अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 220, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] द्वितीयं कोशस्थानम् २०५
इदानीं केषाञ्चिदेव चैत्तानां तन्त्रविहितं१ नानाकारणं वक्ष्यते ।
आहीक्यस्यानपत्राप्यस्य च किं नानाकारणम् ?
अह्रीरगुरुता
गुणेषु गुणवत्सु चागौरवता अप्रतीशता अभयवशवर्तिता२ आहीक्यं
गौरवप्रतिद्वन्द्वो धर्मः ॥
अवद्ये भयादर्शित्वमत्रपा ।
अवद्यं नाम यद् गर्हितं३ सद्भिः । तत्राभयदर्शिता अनपत्राप्यम् । भय-
मत्रानिष्टं फलम्—मीयतेऽस्मादिति ।
कथमिदं विज्ञातव्यम्—अभयस्य दर्शनमभयदर्शिता, आहोस्विद् भयस्या-
दर्शनम् ? किं चातः ? अभयस्य दर्शनं चेत्, प्रज्ञा विज्ञास्यते; भयस्यादर्शनं
तन्त्रविहितमिति । शास्त्रे विहितम् । स एव चात्रार्थः ।
गुणेषु गुणवत्सु चेति । तत्र विहितमिति केचित् पठन्ति । स्वपरसन्तानिकेषु
मैत्रीकरुणादिषु । गुणेषु गुणवत्सु च पुद्गलेष्वाचारगोचरगौरवादिसम्पन्नेषु ।
यद्योगाद् गौरवं न करोत्यसौ अगौरवता । नास्ति गौरवमस्येत्यगौरवः, तद्भा-
वोगौरवता, चेतसिकविशेषः । कोऽसौ ? इति पर्यायानाडुः । अप्रतीशता अभय-
वशवर्तितेति । शिष्यं प्रति दृष्ट इति प्रतीशी गुरुस्थानींय., नास्ति प्रतीशो-
ऽस्येत्यप्रतीशः, तद्भावोऽप्रतीशता । भावाभिधानेन चेत्तो गृह्यते । भयं नाम
मानसश्चेत्तो धर्म.। भयेन वशे वर्तितुं शीलमस्येति भयवशवर्ती, न भयवशवर्ती
अभयवशवर्ती, तद्भावोऽभयवशवर्तिता । तदेव चाहीक्यम् । नास्ति ह्रीरस्ये-
त्यहीकः, तद्भाव आहीक्यम् । स च गौरवप्रतिद्वन्द्वो धर्मः, न तदभावमात्रम् ।
“अवद्ये भयादर्शित्वमत्रपा” इति । अवाच्यम् = अवद्यम् । अतश्चाह—अवद्यं
नाम यद्गर्हितं सद्भिरिति । तत्राभयदर्शिता अनपत्राप्यमिति । अवद्येऽनिष्टफला-
दर्शितेत्यर्थः । मीयतेऽस्मादिति । अत्र भयशब्दोऽपादानसाधनः, तस्माद्भयशब्देन
अनिष्टं फलमुच्यते । अभयस्य दर्शनमभयदर्शितेति । विस्तार.—यदि तावदेवं
क्रियेत—न भयभभयम्, अभयं द्रष्टुं शीलमस्येत्यभयदर्शी, तद्भावोऽभयदर्शितेति ?
प्रज्ञा विज्ञास्यते । प्रज्ञया, ह्यभयं पश्यति । अथ पुनरेवं क्रियेत—भयं द्रष्टुं
शीलमस्येति भयदर्शी, न भयदर्शी अभयदर्शी, 'तद्भावोऽभयदर्शितेति ?
१. तत्रविहितं—स्फुटार्थापुस्तके मुद्रितः पाठः । तन्त्रे विहितम्—इत्युचितः पाठः ।
२ अभयमवश०—का० । ३ विगर्हितं—का० ।