सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 231, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 231

२१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय
सर्वसत्त्वा अप्रतिसंख्यानिरोधेन समन्वागताः । अत एव हि चोक्तमभि-
धर्मे ( ज्ञा० प्र० १९.९ )— "अनास्रवैर्धर्मैः कः समन्वागतः ? आह—
सर्वसत्त्वा" इति । प्रतिसंख्यानिरोधेन सकलबन्धनादिक्षणस्थवर्ज्याः सर्व आर्या
पृथग्जनाश्च केचित् समन्वागताः । आकाशेन तु नास्ति कश्चित् समन्वागतः ।
तस्मादस्य नास्ति प्राप्तिः । यस्य च नास्ति प्राप्तिस्तस्याप्राप्तिरपि नास्तीति
सिद्धान्तः ।
प्राप्तिर्नामास्ति किञ्चित् भावान्तरमिति । कुत एतत् ? आह—सूत्रात् ।
सूत्रे ह्युक्तम्—"स एषां दशानामशैक्षाणां धर्माणामुत्पादात् प्रतिलम्भात्
प्राप्त्यप्राप्ती भवत । सर्वसत्त्वा अप्रतिसंख्यानिरोधेन यथा प्रत्ययवैकल्यं समन्वा-
गताः । सकलबन्धनादिक्षणस्थवर्ज्या इति । आदौ क्षण.