अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
तorकरिष्यत? In line 23: करिष्यत इति(orकरिष्यते इति)? Looking at line 23: क रि ष्य त इ ति- noेonत. So it's करिष्यत इति ।`.
-
Format the Output:
- Add line markers
,, etc. - Ensure exact mapping line by line as displayed in the image.
- Add line markers
-
Line Count Verification:
- १९४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
- अकुशले त्वाह्रीक्यमनपत्रपा ॥ २६ ॥
- अकुशले तु चेतस्याह्रीक्यमनपत्राप्यं च नित्यं भवत इति एतौ द्वौ
- धर्मावकुशलमहाभूमावुच्येते । तयोश्च पश्चाल्लक्षणं वक्ष्यते ( अभि० को०
- २. ३२ ) ॥ २६ ॥
- क्रोधोपनाहशाठ्येर्ष्याप्रदासम्रक्षमत्सराः ।
- मायामदविहिंसाश्च परीत्तक्लेशभूमिकाः ॥ २७ ॥
निर्देशः ] द्वितीयं कोशस्थानम् १९५
कस्मिंश्चित्ते कति चैत्ता अवश्यं भवन्तीति ? कामावचरं तावत् पञ्चविधं चित्तम् ।
कुशलमकुशलम् । तत्राकुशलं द्विविधम्—आवेणिकम्, अन्यक्लेशसम्प्रयुक्तं
च । अव्याकृतमपि¹ द्विविधम्—निवृताव्याकृतम्, अनिवृताव्याकृतं च । तत्र
तावत् कामावचरचित्तमवश्यं सवितर्कं सविचारम् । अतोऽत्र—
सवितर्कविचारत्वात् कुशले कामचेतसि ।
द्वाविंशतिश्चैतसिकाः
अवश्यं भवन्ति । दश महाभूमिकाः, दश कुशलमहाभूमिकाः, वितर्कः,
विचारश्च ।
कौकृत्यमधिकं क्वचित् ॥ २८ ॥
न हि सर्वत्र कुशले चेतसि कौकृत्यमस्ति । यत्र त्वस्ति तत्र तदेवाधिकं
कृत्वा त्रयोविंशतिश्चैत्ता भवन्ति ।
किमिदं कौकृत्यं नाम ? कुकृतभावः² कौकृत्यम् । इह तु पुनः
कौकृत्यालम्बनो धर्मः कौकृत्यमुच्यते—चेतसो विप्रतिसारः । तथा—
अत्राचार्यवसुमित्रः संग्रहश्लोकमाह—
"वितर्कचारकौकृत्यमिद्धप्रतिघसक्तयः ।
मानश्च विचिकित्सा चेत्यष्टावनियताः स्मृताः ॥” ( ) इति ।
तदिदमष्टनियतवचनं न बुद्ध्यामहे, दृष्टयोऽपि कस्मान्नानियता इष्यन्ते !
न हि सप्रतिघे सविचिकित्से वा चित्ते मिथ्यादृष्टिः प्रवर्तते ।
“आवेणिके त्वकुशले दृष्टियुक्ते च विंशतिः ।
क्लेशैश्चतुर्भि क्रोधाद्यैः कौकृत्येनेकविंशतिः ॥” ( अभि० को० २.२९ )
इति वचनात्, तस्माद् यद्वा तद्वेदमुक्तमिति पश्यामः !
कामावचरं तावत् पञ्चविधमिति । कुशलमेकम्, अकुशलं द्विविधम्—
आवेणिकमविद्यामात्रसम्प्रयुक्तम्, रागाद्यन्यक्लेशसम्प्रयुक्तं च । अव्याकृतमपि
द्विविधम्—निवृताव्याकृतं सत्कायान्तग्राहदृष्टिसम्प्रयुक्तम्, अनिवृताव्याकृतं च
विपाकजादीति ।
कुकृतभावः कौकृत्यमिति । अर्थस्य कुकृतस्य धर्मः, स तु चेतसिक इति न
सम्बध्यते । तस्मादाह—इह तु पुनः कौकृत्यालम्बनो धर्म इति । किस्वभावः ?
इत्याह—चेतसो विप्रतिसार इति । यदि कौकृत्यालम्बनो धर्मं कौकृत्यमुच्यते,
१. अव्याकृतं—का० । २. कुकृतस्य भावः—का० ।
१९६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
शून्यतालम्बनविमोक्षमुखं,१ शून्यतेत्युच्यते, अशुभालम्बनश्च अलोभोऽशुभ इति ।
लोकेऽपि च दृष्टः स्थानेन स्थानिनामतिदेशः—सर्वो ग्राम आगतः, सर्वो देश
आगत इति । स्थानभूतं च कौकृत्यं विप्रतिसारस्य ।
फले वा हेतूपचारोऽयम् । यथा२—“षडिमानि स्पर्शायतनानि पौराणं
कर्म वेदितव्यम्” ( ) इति ।
यत्तर्हि अकृतालम्बनं तत् कथं कौकृत्यम् ? अकृतेऽपि कृताख्या भवति—
न मया साधु कृतं यत्तन्न३ कृतमिति ।
कतमत् कौकृत्यं कुशलम् ? यत् कुशलमकृत्वा तप्यते, अकुशलं च कृत्वा ।
तत्सम्प्रयुक्ता अप्यन्ये चित्तचैत्ताः कौकृत्यं प्राप्नुवन्ति, तेषामप्राधान्यात् । विप्र-
तिसारावस्थाया हि कौकृत्यलक्षणं चेतसिकं कौकृत्याकारमुद्भूतवृत्तिकम्, अन्ये
चित्तचैत्तास्तदाकारेणानुवर्तन्ते, कस्यचिदेव हि धर्मस्य कस्मिंश्चित् चित्तकलापे
प्राधान्यमिति वर्णयन्ति । शून्यतालम्बनविमोक्षमुखं शून्यतेति । स्कन्धानामन्त-
र्व्यापारपुरुषरहितालम्बनं विमोक्षमुखं समाधिविशेषः शून्यतेत्युच्यते । विनीलक-
व्याध्मातकाद्यशुभालम्बनोऽलोभोऽशुभेत्युच्यते । भावनासम्बद्धत्वात् स्त्रीलिङ्ग-
निर्देशः—अशुभा भावनेति, तथेहापि कौकृत्यालम्बनश्चेतसिको धर्मं कौकृत्य-
मिति । स्थानेन स्थानिनामतिदेशः—सर्वो ग्राम आगत इति । सभूमिक शाला-
समुदायो ग्रामः । स्थानिषु मनुष्येष्वागतेषु वक्तारो भवन्ति—सर्वो ग्राम आगत
इति । एवं सर्वो देश आगत इति । स्थानभूतं च कौकृत्यं विप्रतिसारस्येति ।
विप्रतिसारालम्बनत्वात् । तस्माद्युक्तस्तथा निर्देशः । फले वा हेतूपचार इति ।
हेतुः कौकृत्यम्, फलं विप्रतिसारः, तस्मिन् फले हेतुरुपचर्यते, हेतुवाचकेन
शब्देन फलमुच्यत इत्यर्थः । यथा षडिमानि स्पर्शायतनानि पौराणं कर्मेति ।
पूर्वजन्मकृतस्य पौराणस्य कर्मणश्चक्षुरादीनि षट् स्पर्शायतनानि फलानि,
तेषु यथा कर्मोपचर्यते, तद्वत् ।
यत् तर्ह्यकृतालम्बनं तत् कथं कौकृत्यमिति । यदकृतं तन्न कृतामिति मत्वा
चोदयति—अकृतेऽपि कृताख्या भवतीति । अकृतेऽप्यर्थे कृतशब्दप्रयोगो भवति ।
कथम् ? इत्याह—न साधु मया कृतं यत्तन्न कृतमिति । कृतमिव तदिति कृत्वा ।
यत्कुशलमकृत्वा तप्यत इति । यत् कुशलं दानादिकमकृत्वा तप्यते पश्चात्तापी
भवति तत् कुशलम् । अकुशलं च कृत्वा । किम् ? तप्यत इत्यधिकृतम् । यच्चा-
१. शून्यतालम्बनं०—का० । २. यथोक्तम्—का० । ३. यन्न—का० ।
विपर्ययादकुशलं कौकृत्यम् । तदेतदुभयमप्युभयाधिष्ठानं भवति¹ ॥ २८ ॥
आवेणिके त्वकुशले दृष्टियुक्ते च विंशतिः ।
यदकुशलं चित्तमावेणिकं तत्र विंशतिश्चैत्ताः—दश महाभूमिकाः,
षट् क्लेशमहाभूमिकाः, द्वावकुशलमहाभूमिकौ, वितर्कः, विचारश्च ।
आवेणिकं नाम चित्तं यत्राविद्यैव केवला, नान्यः क्लेशोऽस्ति रागादिः ।
दृष्टियुक्तेऽप्यकुशले विंशतिरेवावेणिके ।
ननु च दृष्ट्यधिकत्वादेकविंशतिर्भवन्ति ? न भवन्ति । यस्मान्महाभूमिक
एव कश्चित् प्रज्ञाविशेषो दृष्टिरित्युच्यते । तत्राकुशलं दृष्टियुक्तम्, यत्र मिथ्या-
दृष्टिश्च² दृष्टिपरामर्शो वा शीलव्रतपरामर्शो वा ।
क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिः ॥ २९ ॥
यत्र पुनश्च
विंशतिः । क्रोधादिभिरप्युपक्लेशैर्यथोक्तैः सम्प्रयुक्ते चित्ते एते च विंशतिः स
चोपक्लेश इत्येकविंशतिर्भवन्ति । कौकृत्येनाप्येकविंशतिः । तदेव कौकृत्य-
मेकविंशतितमं भवति । समासत आवेणिके चेतस्यकुशले दृष्टिसम्प्रयुक्ते¹ च
विंशतिः । अन्यक्लेशोपक्लेशसम्प्रयुक्ते त्वेकविशतिः ॥ २९ ॥
निवृतेऽष्टादश
सत्कायान्तग्राहदृष्टिसम्प्रयुक्तं चित्तं कामधातौ निवृताव्याकृतम् । तत्राष्टादश
चैत्ता.—दश महाभूमिका., षट् क्लेशमहाभूमिकाः, वितर्कविचारौ च । दृष्टिः
पूर्ववदेव नाधिका भवति ।
अन्यत्र द्वादशाव्याकृते मताः ।
निवृतादन्यदव्याकृतमनिवृताव्याकृतम् । तत्र द्वादश चैत्ता इष्टा —दश
महाभूमिकाः, वितर्कविचारौ च । बहिर्देशका अव्याकृतमपि कौकृत्यमिच्छन्ति ।
तेषां तत्सम्प्रयुक्ते चेतसि त्रयोदश भवन्ति ।
मिद्धं सर्वाविरोधि त्वाद् यत्र स्यादधिकं हि तत् ॥ ३० ॥
विचिकित्सा चेत्येकविंशति.। एकविंशतिर्भवत्येवेति क्रियावधारणमवगन्तव्यम् ।
क्रोधादिभिरपीति ।
"क्रोधोपनाह-शाठ्येर्ष्या-प्रदास-म्रक्ष-मत्सरा ।
मायामदर्विहिंसाश्च" ( अभि० को० २ २७) ॥
इत्येभिरपि सम्प्रयुक्ते चित्ते एकविंशतिरेव चैतसिकाः । ते चावेणिकोक्ता
पूर्ववत् । स चापक्लेशः क्रोधो वा यावद्विहिंसा वेति । कौकृत्येन च सम्प्रयुक्ते ।
तै च पूर्वोक्तास्तच्च कौकृत्यमित्येकविंशतिः । कौकृत्यमपि ह्युपक्लेशः स्वतन्त्र-
मिष्यते । समासत आवेणिक इति। विस्तार —अविद्यामात्रसम्प्रयुक्ते चेतस्यकुशले
दृष्टिसम्प्रयुक्ते चाकुशले विंशति । अन्यक्लेशोपक्लेशसम्प्रयुक्ते त्वकुशल एवैक-
विंशतिः ॥ २९ ॥
निवृताव्याकृतमिति । क्लेशाच्छादितं कुशलाकुशलत्वेनाव्याकृतं यत् तन्नि-
वृताव्याकृतम् । अनाच्छादितं त्वनिवृताव्याकृतम् विपाकजैर्र्यापथिकशैल्पस्था-
निकनेर्माणिकस्वभावम् । बहिर्देशका अव्याकृतमपि कौकृत्यमिच्छन्तीति ।
काश्मीरमण्डलाद् ये बहिर्देशस्थितास्ते बहिर्देशका. । त्रयोदशेति । क्वचिदनि-
वृताव्याकृते कौकृत्यं त्रयोदशमधिकं प्रक्षिप्य । मिद्धं प्रचलायमानावस्थाया
१ दृष्टियुक्ते—का० ।
" -> "तत् स्यात्"
"तत्राधिकं तद् वेदितव्यम्—यत्र द्वाविंशतिस्तत्र त्रयोविंशतिः, यत्र"
Wait, after त्रयोविंशतिः is there a comma? Yes: "त्रयोविंशतिः,".
Line 4:
त्रयोविंशतिस्तत्र चतुर्विंशतिरित्युवमादि ॥ ३० ॥
Wait, look at "चतुर्विंशतिरित्युवमादि" vs "चतुर्विंशतिरित्युक्तम्" vs "चतुर्विंशतिरित्यादि" vs "चतुर्विंशतिरित्युवमादि":
Wait! Let's read the characters:
च (ca)
तु (tu)
र्विं (rviṃ)
श (śa)
ति (ti)
रि (ri)
त्ये (tye)
व (va)
म (ma)
ा (ā)
दि (di)
॥ ३० ॥
Yes! "चतुर्विंशतिरित्युक्तम्"? No, it's त्ये (tye) + व (va) + म (ma) + ा (ā) + दि (di) = त्येवमादि!
"रित्युवमादि"? No, र् + इ + त् + य + े + व + म + ा + द + ि = "रित्येवमादि" (rityevamādi
२०० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
ध्यानान्तरात् परेण द्वितीयादिषु ध्यानेष्वारूप्येषु च यथाप्रतिषिद्धं नास्ति
विचारश्च । माया शाठ्यं चेत्यपिशब्दात् । शेषं तथैव ।
ब्रह्मणो हि यावच्छाठ्यं पठ्यते पर्षत्सम्बन्धात् १, नोर्ध्वम् । स हि स्वस्यां पर्षदि
निषण्णः २ अश्वजिता भिक्षुणा प्रश्नं पृष्टः—“कुत्रेमानि ब्रह्मन् चत्वारि महाभूतान्य-
परिशेषं निरुध्यन्ते” ( ) इति ? अप्रजानन् क्षेपमकार्षीत्— “अहमस्मिन्
ब्रह्मा ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भावानाम् ३” इति ॥ ३१ ॥
उक्तमेतद् यस्यां भूमौ यत्र चित्ते यावन्तश्चैत्ताः ॥
किम् ? न सन्तोत्यधिकृतम् । शेषं तथैव । वितर्कन्यूनं यथा प्रतिषिद्धं नास्तीति ।
कौकृत्यमिद्धाकुशलवितर्का न सन्तीत्यर्थः । विचारश्च मायाशाठ्यं चेत्यपिशब्दा-
दिति । 'विचारश्च' इति एतावति वक्तव्ये “विचारश्चापि” इति अपिशब्दा-
धिक्यादर्थाधिक्यमिति माया शाठ्यमपि तत्र नास्तीत्ययमपरार्थो लभ्यते ।
मदस्तु नापास्यते, “स्त्यानौद्धत्यमदा धातुत्रये” (अभि० को० ५.५३) इति
वचनसामर्थ्यात् । शेषं तथैवेति । कुशले वितर्कविचारनिर्मुक्ता विंशतिः ।
आवेणिके दृष्टियुक्ते षोडश । रागादिक्लेशसम्प्रयुक्ते मदोपक्लेशसम्प्रयुक्ते च सप्त-
दश । दश महाभूमिका षट् क्लेशमहाभूमिका । स च क्लेशः स वोपक्लेशः ।
अनिवृताव्याकृते दश महाभूमिका य एवेति गमनीयम् ।
ब्रह्मणो हि यावच्छाठ्यमिति । विस्तर —तत्र शाठ्यपूर्वकत्वान्मायापि
गृहीता भवति । पर्षत्सम्बन्धान्नोर्ध्वमिति । येषां पर्षदस्ति तेषां पर्षद्ग्रहणार्थं
मायाशाठ्यं प्रवर्त्तते । अष्टौ पर्षदः पठ्यन्ते—क्षत्रियपर्षद्, ब्राह्मणपर्षद्, गृह-
पतिपर्षद्, श्रमणपर्षत्, चातुर्महाराजिकपर्षत्, त्रयस्त्रिंशत्पर्षत्, मारपर्षद्, ब्रह्म-
पर्षद । तासामन्यतमापि ऊर्ध्वमतो नास्तीति मायाशाठ्याभावः । ब्रह्मणस्तु
पर्षदस्ति । तस्मादाह—स हि स्वस्या पर्षदि निषण्णोऽश्वजिता भिक्षुणा ब्रह्मलोक
गतेन प्रश्नं पृष्टः—कुत्रेमानि चत्वारि महाभूतान्यपरिशेषं निरुध्यन्त इति । अप्रजा-
नन्नारूप्यधातौ चत्वारि महाभूतान्यशेषं निरुध्यन्त इत्यनवबुध्यमानः क्षेपं
कथाप्रकरणमकार्षीत्—अहमस्मि ब्रह्मेति विस्तरः । ब्रह्मेत्युक्त्वा महाब्रह्मेति
वचनं ब्रह्मान्तरेभ्यः आत्मनो विशिष्टत्वप्रदर्शनार्थम् । ईश्वरः ईशनशील
कर्ता निर्माता स्रष्टा सृज इति पर्यायाः, उत्तरोत्तरव्याख्यायोगो वा । पितेव
पितृभूतः । केषाम् ? भावानाम् ॥ ३१ ॥
उक्तमेतदिति । विस्तर.—या भूमिर्यच्चित्तं यावन्तश्च चैत्ताः, सा भूमिस्तच्चित्तं
तावन्तश्च चेत्ता इत्युक्तमेतत् ।
१ सम्बन्धत्वात्—का० । २ का० पुस्तके नास्ति । ३. भूतानाम्—का० ।
निर्देशः ] द्वितीयं कोशस्थानम् २०५
इदानीं केषाञ्चिदेव चैत्तानां तन्त्रविहितं१ नानाकारणं वक्ष्यते ।
आहीक्यस्यानपत्राप्यस्य च किं नानाकारणम् ?
अह्रीरगुरुता
गुणेषु गुणवत्सु चागौरवता अप्रतीशता अभयवशवर्तिता२ आहीक्यं
गौरवप्रतिद्वन्द्वो धर्मः ॥
अवद्ये भयादर्शित्वमत्रपा ।
अवद्यं नाम यद् गर्हितं३ सद्भिः । तत्राभयदर्शिता अनपत्राप्यम् । भय-
मत्रानिष्टं फलम्—मीयतेऽस्मादिति ।
कथमिदं विज्ञातव्यम्—अभयस्य दर्शनमभयदर्शिता, आहोस्विद् भयस्या-
दर्शनम् ? किं चातः ? अभयस्य दर्शनं चेत्, प्रज्ञा विज्ञास्यते; भयस्यादर्शनं
तन्त्रविहितमिति । शास्त्रे विहितम् । स एव चात्रार्थः ।
गुणेषु गुणवत्सु चेति । तत्र विहितमिति केचित् पठन्ति । स्वपरसन्तानिकेषु
मैत्रीकरुणादिषु । गुणेषु गुणवत्सु च पुद्गलेष्वाचारगोचरगौरवादिसम्पन्नेषु ।
यद्योगाद् गौरवं न करोत्यसौ अगौरवता । नास्ति गौरवमस्येत्यगौरवः, तद्भा-
वोगौरवता, चेतसिकविशेषः । कोऽसौ ? इति पर्यायानाडुः । अप्रतीशता अभय-
वशवर्तितेति । शिष्यं प्रति दृष्ट इति प्रतीशी गुरुस्थानींय., नास्ति प्रतीशो-
ऽस्येत्यप्रतीशः, तद्भावोऽप्रतीशता । भावाभिधानेन चेत्तो गृह्यते । भयं नाम
मानसश्चेत्तो धर्म.। भयेन वशे वर्तितुं शीलमस्येति भयवशवर्ती, न भयवशवर्ती
अभयवशवर्ती, तद्भावोऽभयवशवर्तिता । तदेव चाहीक्यम् । नास्ति ह्रीरस्ये-
त्यहीकः, तद्भाव आहीक्यम् । स च गौरवप्रतिद्वन्द्वो धर्मः, न तदभावमात्रम् ।
“अवद्ये भयादर्शित्वमत्रपा” इति । अवाच्यम् = अवद्यम् । अतश्चाह—अवद्यं
नाम यद्गर्हितं सद्भिरिति । तत्राभयदर्शिता अनपत्राप्यमिति । अवद्येऽनिष्टफला-
दर्शितेत्यर्थः । मीयतेऽस्मादिति । अत्र भयशब्दोऽपादानसाधनः, तस्माद्भयशब्देन
अनिष्टं फलमुच्यते । अभयस्य दर्शनमभयदर्शितेति । विस्तार.—यदि तावदेवं
क्रियेत—न भयभभयम्, अभयं द्रष्टुं शीलमस्येत्यभयदर्शी, तद्भावोऽभयदर्शितेति ?
प्रज्ञा विज्ञास्यते । प्रज्ञया, ह्यभयं पश्यति । अथ पुनरेवं क्रियेत—भयं द्रष्टुं
शीलमस्येति भयदर्शी, न भयदर्शी अभयदर्शी, 'तद्भावोऽभयदर्शितेति ?
१. तत्रविहितं—स्फुटार्थापुस्तके मुद्रितः पाठः । तन्त्रे विहितम्—इत्युचितः पाठः ।
२ अभयमवश०—का० । ३ विगर्हितं—का० ।
२०२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
चेद्, अविद्या विज्ञास्यते ? नैव हि दर्शनं दर्शिता, नाप्यदर्शनमदर्शिता, किं
तर्हि ? यस्तयोर्निमित्तमुपक्लेशः। तच्चानपत्राप्यमिति ।
अन्ये पुनराहुः—आत्मापेक्षया दोषैरसज्जनमाहीक्यम्, परापेक्षयाऽनपत्रा-
प्यमिति ।
एवमपि द्वे अपेक्षे युगपत् कथं सेत्स्यतः ? न खलूच्यते—'युगपदात्मानं
परं चापेक्षते' इति, अपि त्वस्त्यसौ कदाचिल्लज्जा या आत्मानमपेक्षमाणस्यापि
प्रवर्त्तते सा आहीक्यम्। अस्ति या परमपेक्षमाणस्य प्रवर्त्तते साऽनपत्राप्यम् ।
विपर्ययेण हीरपत्राप्यं च वेदितव्यम् । प्रथमेन तावत् कल्पेन सगौरवता
सप्रतीशता न भयवशवर्तिता हीः। अवद्येष्वभयदर्शिता अपत्राप्यम् । द्वितीयेन
कल्पेनात्मपरापेक्षाभ्यां लज्जने ॥
अविद्या विज्ञास्यते । तथा हाविद्यायोगाद् भयं न पश्यति । नैव हि दर्शनं
दर्शितेति । विस्तरः—न प्रज्ञा नाप्यविद्या, किं तर्हि ? तयोः प्रज्ञाविद्ययोर्
निमित्तमुपक्लेशस्तद्भयदर्शनम् । तच्चानपत्राप्यमिति । अपत्रपतेऽनेनेत्यपत्रा-
प्यम् । "कृत्यल्युटो बहुलम्" ( पा० सू० ३.३.११३ ) इति करणे ण्यत्प्रत्ययः ।
न अपत्राप्यमनपत्राप्यमिति ।
“ह्री लज्जायाम्” ( मा० धा० ३.३ ) ‘श्रपूष् लज्जायाम्’ ( मा०
धा० १.२५५ ) इत्येकार्थयोरनयोर्धात्वोः कथमर्थान्तरे वाचकत्वम् ? इत्य-
परितुष्यन्तोऽन्ये पुनराहुः—आत्मापेक्षयेति विस्तरः ।
एवमपि द्वे अपेक्षे युगपत् कथं सेत्स्यत इति । अस्मिन्नपि पक्षे युगपदपेक्षा-
द्वयासम्भव इति पश्यंश्चोदक आह—एवमपीति । अपिशब्देनायमपि पक्षो
दुष्यतीत्यभिप्रायः । आहीक्यमनपत्राप्यं चैकस्मिंश्चित्ते कथं भवत इति मत्वा
चोदयति—अपेक्षे युगपत् कथं सेत्स्यत इति । न खलूच्यते युगपदात्मानं परं
चापेक्षत इति । विस्तरः—पर्यायेण वृत्तिमनयोर्दर्शयति । कस्यचिद्धि दोषैरा-
त्मानमपेक्षमाणस्यापि न प्रवर्त्तते लज्जा, कस्यचित् परमपेक्षमाणस्येति । विपर्ययेण
हीरपत्राप्यं चेति विस्तरः । प्रथमेन तावत् कल्पेन—"अह्रीरगुरुतावद्ये भया-
दर्शित्वमत्रपा" इत्यनेन । सगौरवतेति विस्तरेण । अभयदर्शिता अपत्राप्यमिति ।
भयदर्शितानिमित्तमपत्राप्यमित्यर्थः । द्वितीयेन कल्पेन आत्मापेक्षया दोषैरसज्जन-
माहीक्यं परापेक्षयानपत्राप्यमित्यनेन आत्मापेक्षया दोषैर्लज्जनं ह्री., परापेक्ष-
यानपत्राप्यमिति । एवमपि द्वे अपेक्षे इति विस्तरेण चोद्यपरिहारौ वक्तव्यौ ।
निर्देशः ] द्वितीयं कोशस्थानम् २०३
प्रेम्णो गौरवस्य च किं नानाकारणम् ?
प्रेम श्रद्धा
द्विविधं हि प्रेम—क्लिष्टम्, अक्लिष्टं च। तत्र क्लिष्टं तृष्णा, यथा—
पुत्रदारादिषु । अक्लिष्टं श्रद्धा—शास्तृगुरुगुणान्वितेषु । स्याच्छ्रद्धा न प्रेम—
दुःखसमुदयालम्बना श्रद्धा । स्यात् प्रेम न श्रद्धा—क्लिष्टं प्रेम । उभयम्—
निरोधमार्गालम्बना श्रद्धा। नोभयमेतानाकारान् स्थापयित्वा ।
पुद्गलेषु तु प्रेम न गौरवम्—पुत्रदारसार्धविहार्यन्तेवासिषु । गौरवं न
प्रेम—अन्यगुरुषु । उभयम्—स्वगुरुषु । नोभयम्—एतानाकारान् स्थापयित्वा ।
श्रद्धा हि नाम गुणसम्भावना । तत्पूर्विका च प्रियता प्रेम । तस्मान्न
सैव प्रेमेत्यपरे ।
गुरुत्वं ह्रीः
गौरवं हि नाम सप्रतीशता । तत्पूर्विका च लज्जा ह्रीः । अतो न
गौरवमेव हीरित्यपरे ।
प्रेमगौरवयोरकत्वं मन्यन्ते केचित्। तस्मादनयोर्नानाकरणप्रदर्शनार्थमाह—
"प्रेम श्रद्धा" इति। प्रेमैव श्रद्धा, न गौरवम् । न तु श्रद्धैव प्रेम । तेनाह—
द्विविधं हि प्रेम क्लिष्टमक्लिष्टं चेत्यादि। स्याच्छ्रद्धा न प्रेमति चतुष्कोटिकं । दुःख-
समुदयसत्ययोः श्रद्धैवाभिसम्प्रत्ययरूपा, न प्रेम, अस्पृहणीयत्वात् । स्यात् प्रेम न
श्रद्धेति । प्रियतारूपा तृष्णा नाभिसम्प्रत्ययरूपेति श्रद्धा न भवति । उभयं श्रद्धा
च प्रेम च । अभिसम्प्रत्ययरूपत्वात् स्पृहणीयत्वाच्च निरोधमार्गसत्ययोस्तदु-
भयात्मकं भवतीत्यर्थः। नोभयमेतानाकारान् स्थापयित्वेति । अन्ये चैत्तसिका
वेदनादयो विप्रयुक्तादयश्च । एवं धर्मलम्बनस्य प्रेम्णः श्रद्धायाश्च चतुष्कोटिकं
कृत्वा, पुद्गलालम्बनस्य चतुष्कोटिकं करोति—पुद्गलेष्विति विस्तर । तत्र सार्धं
विहरन्तीति सार्धविहारिणः शिष्याः । ये प्रव्रजिता गुरोरन्तेवसन्तीत्यन्तेवासिनो
निश्रयाध्ययनसम्बन्धिनः । तेषु पुत्रादिषु प्रेम न गारव क्लिष्टमक्लिष्टं चेति
सम्भवतः । गौरवं न प्रेम । "गुरुत्वं ह्री" इति वक्ष्यमाणलक्षणं गौरवं न प्रेम;
गौरवस्थानत्वात् । उभयम्, प्रेम गौरवं च । तदुभयात्मक भवतीत्यर्थः ।
नोभयमेतानाकारान् स्थापयित्वा । योऽन्यो जनोऽसम्बद्धो निर्गुण., तत्र न
प्रेम न गौरवंमिति । तत्पूर्विका च प्रियता प्रेमेति । गुणसम्भावनापूर्विका प्रियता
तच्च प्रेम । तस्मान्न सैवै श्रद्धा प्रेमेत्याचार्य ।
"गुरुत्वं ह्रीः" इति । यथोक्ता ह्री सगौरवता सप्रतीक्षता सभयवश-
२०४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
ते पुनः कामरूपयोः ॥ ३२ ॥
आरूप्यधातौ प्रेमगौरवे न स्तः। ननु च श्रद्धा हीश्च कुशलमहाभूमि-
कत्वात् तत्रापि विद्येते। द्विविधा हि श्रद्धा—धर्मेषु पुद्गलेषु च। एवं संप्रती-
शताऽपि। तत्र ये पुद्गलालम्बने श्रद्धाह्रियौ ते तत्र न स्तः। ते चेह प्रेमगौरवे
अभिप्रेते ॥ ३२ ॥
वितर्कविचारयोः किं नानाकरणम् ?
वितर्कचारावौदार्यसूक्ष्मते
कस्य ? चेतस इति पश्चाद् वक्ष्यति। चित्तौदारिकता वितर्कः। चित्त-
सूक्ष्मता विचारः।
कथं पुनः अनयोरेकत्र चित्ते योगः ?
केचिदाहुः—यथाऽप्सु निष्च्यूतं सर्पिः सूर्यरश्मिभिरुपरिष्टात् स्पृष्टं
नातिश्यायते नातिविलीयते, एव वितर्कविचारयोगाच्चित्तं नातिसूक्ष्मं भवति
नात्यौदारिकमिति, उभयोरपि तत्रास्ति व्यापारः।
एवं तर्हि निमित्तभूतौ वितर्कविचारौदार्यसूक्ष्मदयोः प्राप्नुतः, यथा
पयश्चातपश्च सर्पिषः श्यानत्वविलीनत्वयोर्न तु पुनस्तत्स्वभावौ। आपेक्षिकी चौदा-
र्वस्तितेत्युक्ता। या ह्रीस्तद् गौरवम्। तदेवं प्रेम श्रद्धालक्षणं भवति। ह्रीलक्षणं
तु गौरवमित्युक्तं तयोर्नानाकरणम्। एवं सप्रतीशताप्यति। एवं ह्रीरपि।
धर्मेषु च पुद्गलेषु च। ये पुद्गलालम्बने श्रद्धाह्रियौ ते तत्र न स्त इति।
पुद्गलालम्बने श्रद्धाह्रियाववधिक्रियेते ययोरेक्यं मन्यन्ते। ते आरूप्यधातौ न
स्तः। कामरूप्यधात्वोरेव भवत इत्युक्तम् ॥ ३२ ॥
कथं पुनरनयोरेकत्र चित्ते योग इति। न हि तदेव चित्तं तद्योगादौदारिकं
च सूक्ष्मं च युज्यते, विप्रतिषेधात्। निष्च्यूतमिति नि.पूर्वस्य ष्ठीवतेर्निष्ठायामेतद्
रूपम्-निष्पूतम्, निरस्तमित्यर्थः। नातिश्यायते नातिघनीभवति। नातिविलीयंत
नातिद्रवीभवति। नातिसूक्ष्मं भवति नात्यौदारिकमिति। मध्यमावस्थमित्यर्थः।
एवं तर्हि निमित्तभूताविति विस्तरः। यथोदकातपौ सर्पिष. श्यानत्वविलीन-
त्वयोर्निमित्तभूतौ, न तु पुनस्तत्स्वभावौ श्यानत्वविलीनत्वस्वभावौ। एवं वितर्क-
विचारौ चित्तस्यौदारिकतासूक्ष्मतयोर्निमित्तभूतौ, न तु पुनरौदारिकसूक्ष्मता-
स्वभावाविति। अत एवं वक्तव्यम्—चित्तौदारिकताहेतुर्वितर्कः, चित्तसूक्ष्मता-
[निर्देशः ] द्वितीयं कोशस्थानम् २०५
रिकसूक्ष्मता भूमिप्रकारभेदादित्याभवाग्राद् वितर्कविचारौ स्याताम् । न चौदारिक-
सूक्ष्मतया जातिभेदो युक्तः ।
अन्ये पुनराहुः—वाक्संस्कारा वितर्कविचाराः सूत्र उक्ताः—“वितर्क्य
विचार्य वाचं भाषते, नावितर्क्य नाविचार्य” ( ) इति । तत्र ये
औदारिकास्ते वितर्काः, ये सूक्ष्मास्ते विचाराः । यदि चैकत्र चित्तेऽन्यो धर्म
औदारिकः, अन्यः सूक्ष्मः—कोऽत्र विरोध इति ? न स्याद्विरोधो यदि जातिभेदः
हेतुर्विरोध इति । ब्रूयास्त्वमभ्युपगमाददोष एष इति ? तत इदं दोषान्तर-
माह—आपेक्षिकी चौदारिकसूक्ष्मतेति विस्तरः । भूमिप्रकारभेदात् । भूमिभेदात्,
प्रकारभेदाच्च । भूमिभेदात्तावत् प्रथमध्यानमपेक्ष्य कामधातुरौदारिकः; महा-
भिसंस्कारतरत्वात् । कामधातुमपेक्ष्य प्रथमं ध्यानं सूक्ष्ममल्पाभिसंस्कारतरत्वात्
प्रशान्तमिति । तदेव पुनर्द्वितीयं ध्यानमपेक्ष्यौदारिकम् । एवं यावद्भवाग्रं सूक्ष्मम् ।
प्रकारभेदादपि तस्यामेव भूमावापेक्षिक्यावौदारिकसूक्ष्मते । तद्यथा य एव ते
त्रयः क्लेशानां मूलप्रकारा मृदुमध्यादिमात्रा गुणानां च, कामधातौ यावद्भवाग्रे
तेषामधिमात्रः क्लेश औदारिकः, मृदु सूक्ष्म. क्लेशविपर्ययेण गुणानामिति ।
एवं भूमिप्रकारभेदेनापेक्षिक्यावौदारिकसूक्ष्मते इति आभवाग्रादौदारिकसूक्ष्मते
स्याताम् । अनिष्टं चैतत्, वितर्कविचारयो कामधातुप्रथमभूमिकत्वादिति । न
चौदारिकसूक्ष्मतया जातिभेदो युक्त इति । वितर्कविचारयोर्जातिभेद इष्यते—
अन्यो वितर्कः, अन्यो विचार इति । न चौदारिकत्वेन सूक्ष्मत्वेन च वितर्कविचा-
रयोर्यथाक्रमं स्वभावभेदो युक्तः । किं कारणम् ? जातिभिन्नयोर्हि वेदनासंज्ञयो-
रौदारिकसूक्ष्मता भवति । न च पुनरौदारिकसूक्ष्मतयैव तयोः स्वभावभेदः,
किं तर्हि ? अनुभवलक्षणतया निमित्तोद्ग्रहणलक्षणतया च तयोः स्वभावभेदः,
तस्मादप्यनयोर्नास्ति लक्षणम् ।
अन्ये पुनराहुरिति । सौत्रान्तिकाः । वाक्संस्कारा इति । वाक्समुत्थापका
इत्यर्थः । वितर्क्य विचार्य वाचं भाषते नावितर्क्य नाविचार्येति । वितर्कविचारैरेवं
चैवं च भाषिष्य इति । तत्र ये औदारिकास्ते वितर्का वाक्संस्काराः । कर्मणा
स्वभावो द्योतितो न शक्यमन्यथा स्वलक्षणं प्रदर्शयितुमिति । एवं सूक्ष्मास्ते
विचाराः । एतस्यां कल्पनायां समुदाय रूपा वितर्कविचाराः पर्यायभाविनश्च
भवन्ति, चित्तचैत्यकलापस्य वाक्समुत्थापकत्वात् । कथं पुनरनयोरेकत्र चित्ते
योग इत्युक्तम् ? अतो वैभाषिक आह—यदि चैकत्र चित्तेऽन्यो धर्म औदारिक इति ।
विस्तरः—एकत्र चित्ते वितर्क औदारिकस्वभावोऽन्यः धर्मः, विचारस्तु सूक्ष्म-
स्वभावोऽपरः, तौ च यथाक्रमं चित्तोदारिकतासूक्ष्मता हेतुत्वाच्चित्तौदारिकता-
स्याद्, वेदनासंज्ञावत् । एकस्यां तु जातौ मृद्वधिमात्रता युगपन्न सम्भवति ।
जातिभेदोऽप्यस्ति । स तर्हि वक्तव्यः ? दुर्वचो ह्यसौ—अतो मृद्वधिमात्रतया
व्यज्यते । नैवं व्यक्तो भवति; प्रत्येकं जातीनां मृद्वधिमात्रत्वात् ।
नैव हि वितर्कविचारावेकत्र चित्ते भवत इत्यपरे ।
सूक्ष्मतेत्युच्यते । अथ वा चित्तस्यौदारिकश्चित्तौदारिकः, चित्तौदारिकभावश्चित्तौ-
दारिकता । एवं चित्तसूक्ष्मतापि वक्तव्येति कोऽत्र विरोधः । न स्याद्विरोधो यदि
वितर्कविचारयोर्जातिभेदः स्याद् वेदनासंज्ञावत् । वेदना ह्यौदारिकी, संज्ञा सूक्ष्मा,
तयोस्तु जातिभेदोऽस्तीति औदारिकसूक्ष्मतायामप्येकत्र चित्ते न विरोधः ।
एकस्यां तु जातावनवधृतलक्षणायामैक्येन च कैश्चिद् गृहीतायां मृद्वधिमात्रता
औदारिकसूक्ष्मतालक्षणा युगपन्न सम्भवतीति । अर्थाद्युगपत् सम्भवतीत्युक्तम् ।
तथा हि वेदना अन्यो वा धर्मः पर्यायेण मृदुतामधिमात्रतां च भजते । नैवं
व्यक्तो भवति । किम् ? जातिभेदः, कस्मात् ? प्रत्येकं जातीनां मृद्वधिमात्रत्वात् ।
वेदना ह्यौदारिकी भवति सूक्ष्मा वा; अपेक्षाभेदात् । कथमिति ? वेदना संज्ञा-
मपेक्ष्यौदारिकी, रूपमपेक्ष्य सूक्ष्मा; तथा संज्ञा संस्कारानपेक्ष्यौदारिकी, वेदना-
मपेक्ष्य सूक्ष्मा वितर्कविचारवदेव वा । भवतोऽपि हि कामावचरौ वितर्कविचा-
राबौदारिकौ प्रथमध्यानभूमिकौ सूक्ष्मौ, ध्यानान्तरे च विचारः सूक्ष्मतर इति ।
तदेवं प्रत्येकं जातीनां मृद्वधिमात्रत्वान्नैनं व्यक्तो भवति । न मृद्वधिमात्रतया
जातिभेदो व्यक्तो भवतीत्यर्थः ।
अत्र सङ्घभद्र आचार्य आह—एकत्र च चित्ते औदारिकसूक्ष्मते भवतः । न
च विरोधः; प्रभवकालान्यत्वात् । यदा हि चित्तचैत्तकलापे वितर्क उद्भूतवृत्ति-
र्भवति, तदा चित्तमौदारिकं भवति । यदा विचारस्तदा सूक्ष्मम्, रागमौह-
चरितव्यपदेशवत् । रागमोहयोर्युगपद्भावेऽपि हि तयोरन्यतरोद्भूतवृत्तियोगाद् राग-
चरितो मोहचरित इति वा व्यपदिश्यते । तद्वदिहापि द्रष्टव्यमिति ।
अत्र वयं ब्रूमः—भवति कस्मिंश्चित् कलापे कस्यचिद्धर्मस्योद्भूतवृत्तित्वम्,
किं त्वनयोर्न लक्षणं विवेचितमिति न किञ्चिदेतत् । ननु च चित्तौदारिकता-
सूक्ष्मतालक्षणौ वितर्कविचारावुक्तौ ? सत्यमुक्तौ, प्रत्येकं तु जातीनामौदारिक-
सूक्ष्मते इति तावौदारिकसूक्ष्मतालक्षणौ भवितुमर्हतो यथोक्तमिति नैतदस्मा-
नाराधयति ।
नैव हि वितर्कविचारावेकत्र चित्ते भवत इत्यपर इति । आचार्यमतम् ।
अस्मिन् मते यथोक्तदोषप्रसङ्गो न भवति । कस्त्वनयोः पर्यायवर्त्तिनोर्विशेषः ?
अत्र पूर्वाचार्या आहुः—"वितर्कः कतमः ? चेतनां वा निश्रित्य प्रज्ञां वा पर्येषको
मनोजल्पोऽनभ्यूहाभ्यूहावस्थयोर्यथाक्रमम्, सा च चित्तस्यौदारिकता । विचारः
निर्देश. ] द्वितीयं कोशस्थानम् २०७
कथमिदानीं प्रथमं ध्यानं पञ्चाङ्गमुक्तम्¹ ? भूमितस्तत् पञ्चाङ्गमुक्तम्,
न क्षणतः ॥
मानमदयोः किं नानाकारणम् ?
मान उन्नतिः ।
मदः स्वधर्मे रक्तस्य पर्यादानं तु चेतसः ॥ ३३ ॥
येन केनचित् परतो विशेषपरिकल्पेन चेतस उन्नतिर्मानः ।
मदस्तु स्वधर्मेष्वेव रक्तस्य यच्चेतस पर्यादानम् । यथा मद्यज एवं
रागूजः । सम्प्रहर्षणविशेषो मद इत्यपरे ॥ ३३ ॥
उक्ता सह चित्तेन चैत्ताः प्रकारेण ॥
कतम ? चेतनां वा निश्चित्य प्रज्ञा वा प्रत्यवेक्षको मनोजल्पोऽनभ्यूहाभ्यूहावस्थ-
योर्यथाक्रमम्, सा च चित्तसूक्ष्मता" इति । अस्मिन् पक्षे वितर्कविचारावेकस्व-
भावौ समुदायकूपौ पर्यायवर्तिनौ पर्येषणप्रत्यवेक्षणाकारमात्रेण भिन्नाविव्येते ।
तत्रोदाहरणं केचिदाचक्षते—“तद्यथा बहुषु घटेष्ववस्थितेषु 'कोऽत्र दृढः, को
जर्जर.' इति मुष्टिनाभिघ्नतो य ऊह स वितर्कः, 'इयन्तो जर्जरा दृढा वा'
इति यदन्ते ग्रहणं स विचार" इति ।
कथमिदानी प्रथमं ध्यानं पञ्चाङ्गमिति विस्तर. । विविक्तं कामैर्विविक्तं
पापपैरकुशलैर्धर्मै. सवितर्क सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसम्पद्य
विहरतीति सूत्रे पञ्चाङ्गमुक्तम्, तत् कथम् ? भूमितस्तत् पञ्चाङ्गमुक्तं न क्षणात
इति । प्रथमध्यानभूमि. कदाचिद् वितर्केण व्यवकीर्णा, कदाचिद् विचारेण;
तदेवं सन्तानमधिकृत्य पञ्चाङ्गमुक्तम्, न क्षणमधिकृत्येत्यदोष ।
येन केनचित् परतो विशेषपरिकल्पेनेति भूतेनाभूतेन वा परत उत्कर्षपरिकल्पेन
'शूरोऽर्थवानस्मि शीलवान् बुद्धिसम्पन्न' इति वा या चेतस उन्नति स मानो
नाम चेतसिको धर्म.।
“पर्यादानं तु चेतसः” इति । तु-शब्दो विशेषणार्थो भिन्नक्रमश्चावगन्तव्य.,
अत एवाह—मदस्तु स्वधर्मेष्वेव रक्तस्येति । विस्तर.—चेतसः पर्यादानमिति ।
येन स्वधर्मेष्वेव रूपशौर्यादिषु रक्तं चेत पर्यादीयते सन्निरुध्यते स रागनिष्यन्दो
मद । य. स्वधर्मेष्वेव रक्तस्य दर्पचेतसः पर्यादानात् कुशलधर्मक्रियाभ्यः
प्रतिसंहारो मद इत्याचार्यसङ्घभद्र. । सम्प्रहर्षविशेषो मद इति । क्लिष्टसौमन-
स्यमभिप्रेतम् । तदेतन्नेच्छन्ति वैभाषिकाः । यस्मात् सौमनस्यमा द्वितीयाद्
ध्यानात् । मदश्च त्रेधातुक., “स्त्यानौद्धत्यमदा धातुत्रये” (अभि०को०५.५३)
इति वचनात् ॥ ३३ ॥
१. पञ्चाङ्गयुक्तम्—का० । एवमुपर्यपि ।
२०८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
तेषां पुनरिमाः संज्ञाः परिभाष्यन्ते, प्रवचन एताभिः सद्व्यवहारात् ।
चित्तं मनोऽथ विज्ञानमेकार्थं
चिनोतीति चित्तम् । मनुत इति मनः । विजानातीति विज्ञानम् । चितं
शुभाशुभैर्धातुभिरिति चित्तम् । तदेवाश्रयभूतं मनः । आश्रितभूतं विज्ञानमित्यपरे ।
यथा चित्तं मनो विज्ञानमित्येकोऽर्थः, एव
चित्तचैतसाः ।
साश्रयालम्बनाकाराः सम्प्रयुक्ताश्च
एकोऽर्थः । त एव हि चित्तचैत्ताः साश्रया उच्यन्ते; इन्द्रियाश्रित्वात् ।
सालम्बनाः; विषयग्रहणात् । साकाराः; तस्यैवालम्बनस्य प्रकारेण¹
उक्ताः सह चित्तेन चैत्ताः प्रकारेणेति । चित्तं तावत् प्रकारेणोक्तम्— “विज्ञानं
प्रतिविज्ञप्तिः” (अभि० को० १.१६) इत्येवमादिना स्वलक्षणस्कन्धधात्वा-
यतनकुशलादिप्रभेदेन । चैत्ता अपि स्वलक्षणपरस्परविशेषेण चित्तसंख्याव-
धारणकामप्रथमध्यानादिभूमिप्रभेदेन ।
“एकार्थम्” इति । यच्चित्तं तदेव मनस्तदेव विज्ञानमिति एकोऽर्थोऽस्येत्ये-
कार्थम् । निर्वचनभेदस्तूच्यते--चिनोतीति चित्तमिति । कुशलमकुशलं वा
चिनोतीत्यर्थः । नैरुक्तेन विधिनेवं सिद्धम् । मनुत इति मनः “मन ज्ञाने”
इत्यस्य औणादिकप्रत्ययात् तस्यैतद् रूपम्—मन इति । विजानात्यालम्बनमिति
विज्ञानम्, कर्तरि ल्युट् । चितं शुभाशुभर्धातुभिरिति चित्तम् । वासनासंनिवेश-
योगेन सौत्रान्तिकमतेन, योगाचारमतेन वा । आश्रयभूतं मन आश्रितभूतं
विज्ञानमिति । आश्रयभावापेक्षं मन , “षण्णामनन्तरातीतं विज्ञानं यदि
तन्मनः” (अभि० को० १.१७) इत्यर्थपरिग्रहात् । आश्रितभावापेक्षं विज्ञानम्,
‘द्वयं प्रतीत्य विज्ञानस्योत्पत्तिः’ इति वचनात् ।
“चित्तचैत्ताः साश्रयालम्बनाकाराः सम्प्रयुक्ताश्च” इति । च-शब्द एकानु-
कर्षणार्थः । त² एव हि चित्तचैत्ता इत्यनेन शब्देनाभिहितास्त एव साश्रया
इत्यनेनापि शब्देनाभिधीयन्ते । एवं सालम्बनाः साकाराः सम्प्रयुक्ताश्च । तत्र
साश्रया इन्द्रियाश्रितत्वात् । षडायतनाश्रितत्वादित्यर्थः । सालम्बना विषय-
ग्रहणात् । न हि विनालम्बनेन चित्तचैत्ता उत्पद्यन्ते । साकाराः तस्यैवालम्बनस्य
१. प्रकारशः---का० ।
२. य--मुद्रित. पाठः ।
निर्देशः ] द्वितीयं कोशस्थानम् २०९
आकरणात् । सम्प्रयुक्ताः; समं प्रयुक्तत्वात् ।
केन प्रकारेण समं प्रयुक्ताः ? इत्याह—
पञ्चधा ॥ ३४ ॥
पञ्चभिः समताप्रकारैः—आश्रयालम्बनाकारकालद्रव्यसमताभिः । केयं समता ?
यथैव ह्येकं चित्तम्, एवं चैत्ता अप्येकैका इति ॥ ३४ ॥
निर्दिष्टाश्चित्तचैत्ताः सविस्तरप्रभेदाः ॥
विप्रयुक्तास्तु संस्काराः प्राप्त्यप्राप्ती सभागता ।
आसंज्ञिकं समापत्ती जीवित लक्षणानि च ॥ ३५ ॥
प्रकारेणाकरणात् । "येन तैं सालम्बनाः तस्यैवालम्बनस्य प्रकारेण ग्रहणात् ।
कथम् ? विज्ञानं हि नीलं पीतं वा वस्तु विजानाति । उपलभत इत्यर्थः । तदेव
तथालम्बनं वस्तु वेदनानुभवति, संज्ञा परिच्छिनत्ति, चेत नाभिसंस्करोती-
त्येवमादि । अथ वा—तस्यैवालम्बनस्य विज्ञानं सामान्यरूपेणोपलभ्यतारूपं
गृह्णाति, विशेषरूपेण तु वेदनानुभवनीयतारूपं गृह्णाति, संज्ञा परिच्छेद्यतारूपं
गृह्णातीत्येवमादि । सम्प्रयुक्ताः समं प्रयुक्तत्वादिति । समा अविप्रयुक्ताश्चान्यो-
न्यमिति सम्प्रयुक्ताः ।
आश्रयालम्बनाकारकालद्रव्यसमताभिरिति । येनाश्रयेण चित्तमुत्पद्यते, तेनैवा-
श्रयेण वेदनासंज्ञाचेतनादय उत्पद्यन्ते । तथा येनालम्बनेन चित्तम्, तेनेव
वेदनादयः । येनाकारेण चित्तम्, तेनैव वेदनादयः । यदि हि नीलाकारं चित्तम्,
नीलाकारा एव तत्सम्प्रयुक्ता वेदनादय उत्पद्यन्ते । यस्मिंश्च काले चित्तम्,
तस्मिन्नेव वेदनादयः । यथा च चित्तद्रव्यमेकमेवोत्पद्यते, न द्वे त्रीणि वा, तथा
वेदनाद्रव्यमेकमेवोत्पद्यते, न द्वे त्रीणि वा । तथा संज्ञाद्रव्यम्, चेतनाद्रव्यमित्येव-
मादि । तेनेदमेवान्त्यं दुर्गममिति व्याचष्टे—यथैव ह्येकं चित्तम् एवं चैत्ता अपि
एकैका इति ॥ ३४ ॥
विप्रयुक्तान् वक्तुकाम आचार्य उपोद्घातं करोति । निर्दिष्टाश्चित्तचैत्ताः
सविस्तरप्रभेदाः, विप्रयुक्तास्त्ववसरप्राप्ता इदानीमुच्यन्ते इत्यभिप्रायः ।
सविस्तरप्रभेदा इति । विस्तरश्च प्रभेदश्च विस्तरप्रभेदौ, सह विस्तरप्रभेदाभ्यां
सविस्तरप्रभेदा । अथ वा—विस्तरेण प्रभेद विस्तरप्रभेद., सह विस्तरप्रभेदेन
सविस्तरप्रभेदा । तत्र चित्तं तावत् सविस्तरप्रभेदं निर्दिष्टम्—"विज्ञानं
प्रतिविज्ञप्तिर्मनआयतनं च" ( अभि० को० १।१६ ) इत्येवमादिना । चैत्ता
अपि "वेदनानुभवः" (अभि० को० १.१४) इत्यारभ्य यावत् "पञ्चधा चैत्ताः"
( अभि० को० २ २३ ) इति विस्तरेण ।
अभि० को० १४
२१० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
नामकायादयश्चेति
इमे संस्कारा न चित्तेन सम्प्रयुक्ताः, न च रूपस्वभावा इति चित्त-
विप्रयुक्ता उच्यन्ते।
तत्र तावत्—
प्राप्तिर्लाभः समन्वयः।
द्विविधा हि प्राप्तिः—अप्राप्तविहीनस्य च प्रतिलम्भः १, प्रतिलब्धेन च
“नामकायादयश्च” इति। चशब्द एवञ्जातीयाननुक्तविप्रयुक्तप्रदर्शनार्थः।
सङ्घभेदप्रभृतयो हि द्रव्यतश्चित्तविप्रयुक्ता इष्यन्त इति। 'येऽप्येवञ्जातीयकाः'
इति शास्त्रेऽप्युक्तत्वात्। चित्तविप्रयुक्ता इति। चित्तग्रहणं चित्तसमानजातीय-
प्रदर्शनार्थम्। चित्तमिव चित्तेन न विप्रयुक्ता इत्यर्थः। किं च तेषां चित्तेन
समानजातीयत्वम् ? यदरूपिणोऽमी भवन्ति। रूपित्वादेव हि विप्रयुक्तत्वेऽपि
रूपं न विप्रयुक्तत्वे नाम लभते। यद्वा अमीषा नामरूपमिति नामत्वम्, तत्तेषा
चित्तेन समानजातीयत्वम्। चैत्ता अपि चित्तेन तुल्यजातीया। ते तु चित्तेन
सहाऽऽलम्बने सम्प्रयुक्ता। तद्विशेषणार्थं विप्रयुक्तग्रहणम्। असंस्कृतमपि तत्समान-
जातीयमनालम्बनत्वेनेति तत्परिहारार्थं संस्कारग्रहणम्। अत एवाह—इमे
सस्कारा न चित्तेन सम्प्रयुक्ताः, न च रूपस्वभावा इति चित्तविप्रयुक्ता उच्यन्त इति।
तत्रेति वाक्योपन्यासे, निर्धारणे वा। तावच्छब्द क्रमे।
“प्राप्तिर्लाभ समन्वयः” इति। प्राप्तिरिति सामान्यसंज्ञा। लाभ, समन्वय
इति विशेषसंज्ञा। लाभ, प्रतिलम्भ इत्येकार्थं। समन्वय, समन्वागम
इत्यनर्थान्तरम्। प्रतिलम्भ इत्युक्ते समन्वागमस्याग्रहणम्, समन्वागम इत्युक्ते
प्रतिलम्भस्याग्रहणम्, प्राप्तिरित्युक्ते तूभयोर्ग्रहणम्। अत एवाह—द्विविधा हि
प्राप्तिः—अप्राप्तविहीनस्य च प्रतिलम्भः, प्रतिलब्धेन च समन्वागम इति। अप्राप्तं च
विहीनं चाप्राप्तविहीनम्, तस्याप्राप्तविहीनस्य प्रतिलम्भः। अप्राप्तस्य तद्यथा—
दु खे धर्मज्ञानक्षान्ते। विहीनस्य तद्यथा—कामावचरस्य कामवैराग्येण त्यक्तस्य
धातुप्रत्यागमनात् परिहाण्या वा पुन प्रतिलम्भः। प्रतिलब्धेन च द्वितीयादिषु
क्षणेषु समन्वागम, तस्याः समनुवर्त्तनात्। यश्च प्रतिलम्भो यश्च समन्वागमः
सा द्विधा प्राप्ति —इति प्रतिलम्भे समन्वागमे च प्राप्तिशब्दो वर्त्तते। अभेद-
विवक्षाया तु प्राप्ति, प्रतिलम्भ, समन्वागम इत्येक एवार्थः। तथा हि प्रथमे
क्षणे दुःखे धर्मज्ञानक्षान्ते, प्राप्ति, प्रतिलम्भ इष्यते। सापि समन्वागम
१. लाभ —का०।
निर्देशः ] द्वितीयं कोशस्थानम् २११
समन्वागमः । विपर्ययादप्राप्तिरिति सिद्धम् ।
कस्य पुनरिमे प्राप्त्यप्राप्ती ?
प्राप्त्यप्राप्ती स्वसन्तानपतितानां
न परसन्तानपतितानाम् । नहि परकीयैः कश्चित् समन्वागतः । नाप्य-
सन्ततिपतितानाम् । न ह्यसत्त्वसङ्ख्यातैः कश्चित् समन्वागतः ।
एष तावत् संस्कृतेषु नियमः ।
असंस्कृतेषु पुन प्राप्त्यप्राप्ती—
निरोधयोः ॥ ३६ ॥
इत्युच्यते । प्रथमक्षणस्थ आयंपुद्गलो दुःखधर्मज्ञानक्षान्त्या समन्वागत इत्युच्यते,
“आज्ञास्यामीन्द्रियेणैखयोदशभिरन्वितः ' ( अभि०का० २ १६ ) इत्यादिवच-
नात् । कथमयं लक्षणनिर्देशः ? न हि भेदविवक्षायामपि पर्यायवचनेन लक्षण-
निर्देशः कल्पते—'प्राप्तिः कतमा ? यः प्रतिलम्भो यः समन्वागमः' इति । पर्याय-
[L
२१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय
सर्वसत्त्वा अप्रतिसंख्यानिरोधेन समन्वागताः । अत एव हि चोक्तमभि-
धर्मे ( ज्ञा० प्र० १९.९ )— "अनास्रवैर्धर्मैः कः समन्वागतः ? आह—
सर्वसत्त्वा" इति । प्रतिसंख्यानिरोधेन सकलबन्धनादिक्षणस्थवर्ज्याः सर्व आर्या
पृथग्जनाश्च केचित् समन्वागताः । आकाशेन तु नास्ति कश्चित् समन्वागतः ।
तस्मादस्य नास्ति प्राप्तिः । यस्य च नास्ति प्राप्तिस्तस्याप्राप्तिरपि नास्तीति
सिद्धान्तः ।
प्राप्तिर्नामास्ति किञ्चित् भावान्तरमिति । कुत एतत् ? आह—सूत्रात् ।
सूत्रे ह्युक्तम्—"स एषां दशानामशैक्षाणां धर्माणामुत्पादात् प्रतिलम्भात्
प्राप्त्यप्राप्ती भवत । सर्वसत्त्वा अप्रतिसंख्यानिरोधेन यथा प्रत्ययवैकल्यं समन्वा-
गताः । सकलबन्धनादिक्षणस्थवर्ज्या इति । आदौ क्षण.
निर्देश ] द्वितीयं कोशस्थानम् २१३
समन्वागमादार्यो भवति पञ्चाङ्गविप्रहीणः" (म० आ० ४९.१६) इति
विस्तरः।
तेन तर्हि असत्त्वाख्यैरपि समन्वागमः प्राप्नोति, परसत्त्वैश्च। किं कारणम् ?
सूत्रे¹ वचनात्¹ । "राजा भिक्षवश्चक्रवर्ती सप्तभी रत्नैः समन्वागतः"
(दी० नि० ३. ५९) इति विस्तरः। वशित्वमत्र समन्वागमशब्देनोक्तम्।
तस्य तेषु रत्नेषु वशित्व कामचार इति। तत्र² वशित्वं समन्वागमः, अन्यत्र
पुनर्द्रव्यान्तरमिति।
कुत एतत् कः पुनरेवमयोगः ? अयमयोगः—यदस्या नैव 'स्वभावः
प्रज्ञायते रूपशब्दादिवद्, रागद्वेषादिवद्वा; न चापि कृत्यं चक्षुःश्रोत्रादिवत् ।
तस्माद् द्रव्यधर्मासम्भवादयोगः।
चेति। प्रतिनिधिभूताया प्राप्तैर्योगान् प्रकृतिस्थोऽप्यर्हन्नार्य इत्युच्यते। साधनं
चात्र—'द्रव्यतोऽस्ति समन्वागमः, सूत्रोक्तत्वात्, आयतनद्रव्यवत्' इति।
आचार्यस्तं प्रत्याह—तेन तर्ह्यसत्त्वाख्यैरपि चक्ररत्नादिभिः परसत्त्वैरपि
स्त्रीरत्नादिभि समन्वागमो द्रव्यसन् प्राप्नोति। सूत्रे वचनात्। कथमिति ? सूत्र
दर्शयति—राजा यावद्विस्तर इति। राजा भिक्षवश्चक्रवर्ती सप्तभी रत्नै समन्वा-
गत । तस्येमानि सप्त रत्नानि, तद्यथा—चक्ररत्नम्, हस्तिरत्नम्, अश्वरत्नम्,
मणिरत्नम्, स्त्रीरत्नम्, गृहपतिरत्नम्, परिणायकरत्नमेवं सप्तममिति विस्तरः।
एभि सप्तभी रत्नै समन्वागमः सूत्र उक्तः। न च द्रव्यतोऽस्तीत्यनेनानैकान्तिकता
दर्शयति, प्रतिज्ञादोषं चायमुद्ग्राहयति, अनुमानविरोधात्। कथम् ? इत्युच्यते -
'न द्रव्यसन् दशाशैक्षधर्मसमन्वागम समन्वागमस्वभाव्यात् चक्रवर्तिसप्तरत्न
समन्वागमवद्' इति। अनेन प्रतिज्ञाया धर्मस्वरूपं विपर्यामयति ।
वशित्वं कामचार इति। इच्छानुविधायित्वम्। तत्र वशित्वमिति चक्रवर्तिसूत्रे।
अन्यत्र पुनर्द्रव्यान्तरमिति। दशाशैक्षधर्मसमन्वागमसूत्रे। कः पुनरेवमयोग इति।
प्रवचने हि द्विविधमिष्यते—द्रव्यसच्च वस्तु, प्रज्ञप्तिसच्चेति। कथमयुक्तिः ? इति
वैभाषिकाः। आचार्य आह—अयमयोग इति। विस्तर.—इह यद् द्रव्यसद्वस्तु तत्
प्रत्यक्षग्राह्यं वा भवेदनुमानग्राह्यं वा। तत्र प्रत्यक्षग्राह्यं रूपशब्दादि, पञ्चेन्द्रिय
ग्राह्यत्वात्। मनोविज्ञानग्राह्यमपि किञ्चित् प्रत्यक्षं रागद्वेषादि; स्वसंवेद्यत्वात्।
चक्षुःश्रोत्रादि त्वनुमानग्राह्यं चक्षुर्विज्ञानादिकृत्यानुमेयत्वात्, तद्भावाभावयोस्त-
१-१. सूत्रवचनात्—का०। २ अत्र—का०।