सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 222, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 222

निर्देशः ] द्वितीयं कोशस्थानम् २०३
प्रेम्णो गौरवस्य च किं नानाकारणम् ?
प्रेम श्रद्धा
द्विविधं हि प्रेम—क्लिष्टम्, अक्लिष्टं च। तत्र क्लिष्टं तृष्णा, यथा—
पुत्रदारादिषु । अक्लिष्टं श्रद्धा—शास्तृगुरुगुणान्वितेषु । स्याच्छ्रद्धा न प्रेम—
दुःखसमुदयालम्बना श्रद्धा । स्यात् प्रेम न श्रद्धा—क्लिष्टं प्रेम । उभयम्—
निरोधमार्गालम्बना श्रद्धा। नोभयमेतानाकारान् स्थापयित्वा ।
पुद्गलेषु तु प्रेम न गौरवम्—पुत्रदारसार्धविहार्यन्तेवासिषु । गौरवं न
प्रेम—अन्यगुरुषु । उभयम्—स्वगुरुषु । नोभयम्—एतानाकारान् स्थापयित्वा ।
श्रद्धा हि नाम गुणसम्भावना । तत्पूर्विका च प्रियता प्रेम । तस्मान्न
सैव प्रेमेत्यपरे ।
गुरुत्वं ह्रीः
गौरवं हि नाम सप्रतीशता । तत्पूर्विका च लज्जा ह्रीः । अतो न
गौरवमेव हीरित्यपरे ।
प्रेमगौरवयोरकत्वं मन्यन्ते केचित्। तस्मादनयोर्नानाकरणप्रदर्शनार्थमाह—
"प्रेम श्रद्धा" इति। प्रेमैव श्रद्धा, न गौरवम् । न तु श्रद्धैव प्रेम । तेनाह—
द्विविधं हि प्रेम क्लिष्टमक्लिष्टं चेत्यादि। स्याच्छ्रद्धा न प्रेमति चतुष्कोटिकं । दुःख-
समुदयसत्ययोः श्रद्धैवाभिसम्प्रत्ययरूपा, न प्रेम, अस्पृहणीयत्वात् । स्यात् प्रेम न
श्रद्धेति । प्रियतारूपा तृष्णा नाभिसम्प्रत्ययरूपेति श्रद्धा न भवति । उभयं श्रद्धा
च प्रेम च । अभिसम्प्रत्ययरूपत्वात् स्पृहणीयत्वाच्च निरोधमार्गसत्ययोस्तदु-
भयात्मकं भवतीत्यर्थः। नोभयमेतानाकारान् स्थापयित्वेति । अन्ये चैत्तसिका
वेदनादयो विप्रयुक्तादयश्च । एवं धर्मलम्बनस्य प्रेम्णः श्रद्धायाश्च चतुष्कोटिकं
कृत्वा, पुद्गलालम्बनस्य चतुष्कोटिकं करोति—पुद्गलेष्विति विस्तर । तत्र सार्धं
विहरन्तीति सार्धविहारिणः शिष्याः । ये प्रव्रजिता गुरोरन्तेवसन्तीत्यन्तेवासिनो
निश्रयाध्ययनसम्बन्धिनः । तेषु पुत्रादिषु प्रेम न गारव क्लिष्टमक्लिष्टं चेति
सम्भवतः । गौरवं न प्रेम । "गुरुत्वं ह्री" इति वक्ष्यमाणलक्षणं गौरवं न प्रेम;
गौरवस्थानत्वात् । उभयम्, प्रेम गौरवं च । तदुभयात्मक भवतीत्यर्थः ।
नोभयमेतानाकारान् स्थापयित्वा । योऽन्यो जनोऽसम्बद्धो निर्गुण., तत्र न
प्रेम न गौरवंमिति । तत्पूर्विका च प्रियता प्रेमेति । गुणसम्भावनापूर्विका प्रियता
तच्च प्रेम । तस्मान्न सैवै श्रद्धा प्रेमेत्याचार्य ।
"गुरुत्वं ह्रीः" इति । यथोक्ता ह्री सगौरवता सप्रतीक्षता सभयवश-