अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 215, कुल 1258 में से
संदर्भ में पढ़ें१९६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
शून्यतालम्बनविमोक्षमुखं,१ शून्यतेत्युच्यते, अशुभालम्बनश्च अलोभोऽशुभ इति ।
लोकेऽपि च दृष्टः स्थानेन स्थानिनामतिदेशः—सर्वो ग्राम आगतः, सर्वो देश
आगत इति । स्थानभूतं च कौकृत्यं विप्रतिसारस्य ।
फले वा हेतूपचारोऽयम् । यथा२—“षडिमानि स्पर्शायतनानि पौराणं
कर्म वेदितव्यम्” ( ) इति ।
यत्तर्हि अकृतालम्बनं तत् कथं कौकृत्यम् ? अकृतेऽपि कृताख्या भवति—
न मया साधु कृतं यत्तन्न३ कृतमिति ।
कतमत् कौकृत्यं कुशलम् ? यत् कुशलमकृत्वा तप्यते, अकुशलं च कृत्वा ।
तत्सम्प्रयुक्ता अप्यन्ये चित्तचैत्ताः कौकृत्यं प्राप्नुवन्ति, तेषामप्राधान्यात् । विप्र-
तिसारावस्थाया हि कौकृत्यलक्षणं चेतसिकं कौकृत्याकारमुद्भूतवृत्तिकम्, अन्ये
चित्तचैत्तास्तदाकारेणानुवर्तन्ते, कस्यचिदेव हि धर्मस्य कस्मिंश्चित् चित्तकलापे
प्राधान्यमिति वर्णयन्ति । शून्यतालम्बनविमोक्षमुखं शून्यतेति । स्कन्धानामन्त-
र्व्यापारपुरुषरहितालम्बनं विमोक्षमुखं समाधिविशेषः शून्यतेत्युच्यते । विनीलक-
व्याध्मातकाद्यशुभालम्बनोऽलोभोऽशुभेत्युच्यते । भावनासम्बद्धत्वात् स्त्रीलिङ्ग-
निर्देशः—अशुभा भावनेति, तथेहापि कौकृत्यालम्बनश्चेतसिको धर्मं कौकृत्य-
मिति । स्थानेन स्थानिनामतिदेशः—सर्वो ग्राम आगत इति । सभूमिक शाला-
समुदायो ग्रामः । स्थानिषु मनुष्येष्वागतेषु वक्तारो भवन्ति—सर्वो ग्राम आगत
इति । एवं सर्वो देश आगत इति । स्थानभूतं च कौकृत्यं विप्रतिसारस्येति ।
विप्रतिसारालम्बनत्वात् । तस्माद्युक्तस्तथा निर्देशः । फले वा हेतूपचार इति ।
हेतुः कौकृत्यम्, फलं विप्रतिसारः, तस्मिन् फले हेतुरुपचर्यते, हेतुवाचकेन
शब्देन फलमुच्यत इत्यर्थः । यथा षडिमानि स्पर्शायतनानि पौराणं कर्मेति ।
पूर्वजन्मकृतस्य पौराणस्य कर्मणश्चक्षुरादीनि षट् स्पर्शायतनानि फलानि,
तेषु यथा कर्मोपचर्यते, तद्वत् ।
यत् तर्ह्यकृतालम्बनं तत् कथं कौकृत्यमिति । यदकृतं तन्न कृतामिति मत्वा
चोदयति—अकृतेऽपि कृताख्या भवतीति । अकृतेऽप्यर्थे कृतशब्दप्रयोगो भवति ।
कथम् ? इत्याह—न साधु मया कृतं यत्तन्न कृतमिति । कृतमिव तदिति कृत्वा ।
यत्कुशलमकृत्वा तप्यत इति । यत् कुशलं दानादिकमकृत्वा तप्यते पश्चात्तापी
भवति तत् कुशलम् । अकुशलं च कृत्वा । किम् ? तप्यत इत्यधिकृतम् । यच्चा-
१. शून्यतालम्बनं०—का० । २. यथोक्तम्—का० । ३. यन्न—का० ।