सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 216, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 216

विपर्ययादकुशलं कौकृत्यम् । तदेतदुभयमप्युभयाधिष्ठानं भवति¹ ॥ २८ ॥
आवेणिके त्वकुशले दृष्टियुक्ते च विंशतिः ।
यदकुशलं चित्तमावेणिकं तत्र विंशतिश्चैत्ताः—दश महाभूमिकाः,
षट् क्लेशमहाभूमिकाः, द्वावकुशलमहाभूमिकौ, वितर्कः, विचारश्च ।
आवेणिकं नाम चित्तं यत्राविद्यैव केवला, नान्यः क्लेशोऽस्ति रागादिः ।
दृष्टियुक्तेऽप्यकुशले विंशतिरेवावेणिके ।
ननु च दृष्ट्यधिकत्वादेकविंशतिर्भवन्ति ? न भवन्ति । यस्मान्महाभूमिक
एव कश्चित् प्रज्ञाविशेषो दृष्टिरित्युच्यते । तत्राकुशलं दृष्टियुक्तम्, यत्र मिथ्या-
दृष्टिश्च² दृष्टिपरामर्शो वा शीलव्रतपरामर्शो वा ।
क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिः ॥ २९ ॥
यत्र पुनश्च