सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 225, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 225

स्याद्, वेदनासंज्ञावत् । एकस्यां तु जातौ मृद्वधिमात्रता युगपन्न सम्भवति ।
जातिभेदोऽप्यस्ति । स तर्हि वक्तव्यः ? दुर्वचो ह्यसौ—अतो मृद्वधिमात्रतया
व्यज्यते । नैवं व्यक्तो भवति; प्रत्येकं जातीनां मृद्वधिमात्रत्वात् ।
नैव हि वितर्कविचारावेकत्र चित्ते भवत इत्यपरे ।
सूक्ष्मतेत्युच्यते । अथ वा चित्तस्यौदारिकश्चित्तौदारिकः, चित्तौदारिकभावश्चित्तौ-
दारिकता । एवं चित्तसूक्ष्मतापि वक्तव्येति कोऽत्र विरोधः । न स्याद्विरोधो यदि
वितर्कविचारयोर्जातिभेदः स्याद् वेदनासंज्ञावत् । वेदना ह्यौदारिकी, संज्ञा सूक्ष्मा,
तयोस्तु जातिभेदोऽस्तीति औदारिकसूक्ष्मतायामप्येकत्र चित्ते न विरोधः ।
एकस्यां तु जातावनवधृतलक्षणायामैक्येन च कैश्चिद् गृहीतायां मृद्वधिमात्रता
औदारिकसूक्ष्मतालक्षणा युगपन्न सम्भवतीति । अर्थाद्युगपत् सम्भवतीत्युक्तम् ।
तथा हि वेदना अन्यो वा धर्मः पर्यायेण मृदुतामधिमात्रतां च भजते । नैवं
व्यक्तो भवति । किम् ? जातिभेदः, कस्मात् ? प्रत्येकं जातीनां मृद्वधिमात्रत्वात् ।
वेदना ह्यौदारिकी भवति सूक्ष्मा वा; अपेक्षाभेदात् । कथमिति ? वेदना संज्ञा-
मपेक्ष्यौदारिकी, रूपमपेक्ष्य सूक्ष्मा; तथा संज्ञा संस्कारानपेक्ष्यौदारिकी, वेदना-
मपेक्ष्य सूक्ष्मा वितर्कविचारवदेव वा । भवतोऽपि हि कामावचरौ वितर्कविचा-
राबौदारिकौ प्रथमध्यानभूमिकौ सूक्ष्मौ, ध्यानान्तरे च विचारः सूक्ष्मतर इति ।
तदेवं प्रत्येकं जातीनां मृद्वधिमात्रत्वान्नैनं व्यक्तो भवति । न मृद्वधिमात्रतया
जातिभेदो व्यक्तो भवतीत्यर्थः ।
अत्र सङ्घभद्र आचार्य आह—एकत्र च चित्ते औदारिकसूक्ष्मते भवतः । न
च विरोधः; प्रभवकालान्यत्वात् । यदा हि चित्तचैत्तकलापे वितर्क उद्भूतवृत्ति-
र्भवति, तदा चित्तमौदारिकं भवति । यदा विचारस्तदा सूक्ष्मम्, रागमौह-
चरितव्यपदेशवत् । रागमोहयोर्युगपद्भावेऽपि हि तयोरन्यतरोद्भूतवृत्तियोगाद् राग-
चरितो मोहचरित इति वा व्यपदिश्यते । तद्वदिहापि द्रष्टव्यमिति ।
अत्र वयं ब्रूमः—भवति कस्मिंश्चित् कलापे कस्यचिद्धर्मस्योद्भूतवृत्तित्वम्,
किं त्वनयोर्न लक्षणं विवेचितमिति न किञ्चिदेतत् । ननु च चित्तौदारिकता-
सूक्ष्मतालक्षणौ वितर्कविचारावुक्तौ ? सत्यमुक्तौ, प्रत्येकं तु जातीनामौदारिक-
सूक्ष्मते इति तावौदारिकसूक्ष्मतालक्षणौ भवितुमर्हतो यथोक्तमिति नैतदस्मा-
नाराधयति ।
नैव हि वितर्कविचारावेकत्र चित्ते भवत इत्यपर इति । आचार्यमतम् ।
अस्मिन् मते यथोक्तदोषप्रसङ्गो न भवति । कस्त्वनयोः पर्यायवर्त्तिनोर्विशेषः ?
अत्र पूर्वाचार्या आहुः—"वितर्कः कतमः ? चेतनां वा निश्रित्य प्रज्ञां वा पर्येषको
मनोजल्पोऽनभ्यूहाभ्यूहावस्थयोर्यथाक्रमम्, सा च चित्तस्यौदारिकता । विचारः