अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 288, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] द्वितीयं कोशस्थानम् २६७
किं च भोः सर्वं विद्यमानमुपलभ्यते, सूक्ष्मा अपि हि¹ धर्मप्रकृतयः
संविद्यन्ते । जातमित्येव तु न स्याद्, असत्यां जातौ षष्ठीवचनं च—रूपस्यो-
त्पादः इति, यथा—रूपस्य रूपमिति । एवं यावदनित्यता यथायोगं वक्तव्या ।
तेन तर्ह्यानात्मत्वमप्येष्टव्यमनात्मबुद्धिसिद्ध्यर्थम् । संख्यापरिमाणपृथक्त्वसंयोग-
विभागपरत्वापरत्वसत्तादयोऽपि तीर्थकरपरिकल्पिता अभ्युपगन्तव्या एकद्विमहदणु-
अत्रोच्यते—असमानमेतत् । चक्षुर्हि दृष्टसामर्थ्यं सत्त्वालोकादिप्रबन्धान-
सूक्ष्मा अपि हि धर्मप्रकृतय इति । तद्यथा स्पर्शादीनां चैतसिकानां प्रकृतयः
स्वभावाः दुःपरिच्छेद्यत्वात् सूक्ष्माः । अस्त्येतदेवम्; अदृश्यमानोऽपि कश्चिद्धर्मः
कारित्रेण निर्धार्यते, न त्वेवं जातिः कारित्रेण निर्धार्यते । स्पर्शस्य हि कारित्रं
भगवतैव निर्धारितम्—'यः कश्चिद् वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धः
सर्वः स स्पर्शं प्रतीत्य' इति विस्तरः ।
जातमित्येव तु न स्यादसत्यां जाताविति । स्वलक्षणापेक्षा रूपे रूपबुद्धिः ।
न तु जातमिति स्वलक्षणापेक्षा जातबुद्धिः, वेदनादिष्वपि भावात्। तस्माद-
र्थान्तरभूतजातिद्रव्यापेक्षेयं जातबुद्धिरिति निर्धार्यते । षष्ठीवचनं च न स्याद्-
रूपस्योत्पाद इति । वैयधिकरण्ये हि षष्ठीनिर्देशः, न सामानाधिकरण्ये, तेनाह—
यथा रूपस्य रूपमिति । वैधर्म्यदृष्टान्त एषः । यथा रूपं रूपादन्यदिति कृत्वा
षष्ठीनिर्देशो न भवति—रूपस्य रूपमिति, तथा रूपस्योत्पाद इति न स्यात् ।
तस्माज्जातिनिमित्तोऽयं षष्ठीनिर्देश इति गम्यते । एवं यावदनित्यता यथायोगं
वक्तव्येति । स्थितमेव तु न स्यादसत्यां स्थितौ । षष्ठीवचनं च—रूपस्य स्थिति-
रिति, यथा—रूपस्य रूपम् इति । जीर्णमित्येव तु न स्यात् रूपस्य जरायाम् ।
षष्ठीवचनं च—रूपस्य जरेति, यथा रूपस्य रूपमिति । तथा विनष्टमित्येव
तु न स्यादसत्यामनित्यतायाम् । षष्ठीवचनं च—रूपस्य विनाश इति, यथा
रूपस्य रूपमिति ।
तेन तर्हीति विस्तरः । यदि जातमित्येवमादिबुद्धिसिद्ध्यर्थं षष्ठीविधा-
नार्थं च जात्यादयः कल्प्यन्ते, . . . . न हि निर्निमित्तानात्म-
बुद्धिर्भवितुमर्हति । अथानात्मत्वं प्रज्ञप्तिसदिष्यते, तन्निमित्ता नात्मबुद्धिः ?
जात्याद्यपि प्रज्ञप्तिसदिष्टव्यम् । तन्निमित्ता च आत्मबुद्धिरिति । साधनं चात्र
"प्रज्ञप्तिसज्जात्यादि, द्रव्यसदपेक्ष्य गृह्यमाणत्वादनारमत्ववत्” इति । सत्तादयो-
ऽपीति । आदिशब्देन द्रव्यत्वरूपघटत्वादि गृह्यते । एकं रूपं द्वे रूपे महदणु
१. का० पुस्तके नास्ति ।