अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 289, कुल 1258 में से
संदर्भ में पढ़ें२६८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
पृथक्संयुक्तविभक्तपरापरसदादिवुद्धिसिद्धयर्थम्¹ । षष्ठीविधानार्थं च—रूपस्य
संयोग इति। एषा च षष्ठी कथं कल्प्यते—रूपस्य स्वभाव इति ! तस्मात्
प्रज्ञप्तिमात्रमेवैतदभूत्वाभावज्ञापनार्थं क्रियते जातमिति।
स चाभूत्वाभावलक्षण उत्पादो बहुविकल्पः। तस्य विशेषणार्थं रूपस्योत्पाद
इति षष्ठीं कुर्वन्ति—यथा रूपसंज्ञक एवोत्पादः प्रतीयेत, माऽन्यः प्रत्यायीति ।
तद्यथा—चन्दनस्य गन्धादयः, शिलापुत्रकस्य शरीरमिति ।
एवं स्थित्यादयोऽपि यथायोगं वेदितव्याः ।
यदि जात्या विना जायते, कस्मादसंस्कृतमप्याकाशादिकं न जायते ?
पृथक् संयुक्तं विभक्तं परमपरं सद् रूपमिति । तथा द्रव्यमेतद्, रूपमिदम्,
घटोऽयमित्येवमादिवुद्धिसिद्धयर्थं संख्यादयोऽपि वैशेषिकपरिकल्पिता अभ्युप-
गन्तव्याः। षष्ठीविधानार्थं च रूपस्य संयोग इति । संयोगग्रहणमुदाहरण-
मात्रम् । रूपस्य विभागः, परत्वापरत्वमित्येवमाद्यपि योज्यम् । एषा च षष्ठी कथं
कल्प्यते—रूपस्य स्वभाव इति। न हि वैभाषिकाणां रूपादन्यो रूपस्य स्वभाव
इष्टः। जातमिति। जातमेव न विनष्टमित्यभूत्वाभावज्ञापनार्थं क्रियते प्रज्ञप्तिः।
बहुविकल्प इति । बहुभेदो रूपवेदनादिभेदात् । तस्य विशेषणार्थं रूपस्यो-
त्पाद इति । न वेदनादीनामुत्पाद इति विशेषणार्थं षष्ठीं कुर्वन्ति । मा अन्यः
प्रत्याये रूपसंज्ञक एवोत्पादो न वेदनादिसंज्ञक इति। दृष्टान्तं कथयन्ति—
चन्दनस्य गन्धादयः, शिलापुत्रकस्य शरीरमिति । अनर्थान्तरभावेऽपि षष्ठीनिर्देशः
क्रियते । गन्धादिसमूहमात्रं हि चन्दनमिति बौद्धसिद्धान्तः । वैशेषिकसिद्धान्ता-
पेक्षया त्वसिद्धश्चन्दन इत्यपरो दृष्टान्तः उपन्यस्यते—शिलापुत्रकस्य शरीर-
मिति । शिलापुत्रकशरीरयोर्वैशेषिकाणामपि सिद्धान्ते नार्थान्तरभावः । भवति
च षष्ठीनिर्देशः । अर्थान्तरपरिकल्पकृतो हि तथा निर्देशः ।
एवं स्थित्यादयोऽपि यथायोगं वेदितव्या इति । तस्मात् प्रज्ञप्तिमात्रमेवेदं
प्रवाहावस्थानज्ञापनार्थं क्रियते—स्थितमिति । स च प्रवाहावस्थानलक्षणा
स्थितिर्बहुविकल्पा । तस्या विशेषणार्थं रूपस्य स्थितिरिति षष्ठीं कुर्वन्ति, यथा
रूपसंज्ञकैव स्थितिः प्रतीयेत, मान्याः प्रत्यायीति । तथा प्रज्ञप्तिमात्रमेवैतत्
पूर्वापरविशेषज्ञापनार्थं क्रियते—जीर्णमिति । सा च पूर्वापरविशेषलक्षणा जरा
बहुविकल्पा। तस्या विशेषणार्थं रूपस्य जरेति षष्ठीं कुर्वन्ति, यथा रूपसंज्ञकैव
जरा प्रतीयेत, मान्या प्रत्यायीति । तथा प्रज्ञप्तिमात्रमेवैतत् प्रवाहनिवृत्तिज्ञाप-
नार्थं क्रियते—विनष्टमिति । स च प्रवाहनिवृत्तिलक्षणो विनाशो बहुविकल्पः।
१. ॰वियुक्त॰—का० ।