सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 224, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 224

[निर्देशः ] द्वितीयं कोशस्थानम् २०५

रिकसूक्ष्मता भूमिप्रकारभेदादित्याभवाग्राद् वितर्कविचारौ स्याताम् । न चौदारिक-
सूक्ष्मतया जातिभेदो युक्तः ।
अन्ये पुनराहुः—वाक्संस्कारा वितर्कविचाराः सूत्र उक्ताः—“वितर्क्य
विचार्य वाचं भाषते, नावितर्क्य नाविचार्य” ( ) इति । तत्र ये
औदारिकास्ते वितर्काः, ये सूक्ष्मास्ते विचाराः । यदि चैकत्र चित्तेऽन्यो धर्म
औदारिकः, अन्यः सूक्ष्मः—कोऽत्र विरोध इति ? न स्याद्विरोधो यदि जातिभेदः
हेतुर्विरोध इति । ब्रूयास्त्वमभ्युपगमाददोष एष इति ? तत इदं दोषान्तर-
माह—आपेक्षिकी चौदारिकसूक्ष्मतेति विस्तरः । भूमिप्रकारभेदात् । भूमिभेदात्,
प्रकारभेदाच्च । भूमिभेदात्तावत् प्रथमध्यानमपेक्ष्य कामधातुरौदारिकः; महा-
भिसंस्कारतरत्वात् । कामधातुमपेक्ष्य प्रथमं ध्यानं सूक्ष्ममल्पाभिसंस्कारतरत्वात्
प्रशान्तमिति । तदेव पुनर्द्वितीयं ध्यानमपेक्ष्यौदारिकम् । एवं यावद्भवाग्रं सूक्ष्मम् ।
प्रकारभेदादपि तस्यामेव भूमावापेक्षिक्यावौदारिकसूक्ष्मते । तद्यथा य एव ते
त्रयः क्लेशानां मूलप्रकारा मृदुमध्यादिमात्रा गुणानां च, कामधातौ यावद्भवाग्रे
तेषामधिमात्रः क्लेश औदारिकः, मृदु सूक्ष्म. क्लेशविपर्ययेण गुणानामिति ।
एवं भूमिप्रकारभेदेनापेक्षिक्यावौदारिकसूक्ष्मते इति आभवाग्रादौदारिकसूक्ष्मते
स्याताम् । अनिष्टं चैतत्, वितर्कविचारयो कामधातुप्रथमभूमिकत्वादिति । न
चौदारिकसूक्ष्मतया जातिभेदो युक्त इति । वितर्कविचारयोर्जातिभेद इष्यते—
अन्यो वितर्कः, अन्यो विचार इति । न चौदारिकत्वेन सूक्ष्मत्वेन च वितर्कविचा-
रयोर्यथाक्रमं स्वभावभेदो युक्तः । किं कारणम् ? जातिभिन्नयोर्हि वेदनासंज्ञयो-
रौदारिकसूक्ष्मता भवति । न च पुनरौदारिकसूक्ष्मतयैव तयोः स्वभावभेदः,
किं तर्हि ? अनुभवलक्षणतया निमित्तोद्ग्रहणलक्षणतया च तयोः स्वभावभेदः,
तस्मादप्यनयोर्नास्ति लक्षणम् ।
अन्ये पुनराहुरिति । सौत्रान्तिकाः । वाक्संस्कारा इति । वाक्समुत्थापका
इत्यर्थः । वितर्क्य विचार्य वाचं भाषते नावितर्क्य नाविचार्येति । वितर्कविचारैरेवं
चैवं च भाषिष्य इति । तत्र ये औदारिकास्ते वितर्का वाक्संस्काराः । कर्मणा
स्वभावो द्योतितो न शक्यमन्यथा स्वलक्षणं प्रदर्शयितुमिति । एवं सूक्ष्मास्ते
विचाराः । एतस्यां कल्पनायां समुदाय रूपा वितर्कविचाराः पर्यायभाविनश्च
भवन्ति, चित्तचैत्यकलापस्य वाक्समुत्थापकत्वात् । कथं पुनरनयोरेकत्र चित्ते
योग इत्युक्तम् ? अतो वैभाषिक आह—यदि चैकत्र चित्तेऽन्यो धर्म औदारिक इति ।
विस्तरः—एकत्र चित्ते वितर्क औदारिकस्वभावोऽन्यः धर्मः, विचारस्तु सूक्ष्म-
स्वभावोऽपरः, तौ च यथाक्रमं चित्तोदारिकतासूक्ष्मता हेतुत्वाच्चित्तौदारिकता-