सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 232, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 232

निर्देश ] द्वितीयं कोशस्थानम् २१३
समन्वागमादार्यो भवति पञ्चाङ्गविप्रहीणः" (म० आ० ४९.१६) इति
विस्तरः।
तेन तर्हि असत्त्वाख्यैरपि समन्वागमः प्राप्नोति, परसत्त्वैश्च। किं कारणम् ?
सूत्रे¹ वचनात्¹ । "राजा भिक्षवश्चक्रवर्ती सप्तभी रत्नैः समन्वागतः"
(दी० नि० ३. ५९) इति विस्तरः। वशित्वमत्र समन्वागमशब्देनोक्तम्।
तस्य तेषु रत्नेषु वशित्व कामचार इति। तत्र² वशित्वं समन्वागमः, अन्यत्र
पुनर्द्रव्यान्तरमिति।
कुत एतत् कः पुनरेवमयोगः ? अयमयोगः—यदस्या नैव 'स्वभावः
प्रज्ञायते रूपशब्दादिवद्, रागद्वेषादिवद्वा; न चापि कृत्यं चक्षुःश्रोत्रादिवत् ।
तस्माद् द्रव्यधर्मासम्भवादयोगः।
चेति। प्रतिनिधिभूताया प्राप्तैर्योगान् प्रकृतिस्थोऽप्यर्हन्नार्य इत्युच्यते। साधनं
चात्र—'द्रव्यतोऽस्ति समन्वागमः, सूत्रोक्तत्वात्, आयतनद्रव्यवत्' इति।
आचार्यस्तं प्रत्याह—तेन तर्ह्यसत्त्वाख्यैरपि चक्ररत्नादिभिः परसत्त्वैरपि
स्त्रीरत्नादिभि समन्वागमो द्रव्यसन् प्राप्नोति। सूत्रे वचनात्। कथमिति ? सूत्र
दर्शयति—राजा यावद्विस्तर इति। राजा भिक्षवश्चक्रवर्ती सप्तभी रत्नै समन्वा-
गत । तस्येमानि सप्त रत्नानि, तद्यथा—चक्ररत्नम्, हस्तिरत्नम्, अश्वरत्नम्,
मणिरत्नम्, स्त्रीरत्नम्, गृहपतिरत्नम्, परिणायकरत्नमेवं सप्तममिति विस्तरः।
एभि सप्तभी रत्नै समन्वागमः सूत्र उक्तः। न च द्रव्यतोऽस्तीत्यनेनानैकान्तिकता
दर्शयति, प्रतिज्ञादोषं चायमुद्ग्राहयति, अनुमानविरोधात्। कथम् ? इत्युच्यते -
'न द्रव्यसन् दशाशैक्षधर्मसमन्वागम समन्वागमस्वभाव्यात् चक्रवर्तिसप्तरत्न
समन्वागमवद्' इति। अनेन प्रतिज्ञाया धर्मस्वरूपं विपर्यामयति ।
वशित्वं कामचार इति। इच्छानुविधायित्वम्। तत्र वशित्वमिति चक्रवर्तिसूत्रे।
अन्यत्र पुनर्द्रव्यान्तरमिति। दशाशैक्षधर्मसमन्वागमसूत्रे। कः पुनरेवमयोग इति।
प्रवचने हि द्विविधमिष्यते—द्रव्यसच्च वस्तु, प्रज्ञप्तिसच्चेति। कथमयुक्तिः ? इति
वैभाषिकाः। आचार्य आह—अयमयोग इति। विस्तर.—इह यद् द्रव्यसद्वस्तु तत्
प्रत्यक्षग्राह्यं वा भवेदनुमानग्राह्यं वा। तत्र प्रत्यक्षग्राह्यं रूपशब्दादि, पञ्चेन्द्रिय
ग्राह्यत्वात्। मनोविज्ञानग्राह्यमपि किञ्चित् प्रत्यक्षं रागद्वेषादि; स्वसंवेद्यत्वात्।
चक्षुःश्रोत्रादि त्वनुमानग्राह्यं चक्षुर्विज्ञानादिकृत्यानुमेयत्वात्, तद्भावाभावयोस्त-
१-१. सूत्रवचनात्—का०। २ अत्र—का०।