रोऽतीत
इष्यते, जातिश्चानागतेव । उपरतकारित्रे हि वर्तमानावस्थायामेवातीता
प्राप्नोतीति न वर्तमाना भवेदिति वर्तमानलक्षणं वक्तव्यमिति । अपरिसमाप्त-
कारित्रो वर्तमान इति चेत् ? अतीतो वर्तमानः स्यात्, अतीतस्यापि हि फल-
दानकारित्रमिष्यते । यदैव ह्येनं स्थितिरिति । विस्तरः—स्थितिजराविनाशवृत्तयो
ऽन्योन्यविप्रतिषिद्धाः । न हि स एव धर्मस्तिष्ठति च जीर्यति च विनश्यति चेति
युक्तो व्यवस्थापयितुम् । तस्य क्षणिकत्वं बाध्यत इति । प्रथमं स्थितिः स्थापयति,
ततो जरा जरयति, ततोऽनित्यता विनाशयति । क्षणत्रयावस्थानात् क्षणिकत्वं
बाध्यत इति ।
एष एव हि नः क्षण इति । कार्यपरिसमाप्तिः क्षणः, न तूत्पत्त्यनन्तरविनाश-
लक्षण इत्यर्थः । एवमपीति विस्तरः । सहोत्पन्नानां क्रमेण कारित्रं न युज्यते ।
कुत एतत् ? स्थितिस्तावत् स्थापयति । न तु तस्मिन् काले जरा जरयति, नाप्य-
नित्यता विनाशयतीति । पुनः केनाबलीयस्त्वम् । पश्चात् केनाबलीयस्त्वम् ।
यदेनां यस्मादेनां स्थितिं सह धर्मेण यस्यासौ स्थितिः । तेन धर्मेण सहानित्यता
निहन्ति ।
कृतकृत्या पुनः कर्तुं नोत्सहते जातिवदिति । यथा जातिः कृतकृत्या जन्यं
जनयित्वा परिक्षीणशक्तिर्न पुनर्जनयति, तथा स्थितिरपि तद्वदेव न पुनः स्था-
१. यदैनां—का० । २. हन्ति—का० ।