सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] अष्टमं कोशस्थानम् ११३७
भवेन भवस्यानिःसरणावचनं तु तेनैव तस्यानिःसरणाद्, आस्रवान-
त्यन्तनिःसरणाच्च १ । ध्यानेषु चोक्तं भगवता—"यत्तत्र भवति रूपगतं वा
यावद्विज्ञानगतं वा" इति। आरूप्येषु तूक्तम्—"यत्तत्र भवति वेदनागतं वा
यावद्विज्ञानगतं वा" ( ) इति। सत्यां तेषु रूपजातौ कस्माद्रूपगतं
वेति नावक्ष्यत् । तस्मात्
नारूप्ये रूपसद्भावः,
कथमिदानीमनल्पकल्पोच्छिन्नाद् रूपात् पुनरपि रूपोत्पत्तिस्ततः
प्रच्युतानाम् ?
रूपोत्पत्तिस्तु चित्ततः ॥ ३ ॥
रूपस्य चित्तादेवोत्पत्तिस्तद्विपाकहेतुपरिभाविताल्लब्धवृत्तितः। कथ-
मनाश्रित्य रूपं चित्तं वर्तते ? कस्मान्न वर्तितव्यम् ? इहैवमदर्शनात् ।
कवडीकारान्तरेणाऽपि विना रूपधातौ न वर्तितव्यम् । किं कारणम् ?
इहैवमदर्शनात्। उक्तं २ यथा वर्तते ॥ ३ ॥
गतमेतत् ॥
इदं वक्तव्यम्—किमेषामाकाशानन्त्यायतनादीनामाकाशादय एवा-
लम्बनं यत एवं समाख्यायते ? न हि। कथं तर्हि ? त्रयस्तावत्

आह यदि रूपाणां निःसरणारूप्याः, यत्तह्यं क्तं सूत्रे—"नाहं
भवेन भवस्य निःसरणं वदामि" इति, तत् कथं रूपभवस्यारूप्यभवेन
निःसरणम् ? भवेन भवस्यानिःसरणवचनं तु तेनैव तस्यानिःसरणात् ।
तेनैव भवेन तस्यैव भवस्यानिःसरणादेवमुक्तम् । आस्रवानत्यन्त-
निःसरणाच्च । आस्रवनिःसरणम् । न हि रूपभवेन कामभवस्य
निःसरणमिति । आरूप्यभवस्यापि तेन निःसरणं भवति । न चात्यन्त-
निःसरणं कामभवात् तेन भवति; पुनरागमनात् । तथा आरूप्यभवेन
रूपभवस्य निःसरणम्, न कामभवस्य । न चात्यन्तनिःसरणं रूपभवाना-
मारूप्यभवेन ।
उक्तं यथा वर्तत इति । "निकायं जीवितं चात्र निश्रिता चित्त
सन्ततिः" (अभि० को० ३.३) इत्यादि ॥ ३ ॥
त्रय इति पुल्लिङ्गनिर्देशः । 'आरूप्याः' इत्यभिसम्बन्धनात् ।

१. अस्रवानि०—का० । २. उक्तं च पूर्वं—का० ।

११३८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
आकाशानानन्त्यविज्ञानानन्त्याकिञ्चन्यसंज्ञकाः ।
तथाप्रयोगात्,
अनन्तमाकाशम्, अनन्तं विज्ञानम्, नास्ति किञ्चिदित्येव मनसिकुर्वा-
णास्तेषु प्रयुज्यन्ते यथासंख्यम् । अत एषामेताः संज्ञा इति ।
मान्द्यात्तु नसंज्ञानाप्यसंज्ञकः ॥ ४ ॥
मृदुत्वात्तु संज्ञाया नैवसंज्ञानासंज्ञायतनमुक्तम् । न हि सा पट्वी संज्ञा,
न च पुनर्नैव संज्ञेति ।
“यद्यपि तत्राप्येवं प्रयुज्यन्ते संज्ञारोगः संज्ञागण्डः संज्ञाशल्यः
असंज्ञकः१ सम्मोहम् एतच्छान्तमेतत् प्रणीतं यदुत नैवसंज्ञानासंज्ञायतनम्”
इति । कस्मात्तु तैस्तदेवं गृह्यत इत्यवश्यमिदं वक्तव्यं जायते । मृदुत्वात्
संज्ञानामित्येतदेवोक्तम् ॥ ४ ॥
“तथाप्रयोगात्” इति । प्रयोगकाले आकाशादीन्यालम्बनानि
भवन्ति । अन्यदा तु अन्येऽपि धर्मा यथासम्भवमालम्बनानीति दर्शयति ।
“मान्द्यात्तु नसंज्ञा-नाप्यसंज्ञकः” इति । चतुर्थ आरूप्य

निर्देशः अष्टमं कोशस्थानम् ११३६
इति मौलं समापत्तिद्रव्यमष्टविधम्,
इत्येतान्यष्टौ मौलानि समापत्तिद्रव्याणि यदुत चत्वारि ध्यानानि,
चत्वार आरूप्या इति ।
तेषा पुनः
त्रिधा ।
सप्त,
भवाग्रान्यानि सप्त त्रिविधानि ।
आस्वादनवच्छुद्धानास्रवाणि,
शुद्धकान्यास्रवाणि च ।
अष्टमं द्विधा ॥ ५ ॥
अनास्रवं नास्ति ।। ५ ।।
तत्र पुनः
आस्वादनासम्प्रयुक्तं सतृष्णम्,
तृष्णा ह्यास्वादना ।
लौकिकं शुभम् ।
शुद्धकम्,
लौकिकं कुशलं समापत्तिद्रव्यं शुद्धकमुच्यतेऽलोभादि शुद्धधर्मयोगात् ।
किं पुनस्तेनास्वादनासम्प्रयुक्तेनास्वाद्यते ?
तत् तदास्वाद्यम्,
तच्छुद्धकं समापत्तिद्रव्यं तेनास्वाद्यते समनन्तरातीतम् । यदास्वादयति
तस्माद् व्युत्थितो येनास्वादयति तत्समापन्नः ।
समापत्तिद्रव्याणि मौलानीति । शाखास्तेषां नोपन्यस्यन्त इत्य-
भिप्रायः ।
कथं सप्त त्रिविधानीति ? आह—"आस्वादनवत् शुद्धानास्रवाणि"
इति ।
अनास्रवं नास्तीति । संज्ञामान्द्यात् ॥ ५ ॥

११४० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
लोकोत्तरमनास्रवम् ॥ ६ ॥
यल्लोकोत्तरं समापत्तिद्रव्यं तदनास्रवम् । एषां च समापत्तिद्रव्याणां
ध्यानान्येव भवन्ति, नारूप्याः ॥ ६ ॥
तत्र
पञ्चाद्ये,
प्रथमे भागे पञ्चाङ्गानि ।
तर्कचारौ च प्रीतिसौख्यसमाधयः ।
वितर्कः, विचारः, प्रीतिः, सुखम्, चित्तैकाग्रता च-इत्येतानि
पञ्चाङ्गानि । समाधिः किलाङ्गं ध्यानं च । शेषाण्यङ्गानीति । यथा तु
चतुरङ्गसेना१, एवं पञ्चाङ्गध्यानम्२ ।
प्रीत्यादयः प्रसादश्च द्वितीयेऽङ्गचतुष्टयम् ॥ ७ ॥
द्वितीये ध्याने चत्वार्यङ्गानि—अध्यात्मसम्प्रसादः, प्रीतिः, सुखम्,
चित्तैकाग्रता च ॥ ७ ॥
तृतीये पञ्च तूपेक्षा स्मृतिः प्रज्ञा सुखं स्थितिः ।
तृतीये तु ध्याने पञ्चाङ्गानि—उपेक्षा, स्मृतिः, सम्प्रज्ञानम्, सुखम्,
यदास्वादयति तस्माद् व्युत्थित इति । शुद्धकात् । येनास्वादयति
तत्समापन्न इति । आस्वादनासम्प्रयुक्तम् ॥ ६ ॥
यथा तु३ चतुरङ्गसेना । नाङ्गेभ्योऽर्थान्तरभूता । एवं पञ्चाङ्गध्यानं
नार्थान्तरमिति स्वमतं दर्शयति । प्रीत्यादय इति । पूर्वोक्ताः प्रीति-सुख-
चित्तैकाग्रताः ।
अध्यात्मसम्प्रसादश्चेति । चतुरङ्गं द्वितीयम् ॥ ७ ॥
“तृतीये पञ्च तूपेक्षा” इति । संस्कारोपेक्षात्र गृह्यते । या प्रीतिर-
नाभोगलक्षणा । स्मृतिः उपेक्षानिमित्तस्यासम्प्रमोषः । स्मृत्यसम्प्रमोषे
१. चतुरङ्गा सेना—का० । २. पञ्चाङ्ग ध्यानम्—कां० ।
३. यथान्त—जा० ।

निर्देशः ] अष्टमं कोशस्थानम् ११४१
समाधिश्च । समाधिपर्यायो हि स्थितिः । "सम्यक्समाधिः कतमः ? या
चित्तस्य स्थितिः" इति सूत्रे वचनात् ।
चत्वार्यन्तेऽसुखादुःखोपेक्षास्मृतिसमाधयः ॥ ८ ॥
चतुर्थं ध्यानमन्त्यम् । तत्र चत्वार्यङ्गानि—अदुःखासुखा वेदना,
उपेक्षापरिशुद्धिः, स्मृतिपरिशुद्धिः, समाधिश्च ।
तान्येतान्यष्टादश ध्यानाङ्गानि भवन्ति ; प्रथमतृतीययोः पञ्चाङ्ग-
त्वात्, द्वितीयचतुर्थयोश्चतुरङ्गत्वात् ॥ ८ ॥
नामत एवम् ,
द्रव्यतो दश चैकं च,
द्रव्यत एतान्येकादश भवन्ति । प्रथमध्यानिकानि१ पञ्च ।
द्वितीयेऽध्यात्मसम्प्रसादो वर्धते । तृतीये उपेक्षास्मृतिसम्प्रज्ञानसुखानि ।
चतुर्थेऽदुःखासुखा वेदनेति । अत एवोच्यते—यान्यङ्गानि प्रथमे ध्याने
द्वितीयेऽपि तानीति । चतुष्कोटिकम् । प्रथमा कोटिर्वितर्कविचारौ । द्वितीया
अध्यात्मसम्प्रसादः । तृतीया प्रीतिः सुखं चित्तैकाग्रता च । चतुर्थी
धर्मा इति । एवं सर्वाणि ध्यानाङ्गानि परस्परं
योज्यानि ।
सम्प्रज्ञानता सम्प्रज्ञानम् । चतुर्थे उपेक्षापरिशुद्धिः । उपेक्षायाः परिशुद्धिः
उपेक्षापरिशुद्धिः; । अष्टावपक्षाला अपक्षीयन्ते ।
एवं स्मृतिपरिशुद्धिः ॥ ८ ॥
प्रथमध्यानिकानीति । प्रथमध्याने भवन्ति । अत एवोच्यत इति ।
यस्माद् द्वितीयादिषु अध्यात्मसम्प्रसादादयो वर्धन्ते । कथम् ? चतुष्कोटिकम् ।
स्यात् प्रथमे ध्याने न द्वितीये । स्याद् द्वितीये न प्रथमे । स्यादुभयोः । स्या-
न्नोभयोः । एवं सर्वाणि ध्यानाङ्गानि परस्पर योज्यानि । कथम् ? यान्यङ्गानि
प्रथमे ध्याने, तृतीयेऽपि तानि । चतुष्कोटिकम् । प्रथमा कोटिः—
वितर्कविचारप्रीतिसुखानि । द्वितीया—उपेक्षास्मृतिसम्प्रज्ञानसुखानि ।
तृतीया समाधिः । चतुर्थी कोटिः—उक्तनिर्मुक्ता धर्माः । यान्यङ्गानि
प्रथमे ध्याने, चतुर्थेऽपि तानि । चतुष्कोटिकम् । प्रथमा कोटिः—वितर्क-
विचारप्रीतिसुखानि । द्वितीया—अदुःखासुखा वेदना । तृतीया—समाधिः ।
१. प्रथम०—का० ।

११४२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
कस्मात् तृतीये ध्याने सुखं द्रव्यान्तरमुच्यते ? यस्मात्तद् वेदनासुखम्।
ध्यानयोस्तु
प्रस्रब्धिसुखमाद्ययोः ।
प्रथमद्वितीययोस्तु ध्यानयोः प्रस्रब्धिसुखमित्युक्तम् ।
इह प्रस्रब्धिसुखं तत्र वेदनासुखमिति कुत एतत् ? द्वयोर्ध्यानसमा-
पत्त्योः सुखेन्द्रियायोगात् ! न हि तयोः कायिकं युज्यते; समापन्नस्य
विज्ञानकायाभावात् । नापि चैतसिकम्; प्रीतिवचनात् । प्रीतिर्हि सौम-
नस्यम् । न सुखसौमनस्ययौगपद्यमस्ति । न चापि तयोः पर्यायेण ध्याने
वृत्तिर्युक्ता; पञ्चाङ्गवचनादिति ।
चतुर्थी—उक्तनिर्मुक्ता धर्माः । यान्यङ्गानि द्वितीये ध्याने, तृतीयेऽपि
तानि। चतुष्कोटिकम् । प्रथमा कोटिः—अध्यात्मसम्प्रसाद-प्रीति-सुखानि।
द्वितीया—उपेक्षा-स्मृति-सम्प्रज्ञानसुखानि । तृतीया—समाधिः। चतुर्थी
उक्तनिर्मुक्ता धर्माः । यान्यङ्गानि द्वितीये ध्याने, चतुर्थेऽपि वा तानि ।
चतुष्कोटिकम् । प्रथमा कोटिः—अध्यात्मसम्प्रसादप्रीतिसुखानि । द्वितीया—
तदङ्गानि, समाधि हित्वा । तृतीया—समाधिः। चतुर्थो—उक्तनिर्मुक्ता
धर्माः । यान्यङ्गानि तृतीये ध्याने, चतुर्थेऽपि तानि । चतुष्कोटिकम् । प्रथमा
कोटिः-समाधिवर्ज्यानि तदङ्गानि । द्वितीयापि—एवम् । तृतीया-
समाधिः। चतुर्थी—उक्तनिर्मुक्ता धर्माः । एतच्च तदेकावचरं नाम ।
कस्मात् तृतीये ध्याने सुखं द्रव्यान्तरमुच्यते इति । कथमुच्यते—
तान्येतानि अष्टादशध्यानाङ्गानि भवन्तीति विस्तरेणोक्त्वा पुनराह—नामत
एवम् । "द्रव्यतो दश चैकं च" (अभि० को० ८.९) द्रव्यत एतान्येकादश
भवन्ति । प्रथमध्यानिकानि पञ्च, द्वितीयेऽध्यात्मसम्प्रसादो वर्धते, तृतीये
उपेक्षास्मृतिसम्प्रज्ञानसुखानीति वचनात् ।
सुखेन्द्रियायोगादिति !। सुखेन्द्रियासम्भवात् । नास्त्येव चैतसिकं
सुखेन्द्रियं त्रिष्वपि हि ध्यानेषु, किं तर्हि ? कायिकमेव सुखमङ्गगणव्यवस्था-
पितम्; समाहितावस्थान्तरालसमुदाचारात् । दार्ष्टान्तिकानां किलैष पक्षः ।
तेषां हि न द्विभूमिकमेव सुखेन्द्रियं [मुद्रणदोषः/अस्पष्ट:] किं तर्हि ?
चतुर्भूमिकमपि सुखेन्द्रियं भवति । कामावचरम्, यावत्, तृतीयध्यान-
भूमिकमिति । अत एव च विभाषायां भदन्तेन सौत्रान्तिकेनोक्तम्—
'आभिधर्मिकाणाम् अरघट्टेनेव चक्षुर्विज्ञानादिकमधस्तादूर्ध्वं कृष्यते'

निर्देशः ] अष्टमं कोशस्थानम् ११४३
अपरे पुनराहुः—नास्त्येव चैतसिकं सुखेन्द्रियं त्रिष्वपि हि ध्यानेषु ।
किं१ तर्हि ? कायिकमेव सुखमङ्गं२ व्यवस्थापितमिति ।
यत्तर्हि सूत्र उक्तम्—"सुखेन्द्रियं कतमम् ? यत् सुखवेदनीयेन स्पर्शेन
स्पृष्टस्योत्पद्यते कायिकं चैतसिकं सातं विदितं वेदनागतम्—इदमुच्यते सुखे-
न्द्रियम्" इति ? केनापि अध्यारोपित एष पाठः । सर्वनिकायान्तरेषु
कायिकमित्येव पाठात् । "सुखं च कायेन प्रतिसंवेदयते" इति स्वशब्देन
वचनाच्च ।
मनःकायेनेति३ चेत्, एवमुक्त्वा को गुणः ? चतुर्थे ध्याने प्रश्रब्धि-
भूयस्त्वेऽपि सुखावचनाच्च । सुखवेदनानुकूला प्रश्रब्धिः सुखमिति चेत्,
तृतीये प्रश्रब्धिसुखावचनं कस्मात् ! उपेक्षोपहतत्वादिति चेत् ? न;
इति । तदेवमस्येष्टं भवति—चक्षुर्विज्ञानादिकद्वितीयादिध्यानभूमिकमपि
भवतीति ।
अध्यारोपित एष पाठ इति । योऽयं चैतसिक इति पाठः । सुखं च
कायेन प्रतिसंवेदयेत इति स्व-शब्देन वचनाच्चेति । तृतीयध्याननिर्देश
एवमुक्तम्—'स प्रीतेर्विरागाद् उपेक्षको विहरति स्मृतिमान् सम्प्रजानमानः,
सुखं च कायेन प्रतिसंवेदयते । यत्तदार्या आचक्षते—उपेक्षकः स्मृतिमान्
सुखविहारी तृतीयं ध्यानमुपसम्पद्य विहरति' इति । यदि हि तच्चैतसिकं
स्यात्, कथं तत् कायेन प्रतिसंवेदयते । मनःकायेनेति । मनः-
समुदायेनैवमुक्त्वा । को गुण इति । सुखं च मनसा प्रतिसंवेदयति, सुखं च
कायेन प्रतिसंवेदयते—इत्येवं वा वक्तव्यं स्यादित्यभिप्रायः । चतुर्थे ध्याने
प्रश्रब्धिभूयस्त्वेऽपि सुखावचनाच्चेति । चतुर्थे ध्याने प्रश्रब्धिसुखं भूयो
भवति, बहुतरं भवति । ध्यानान्तरेभ्यश्च चतुर्थस्य प्रश्रब्धतरत्वात् ।
तद्भूयस्त्वेऽपि सुखस्यावचनम् । चतुर्थे ध्याने सुखं नोच्यते; तस्य सुखस्या-
वचनात् । वेदनासुखमेव तत् तृतीये ध्याने गम्यते, न चतुर्थे सुखा वेदनास्तीति
तत्र नोच्यत इत्यभिप्रायः । सुखवेदनानुकूला प्रश्रब्धिः सुखमिति चेत् ।
स्यान्मतम्—प्रथमद्वितीययोर्ध्यानयोः सुखवेदनानुकूला प्रश्रब्धिः, तद्द्वयोः
सुखमित्युक्त्वा, चतुर्थे ध्याने प्रश्रब्धिः सुखवेदनानुकूला न भवतीति नोक्ता ।
यद्येवं तृतीये प्रश्रब्धिसुखावचनं कस्मात् । तृतीयध्यानप्रश्रब्धिरपि सुख-
वेदनानुकूला भवति । तत्र प्रश्रब्धिसुखं कस्मान्नोक्तम् । वेदनासुखमेव
१-१ क० पुस्तके नास्ति । २. ०मङ्ग-का० । ३. मनस्का० का० ।
अभि० को० ४ : ८

उपेक्षयैव तद्वृद्धेः१। पूर्विकाभ्यां तद्विशेषात् । "यस्मिन् समये आर्यश्रावकः
प्रविवेकजां प्रीतिं कायेन साक्षात्कृत्योपसम्पद्य विहरति" ( )
इत्यत्र सूत्रे प्रश्रब्धिसुखयोः पृथग्वचनान्न प्रश्रब्धिरेव सुखम् ।
समापन्नस्य कथं कायविज्ञानमिति चेत् ? समाधिविशेषजेन प्रश्रब्धि-
नाम्ना२ सुखवेदनीयेन वायुना कायस्फुरणात् । बहिर्विक्षेपात् समाधिभ्रंश
इति चेत् ? न; समाधिजस्यान्तःकायसम्भूतस्य कायसुखस्य समाध्यनु-
कूलत्वात् । कायविज्ञानकाले व्युत्थितः स्यादिति चेत् ? न; अतएव ।
हि तत्र भवाङ्गद्रव्यवस्थापितम् । न प्रश्रब्धिसुखम्; द्विसुखापाठात् ।
उपेक्षोपहतत्वादिति चेत् । स्यान्मतम् तृतीये ध्याने उपेक्षा संयन्तालक्षणा
भवति, तयोपहता प्रश्रब्धिरिति नोच्यते इति ? न; उपेक्षयैव तद्वृद्धेः ।
नैतदेवम्, उपेक्षयैव तु तत्र तृतीये ध्याने प्रश्रब्धिसुखवृद्धेः । न ह्यपघातहेतुनैव
वृद्धियुज्यत इति । कथमुपेक्षयैव तद्वृद्धिः ? अतो ब्रवीति--पूर्विकाभ्यां
तद्विशेषादिति । पूर्विकाभ्यामिति प्रथमद्वितीयध्यानप्रश्रब्धिभ्याम् ।
तृतीयध्यानप्रश्रब्धिविशिष्टा; पूर्विकाभ्यां३ ध्यानाभ्यां तृतीयस्य विशिष्टत्वात् ।
यस्मिन् समये इति विस्तरः । यस्मिन् समये आर्यश्रावकः प्रविवेकजां प्रीतिं
कायेन साक्षात्कृत्योपसम्पद्य विहरति, पञ्चास्य धर्मास्तस्मिन् समये
प्रहीयन्ते । पञ्च धर्मा भावनापरिपूरिं गच्छन्ति--अध्यात्मसम्प्रसादः,
प्रीतिः, प्रश्रब्धिः, सुखम्, समाधिश्चेति । प्रश्रब्धिसुखयोरनन्यत्वे कथमेशां
पञ्चत्वं स्यात् ! अर्थान्तरत्वे च सति कायिकमेव सुखं त्रिष्वपि ध्यानेषु
इति सिद्धं भवति ।
समापन्नस्य कथं कायविज्ञानमिति ? अत्रोच्यते--समाधिविशेषजेन
प्रश्रब्धिनाम्ना सुखवेदनीयेन सुखवेदनानु Retain : सुखवेदनानुकूलेन वायुना कायस्फुरणात्,
कायध्यातनात् । किम् ? कायविज्ञानं भवत्येवेति । बहिर्विक्षेपात्
समाधिभ्रंश इति चेत् । यदि मन्येत--कायविज्ञानोत्पत्त्या बहिर्विक्षेपात्
बाह्यविषयविक्षेपात् समाधिभ्रंश इति ? नः समाधिजस्येति । नैतदेवं
भविष्यति । कस्मात् ? समाधिजस्यान्तःकायसम्भूतस्य अर्वाग्जर्भूतस्येत्यर्थः ।
कायसुखस्य कायविज्ञानसम्प्रयुक्तस्य उदितसुखस्य समाध्यनुकूलत्वान्नास्मात्
समाधिभ्रंश इत्यर्थः । न; अतएवेति । न कायविज्ञानकाले व्युत्थितः
स्यात् । अत एव । कारणात् । समाध्यनुकूलत्वादित्यर्थः । तत्सम्मुखी-
१. तद्वृद्धिः-का० । २. संज्ञकेन-ना० ।
३. पूर्विकाभ्यां-जा० ।

निर्देशः ] अष्टमं कोशस्थानम् ११४५
कामावचरेण कायविज्ञानेन$^१$ रूपावचरस्प्रष्टव्यविज्ञानानुत्पत्तिरिति चेत् ?
न; प्रस्रब्धिविज्ञानस्योत्पत्तेः ।
अनास्रवे अपि स्प्रष्टव्यकायविज्ञाने स्याताम् । मा भूत् किञ्चिदङ्गं
सास्रवं किञ्चिदनास्रवमिति चेत् ? कायिकप्रस्रब्धिसम्बोध्यङ्गवचनात्$^२$ ।
इष्टे बोध्यङ्गानुकूलत्वादिति चेत् ? अनास्रवत्वमप्येवम् ।
“सास्रवा धर्मा कतमे ? चक्षर्यावदेव स्प्रष्टव्यम्” इत्यस्य सूत्रस्य
विरोधादिति चेत् ? न; अन्यस्प्रष्टव्यकायविज्ञानाभिसन्धिवचनात् । न
भावान्तरं हि पुनरुपतिष्ठते समाधिः—इत्यभिप्रायः । कामावचरेण
कायविज्ञानेन कामावचरस्य स्प्रष्टव्यस्याग्रहणात् रूपावचरमेतत् कायविज्ञानम्,
न कामावचरम् । अत एव तत्सम्प्रयोगि सुखं ध्यानाङ्गं ने सिद्धयति ।
प्रस्रब्धिविज्ञानस्योत्पत्तेरिति । रूपावचरस्य कामावचरेण कायविज्ञानेन
कायेन्द्रियेण समाधिवलाधानात् । तद्धि कायेन्द्रियं समाहितस्य तामवस्थां
गतम दृष्टधंभूमिकस्य कायविज्ञानस्याश्रयो भवतीति ।
अनास्रवे अपीति । स्प्रष्टव्यं च प्रस्रब्धिलक्षणं तदालम्बनं च
कायविज्ञानं स्प्रष्टव्यकायविज्ञाने अनास्रवे अपि स्याताम् । किं कारणम् ?
इत्याह- मा भूत् किञ्चिदङ्गं सास्रवं किञ्चिदनास्रवमिति चेत् । यद्येवं
मन्येत । कायिकप्रस्रब्धिसम्बोध्यङ्गवचनादिष्टेः । 'यापि कायप्रस्रब्धिः तदपि
प्रस्रब्धिसम्बोध्यङ्गप्रभिज्ञायै सम्बोधये निर्वाणाय संवर्तते । यापि
चित्तप्रस्रब्धिः, यावदेव स्प्रष्टव्यानि सम्बोध्यङ्गमभिज्ञायै सम्बोधये निर्वाणाय
संवर्तन्ते”—इति वचनात् । बोध्यङ्गवचनादिष्टे स्प्रष्टव्यकायविज्ञाने अनास्रवे
इति । बोध्यङ्गानुकूलत्वादिति चेत् । अथैवं परिह्रियेत - यस्मात् कायिकी
प्रस्रब्धिर्बोध्यङ्गानुकूला, तस्माद् बोध्यङ्गमित्युपचर्यते, न तु बोध्यङ्गमिति ।
अनास्रवत्वमप्येवम् । अनास्रवत्वानुकूलत्वात् ते स्प्रष्टव्य-कायविज्ञाने
अनास्रवे इत्युपचर्येते । न त्वनास्रवे एवेति । एवमनयोरनास्रवत्वम् ।
सास्रवा धर्मा इति विस्तरः । “सास्रवा धर्माः कतमे ? यावदेव
चक्षुः, यावन्त्येव रूपाणि, य वदेव चक्षुर्विज्ञानम्, यावत् यावानेव कायः,
यावन्त्येव स्प्रष्टव्यानि, यावदेव कायविज्ञानम्” ( ) इति । अस्य
सूत्रस्य विरोध इति एवं चेन् मन्येत । तन्न; अन्यस्प्रष्टव्यकायविज्ञानाभि-
१. कायेन्द्रियेण-का० ।
२. ०बोध्यङ्ग०-का० ।

११४६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
चानास्रवे किञ्चिदङ्गं सास्रवं किञ्चिदनास्रवं स्यादिति चेत् ? अयोगपद्यात्
को दोषः ? सुखप्रीत्यसमवधानान्न पञ्चाङ्गं स्यादिति चेत्, न; सम्भवं
प्रत्युपदेशाद् वितर्कविचारवत् । साध्यमिति चेत् ? सिद्धम्, वितर्कविचारयो-
विरोधात्, १ दोषावचनाच्च ।
तस्माद्यान्येव प्रथमध्याने पञ्चाङ्गानि, तेषां द्वित्रिचतुरङ्गापकर्षेण
द्वितीयादिध्यानव्यवस्थानम् । अत एव च प्रथमे ध्याने पञ्चानामङ्गत्वमुक्तम्;
तदपकर्षेणोत्तरध्यानव्यवस्थापनात् । न तु संज्ञादीनामङ्गत्वमुक्तम् ।
सन्धिवचनात् । तत् प्रश्रब्धिव्यतिरिक्तानां कायविज्ञानव्यतिरिक्तानां च
कायविज्ञानामभिसन्धिवचनात् । न चानास्रव इति विस्तरः । नन्वनास्रवे-
ऽनास्रवव्यवस्थाने किञ्चिदङ्गं सास्रवं किञ्चिदनास्रवं स्यादिति । यद्येष
दोष इति मन्येत, तत्स्प्रष्टव्यकायविज्ञानस्य सास्रवत्वात्, तदितरस्याना-
स्रवत्वात् । अत्रोच्यते—अयोगपद्यात् को दोष इति । यदा सास्रवमङ्गं
समुदाचरति, न तदानास्रवं समुदाचरति; यदानास्रवमङ्गम्, न तदा सास्रव-
मित्यदोषः । सुखप्रीत्यसमवधानात् । सुखस्य कायिकस्य प्रीतेश्च मानस्याः
असमवधानात् अयोगपद्यात् । न पञ्चाङ्गं प्रथमं ध्यानं चेत् । यद्येवं
मन्येत, न स दोषः । कस्मात् ? सम्भवं प्रत्युपदेशात् वितर्कविचारवत् ।
यथा सवितर्कं सविचारं प्रथमं ध्यानमिति पर्यायेण वितर्कविचारौ भवतः,
एवं सुखप्रीती अपि सम्भवं प्रति उपदेशात् अदोष एष इति । साध्यमिति
चेत् । वितर्कविचारौ पर्यायेण भवत इति साध्यमिति । आह—सिद्धम् ।
कथम् ? इत्याह—वितर्कविचारयोर्विरोधादिति । यद्यौदारिकता चित्तस्य,
सूक्ष्मता नास्ति; यदि सूक्ष्मता, औदारिकता नास्तीति विरोधात् वितर्क-
विचारयोरयोगपद्यम् । दोषावचनाच्चेति । आपेक्षिकी च औदारिकसूक्ष्मता,
भूमिप्रकारभेदादिति आभवाग्राद् वितर्कविचारौ स्यातामित्यादि । केषाञ्चित्
पाठो भवति—दोषवचनाच्चेति । असमवधानेन च न कश्चिद् दोष उच्यत
इत्यर्थः ।
द्वि-त्रि-चतुरङ्गापकर्षेणेति । द्व्यङ्गापकर्षेण द्वितीयध्यानव्यव-
स्थानम् । तत्र वितर्कविचारयोरभावात् । त्र्यङ्गापकर्षेण तृतीयध्यान-
व्यवस्थानम् । तत्र प्रीतिरपि नास्तीति । चतुरङ्गापकर्षेण चतुर्थध्यान-
व्यवस्थानम् । तत्र सुखमपि नास्तीति । न तु संज्ञादीनामङ्गत्वमुक्तमिति ।
न हि संज्ञादीनां ध्यानान्तरेष्वपकर्षोऽस्तीति ।
१. चित्तस्यौदारिकसूक्ष्मतयो०-का० ।

"?
Look at "ध्या": ध्या followed by 'ने'?
Wait, is there an e-matra on 'न'?
No, there is an anusvara on 'न': "ध्यानं"! Or "ध्याने"?
Wait, look above 'न': there is a dot: "ध्यानं"!
Then "उपेक्षास्मृतिसम्प्रजन्यं च" -> wait, is it "सम्प्रजन्यं" or "सम्प्रजन्यं"?
"स्मृतिसम्प्रजन्यं" or "स्मृतिसम्प्रजन्यं" - wait, in Buddhist texts, "स्मृतिसम्प्रजन्यम्" or "स्मृतिसंप्रजन्यम्" (smṛtisamprajanya).
Wait, look at "प्रतिपक्षाङ्गः;":
Is it "प्रतिपक्षाङ्गः;" or "प्रतिपक्षाङ्गम्;"?
Look at line 24:
"प्रतिपक्षाङ्ग" followed by visarga! "प्रतिपक्षाङ्गः;"!
Wait, why visarga? Because plural: प्रतिपक्षाङ्गाः?
Wait, there's no aa-matra: looks like "प्रतिपक्षाङ्गः;".
Then "तैः प्रीतिप्रतिपक्षणात् ।" - तैः is plural instrumental, referring to उपेक्षा, स्मृति, सम्प्रजन्य!

Line 25:
सुखं चित्तैकाग्रता च शेषे अङ्गे यथाक्रमं पूर्ववत् । चतुर्थे ध्याने उपेक्षा-
"सुखं चित्तैकाग्रता च शेषे अ

११४८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ समापत्ति-
तस्मात् तर्हि
श्रद्धाप्रसादः
तस्य हि द्वितीयध्यानलाभात् समाहितभूमिनिःसरणे सम्प्रत्यय
उत्पद्यते। सोऽध्यात्मसम्प्रसाद इति। नैव हि वितर्कविचारसमाधयो
नाप्यध्यात्मसम्प्रसादो द्रव्यान्तराणीत्यपरे।
कथमसति द्रव्यान्तरत्वे चैतसिकत्वं सिध्यति ? अवस्थाविशेषोऽपि १
हि नाम चेतसश्चैतसिको भवति। न त्वेष शास्त्रसिद्धान्तः। यदुक्तम्-
“प्रीतिर्हि सौमनस्यम्” इति।
कथमिदं गम्यते ? किमन्यत् भवतु ? यथेच्छन्ति निकायान्तरोयाः—
धर्मान्तरमेव चैतसिकं प्रीतिः, सौमनस्यं तु त्रिष्वपि ध्यानेषु सुखमिति ? न वै
सुखं ध्यानेषु सौमनस्यं युज्यते।
प्रीतिस्तु सौमनस्यं द्विधागमात् ॥ ९ ॥
उक्तं हि भगवता अविपरीतके सूत्रे तृतीयं ध्यानमुक्त्वा “यत्रास्योत्पन्नं
सौमनस्येन्द्रियमपरिशेषं निरुध्यते” इति। “चतुर्थे च ध्यान सुखेन्द्रियं
निरुध्यते” इत्युक्तम्। पुनश्चोक्तम्- “सुखस्य च प्रहाणात् दुःखस्य च
प्रहाणात् पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तङ्गमात्” इति। अतोऽस्ति न तृतीये
“श्रद्धाप्रसादः” इति। श्रद्धैव प्रसादः श्रद्धाप्रसादः।
कथमसति द्रव्यान्तरत्वे चैतसिकत्वमिति। वितर्कादीनामवस्था-
विशेषोऽपि हि नाम चेतसश्चैतसिको भवति। चेतसि भवात्। पर्येषक-
मनोजल्पावस्था = वितर्कः। प्रत्यवेक्षकमनोजल्पावस्था = विचारः, त्रासमू-
त्थापिकावस्था चित्तस्य वितर्कः, तदन्यावस्था विचार इति भवद्भिर्ज्ञेयः।
अविक्षिप्तावस्था समाधिः। प्रशान्तवाहितावस्था चित्तस्याध्यात्मसम्प्रसादः।
न वै सुखं ध्यानेषु सौमनस्यं युज्यते इति। तुल्यसुखवेदनास्वभाव्ये
मानसत्वेऽपि सति। कस्मात् सौमनस्यं सुखमिति नोच्यते ? अस्ति
कारणम्। इयं हि प्रीतिरनुपशान्ता, तथा हि तत् समाहितमपि चित्तं
क्षिप्यत इव उन्नम्यत इव सामोदं सहासं विप्लुतमिव व्यवस्थाप्यते। तद्
१. ०विशेषो-का० ।

निर्देशः ] अष्टमं कोशस्थानम् ११४६
ध्याने सौमनस्येन्द्रियमस्ति । तस्मात् प्रीतिरेव सौमनस्यं न सुखम् ॥ ९ ॥
किं पुनः क्लिष्टेष्वपि ध्यानेषु यथाविहितान्यङ्गानि भवन्ति ? न
हि । किं तेषु न विद्यते ?
क्लिष्टेष्वसत्प्रीतिसुखं प्रसादः सम्प्रधीः स्मृतिः ।
उपेक्षास्मृतिशुद्धिश्च,
प्रथमे ध्याने विवेकजं प्रीतिसुखं नास्ति; क्लेशाविविक्तत्वात् । द्वितीये
ध्यानेऽध्यात्मसम्प्रसादो नास्ति, क्लेशाविलत्वात् । तृतीये स्मृतिसम्प्रजन्यं
नास्ति; क्लिष्टसुखसम्भ्रमितत्वात् । चतुर्थे उपेक्षास्मृतिपरिशुद्धिर्नास्ति;
क्लेशमलिनत्वात् । एवं तावत् केचिदाहुः ।
केचित् प्रश्रब्ध्युपेक्षणे ॥ १० ॥
केचित् पुनः—प्रथमद्वितीययोः क्लिष्टयोः प्रश्रब्धिर्नास्ति । तृतीय-
चतुर्थयोरुपेक्षा नास्ति; कुशलमहाभूमिकत्वादनयोरिति । त्रीणि च ध्यानानि
यदुपशान्तं भवति, तदा भूम्यन्तरप्राप्ता तज्जातीयैव वेदना सुख-
मित्युच्यते ॥ ९ ॥
क्लेशाविविक्तत्वादिति । तद्भूमिकैः क्लेशैरविविक्तत्वादित्यर्थः ।
क्लेशाविलत्वादिति । क्लेशैरप्रसन्नत्वादित्यर्थः । क्लिष्टसुखसम्भ्रमितत्वा-
दिति । क्लिष्टेन सुखेन सम्भ्रमितत्वात् स्मृतिः सम्प्रजन्यं च भवतः ।
क्लेशमलिनत्वादिति । तद्भूमिकैः क्लेशैर्मलिनत्वात् । उपेक्षायाः स्मृतेश्च
परिशुद्धिर्नास्ति ।
कुशलमहाभूमिकत्वादनयोरिति । प्रश्रब्ध्युपेक्षे कुशलमहाभूमिके
पठिते ।
श्रद्धाऽप्रमादः प्रश्रब्धिरुपेक्षा ह्रीरपत्रपा ।
मूलद्वयमहिंसा च वीर्यं च कुशले सदा ॥ ( अभि० २.२५ )
इति वचनात् ।
किं पुनरेते पूर्वस्मिन् पक्षे क्लिष्टेष्वपि ध्यानेषु भवतः ? न च
भवत इत्याह । कस्मादेतन्नोक्तम् ? अनुक्तसिद्धत्वात् ।

११५० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ समापत्ति-
सेञ्जितानि उक्तानि भगवता; सापक्षालत्वात् ॥ १० ॥
अष्टापक्षालमुक्तत्वादानिञ्जं तु चतुर्थकम् ।
के पुनस्तेऽपक्षालाः ?
वितर्कचारौ श्वासौ च सुखादि च चतुष्टयम् ॥ ११ ॥
वितर्कविचारौ सुखदुःखे सौमनस्यदौर्मनस्ये श्वासप्रश्वासाश्च—एषा-
मष्टानामेकोऽप्यपक्षालश्चतुर्थे नास्ति, अतस्तदानेञ्ज्यमुक्तम् ।
वितर्कविचारप्रीतिसुखैरकम्पनीयत्वादानेञ्ज्यं चतुर्थं ध्यानम्; सूत्रे
निवातप्रदीपनिदर्शनादित्यपरे¹ ॥ ११ ॥
द्वयोर्ध्यानयोः सौमनस्यमुक्तम्; प्रीतिवचनात् । तृतीये सुखम्, चतुर्थे
उपेक्षा । तत् किं या ध्यानसमापत्तिषु वेदनास्ता एव ध्यानोपपत्तिषु ? नेत्याह ।
किं तर्हि ?
सौमनस्यसुखोपेक्षा उपेक्षासुमनस्कते ।
सुखोपेक्षे उपेक्षा प्रविदो ध्यानोपपत्तिषु ॥ १२ ॥
प्रथमध्यानोत्पत्तौ तिस्रो वेदनाः—सुखं त्रिविज्ञानकायिकम्, सौमनस्यं
मनोभूमिकम्, उपेक्षा चतुर्विज्ञानकायिकी । द्वितीयध्यानोपपत्तौ द्वे वेदने—
सौमनस्योपेक्षे मनोभूमिके । सुखं नास्ति; अस्य विज्ञानकायाभावात् ।
तृतीयध्यानोपपत्तौ द्वे वेदने—सुखोपेक्षे मनोभूमिके । चतुर्थध्यानोपपत्तावु-
पेक्षैव ॥ १२ ॥
कुशलमहाभूमिकयोः प्रश्रब्ध्युपेक्षयोरपरिग्रहाद् भवत एव ते
इत्यपरे ॥ १० ॥
“श्वासौ” इति । आश्वासप्रश्वासौ । द्वित्वप्रदर्शनार्थ चात्र द्विवचन-
निर्देशः । वितर्कविचारप्रीतिसुखैरकम्पनीयत्वादिति । यथा पूर्वकानि त्रीणि
ध्यानानि वितर्कादिभिः कम्प्यन्ते²; प्रथमं ध्यानं वितर्कविचाराभ्यां कम्प्यते,
द्वितीयं प्रीत्या, तृतीयं सुखेन; नैवमेभिश्चतुर्थं कम्प्यते ।
यथा निवाते दीपो न कम्प्यते वायुना तद्वदित्युक्तं सूत्रे इत्यपर
आहुः । अष्टापक्षालमुक्तत्वात् ॥ ११ ॥
१. निर्वात—का० । २. कम्प्यते—जा० ।

निर्देशः ] अष्टमं कोशस्थानम् ११५१
यदि द्वितीयादिषु ध्यानेषु त्रयो विज्ञानकाया न संविद्यन्ते वितर्क-
विचारौ च, कथं ते पश्यन्ति ? यावत् स्पृशन्ति । कथं चाविज्ञप्ति
समुत्थापयन्ति ? न वै तेषूपपन्नानां चक्षुर्विज्ञानादयो न सन्ति । न तु
स्वभूमिकाः । किं तर्हि ?
कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् ।
द्वितीयादौ तदाद्याप्तम्,
प्रथमध्यानभूमिकं चक्षुःश्रोत्रकायविज्ञानं विज्ञप्तिसमुत्थापकं च
द्वितीयादिषु च ध्यानेषु सम्मुखीकुर्वन्ति । निर्माणचित्तवद् येन ते पश्यन्ति
यावद्विज्ञप्ति समुत्थापयन्ति ।
अक्लिष्टाव्याकृतं च तत् ॥ १३ ॥
अनिवृताव्याकृतं च तत् प्रथमध्यानभूमिकं विज्ञानं वेदितव्यं यत्ते
सम्मुखीकुर्वन्ति । न क्लिष्टं वीतरागत्वात्, न कुशलं हीनत्वादिति ॥ १३ ॥
[

११५२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
वैराग्याद्वा । अधोभूम्युपपत्तितो वा; अन्यत्र भवाग्रात् । न हि तस्योपपत्तितो
लाभः ।
अतद्वानिति किमर्थं समन्वागतः ? शुद्धकेन प्रयोगतो१ निर्वेधभागीयम्
शुद्धकं प्रतिलभते । परिहाणितोऽपि२ हानभागीयम् ।
अत एवोच्यते—"स्याच्छुद्धकं ध्यानं वैराग्येण प्रतिलभेत, वैराग्येण
विजह्यात् । एवं परिहाण्या चोपपत्त्या च ।
आह३–स्याद्धानभागीयं प्रथमं ध्यानम् । तद्धि कामवैराग्येण लभ्यते ।
ब्रह्मलोकवैराग्येण त्यज्यते । ब्रह्मलोकवैराग्यपरिहाण्या लभते४ । काम-
धातुवैराग्यप्रहाण्या५ त्यज्यते । उपरिष्टाद् ब्रह्मलोक उपपद्यमानो६ लभते ।
ध्यानम्, आरूप्यं वा । कामवैराग्यात् प्रथमं शुद्धकं प्रतिलभते त्रिप्रकारम्,
अन्यत्र निर्वेधभागीयात् । एवं यावत् आकिञ्चन्यायतनवैराग्याद् भवाग्रं
प्रतिलभते । अधोभूम्युपपत्तितो वेति । उपरिष्टात् अधरायां भूमौ
उपपद्यमानस्तल्लभते । अन्यत्र भवाग्रादिति । तस्याधोभूमिवैराग्यादेव लाभः ।
प्रयोगतो निर्वेधभागीयमिति । तस्य वैराग्योपपत्तिकृतः स लाभो
न भवति । परिहाणितोऽपि हानभागीयमिति । स्थितिभागीयात् परिहीय-
माणो हानभागीयं लभते ।
अत एवोच्यत इति । यस्मात् परिहीणोऽपि हानभागीयं लभते ।
एवं परिहाण्या चोपपत्त्यापि योज्यम् । कथम् ? स्याच्छुद्धकं परिहाण्या
लभेत, परिहाण्या विजह्यात् । स्याच्छुद्धकं ध्यानमुपपत्त्या लभेत, उपपत्त्या
विजह्यादिति । आह–स्यात् । कथम् ? इत्याह–हानभागीयं प्रथमं ध्यान-
मिति । ब्रह्मलोकः प्रथमं ध्यानं त्रिभूमिकम्; 'विशेषेण ब्रह्मलोके उपपद्य-
मानत्वाद्' इति वचनात् । ब्रह्मलोकवैराग्येण त्यज्यत इति । यस्मात्
प्रथमध्यानवैराग्येण हानभागीयं ध्यानं क्लेशानुगुण्यात् तद्भूमिकक्लेशमिव
त्यजति, अतो ब्रह्मलोकवैराग्येण त्यज्यते—इत्युच्यते । एवं प्रथमस्य प्रश्नस्य
विसर्जनम् ।
ब्रह्मलोकवैराग्यपरिहाण्या लभते । यदि ब्रह्मलोकवैराग्यपरिहाण्या
परिहीयते, पुनस्तद्धानभागीयं प्रतिलभते; तद्भूमिकक्लेशवत् । कामधातु-
१ प्रयोगतोऽपि—का० । २. परिहाणितो वा—का० ।
३. का० पुस्तके नास्ति । ४. लभ्यते—का० ।
५. कामवैराग्य०—का० । ६. उत्पद्य०—का० ।

निर्देशः ] अष्टमं कोशस्थानम् ११५३
यस्मात्¹ कामधातावुपपद्यमानो विजहाति" इति ।
अनास्रवं तु वैराग्यात्,
'अतद्वान् लभते' इति वर्तते । तद्वांस्तु क्षयज्ञानतोऽप्यशैक्षं लभते ।
इन्द्रियसञ्चारतोऽपि शैक्षाशैक्षम् । ननु च नियमावक्रान्तितोऽप्यनास्रवं
प्रथयतो लभते ? नावश्यम्; आनुपूर्विकेणालाभात् । यथा त्ववश्यं लभते
तथोक्तम् ।
क्लिष्टं हान्युपपत्तितः ॥ १४ ॥
'अतद्वान् लभते' इत्येवानुवर्तते । परिहाणितो यदि तद्वैराग्यात् परि-
हीयते । उपपत्तितो यद्युपरिभूमेरधरायामुपपद्यते ॥ १४ ॥
कतमस्मात् समापत्तिद्रव्यादनन्तर कत्युपपद्यन्ते ? अनास्रवप्रथम-
ध्यानान्तर षडुत्पद्यन्ते— स्वभूमिके शुद्ध नास्रवे² द्वितीयतृतीयध्यानभूमिके च ।
आकिञ्चन्यायतनानन्तरं सप्त स्वभूमिके शुद्धकानास्रवे, विज्ञानाकाशानन्त्या-
यतनभूमिके च । भवाग्रं शुद्धकमेव, अनास्रवाभावात् । द्वितीयध्यानान्तर-
वैराग्यपरिहाण्या त्यज्यते । यदा कामधातुवैराग्यात् परिहीयते, तदा शुद्धकं
त्यज्यते । उपरिष्टाद् ब्रह्मलोक उपपद्यमानो लभत इति । द्वितीयादिभ्यो
ब्रह्मलोक उपपद्यमानं हानभागीय॑ तद्भूमिकक्लेशवदेव लभते । तस्मात्
मधातावुपपद्यमानो विजहातीति । तस्माद् ब्रह्मलोकात् कामधातावुप-
.द्यमानो विजहाति ।
इन्द्रियसञ्चारतोऽपि शैक्षाशैक्षमिति । श्रद्धाविमुक्तो दृष्टिप्राप्तायां
शैक्षं लभते । समयविमुक्तोऽप्यकोप्याप्रतिवेधे अशैक्षं लभते ।
नावश्यम्, आनुपूर्विकेणालाभादिति ३ । यद्यानुपूर्विकोजनागम्यसन्नि-
श्रयेण नियममवक्रामति, न लभते ॥ १४ ॥
स्वभूमिके शुद्धानास्रवे इति । व्युत्थानकाले प्रवाहतश्च । द्वितीय-
तृतीयध्यानभूमिके चेति । मिश्रकामिश्रतानुलोमसमापत्तौ व्युत्क्रान्तका-
समापत्तौ च । सप्तस्वभूमिके शुद्धकानास्रवे इति । पूर्ववत् विज्ञानाकाश-
नन्त्यायतनभूमिके च । तथैव प्रतिलोमसमापत्तौ । भवाग्रं शुद्धकमेव,
अनास्रवाभावादिति । मान्द्यादनास्रवं नास्तीत्युक्तम् । अनुलोमसमापत्तौ तु
१. तस्मात् पुन. - का० । २. शुद्धका० - का० ।
३. ०केनालाभा० -- जा० ।

११५४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
मष्टौ—स्वभूमिके शुद्धकानास्रवे तृतीयचतुर्थप्रथमध्यानभूमिके च । विज्ञाना-
नन्त्यायतनान्तरं नव—स्वभूमिके द्वे, आकाशानन्त्यायतनचतुर्थध्यानभूमि-
कानि चत्वारि, आकिञ्चन्यायतनभवाग्रभूमिकानि त्रीणीति ।
एवमन्यध्यानानारूप्यादनन्तरं १ दश द्रव्याणि योज्यानि ।
एष तु संक्षेपः—
तृतीयाद् यावदूर्ध्वाधोऽनास्रवानन्तरं शुभम् ।
उत्पद्यते,
शुभग्रहणेन शुद्धमनास्रवं च गृह्यते कुशलत्वात् । अनास्रवस्य समापत्ति-
द्रव्यस्यानन्तरं स्वभूमिके च शुद्धानास्रवे उत्पद्येते । ऊर्ध्वाधोभूमिके च
तृतीयाद् यावत् । व्युत्क्रान्तकसमापत्तारो हि तृतीयात् परेण लङ्घयितुं
नोत्सहन्ते । अन्वयज्ञानान्तरं चारूप्यान् समापद्यन्ते, न धर्मज्ञानानन्तरम्;
तस्याधराश्रयालम्बनत्वादिति ।
व्युत्थानकाले तद् भवति । तृतीयचतुर्थप्रथमध्यानभूमिके चेति । अमिश्रक-
मिश्रकानुलोमप्रतिलोमव्युत्क्रान्तसमापत्तिकालुषु ।
आकाशानन्त्यायनचतुर्थध्यानभूमिकानि चत्वारीति । तेष्वेव कालेषु ।
त्रीणीति । अनास्रवाभावात् । एवमन्यध्यानानारूप्यादनन्तरं दश द्रव्याणि
योज्यानीति । तद्यथा तृतीयध्यानादनन्तरं दश—स्वभूमिके द्वे शुद्धकानास्रवे,
चतुर्थध्यानाकाशानन्त्यायतनभूमिकानि चत्वारि, तथैव च प्रथमद्वितीयध्यान-
भूमिकानि चत्वारीति । चतुर्थध्यानादनन्तरं दश—स्वभूमिके द्वे शुद्धकानास्रवे,
आकाशविज्ञानानन्त्यायतनभूमिकानि चत्वारि, द्वितीयतृतीयध्यानभूमिकानि
चत्वारीति । आकाशानन्त्यायतनादनन्तरं दश—स्वभूमिके द्वे, विज्ञानाकिञ्च-
न्यायतनभूमिकानि चत्वारि, तृतीयचतुर्थध्यानभूमिकानि चत्वार्युत्पद्यन्ते—
इत्येवं दश भवन्ति ।
अन्वयज्ञानानन्तरं चेति विस्तरः । इदं व्युत्पाद्यते, ऊर्ध्वाधरभूम्या-
लम्बनत्वाद्व्यानानामस्ति प्रसङ्ग इति कृत्वा । तस्याधराश्रयालम्बनत्वादिति ।
यस्मात् तद्धर्मज्ञानम् अधराश्रयकामधात्वाश्रयमधरालम्बनं कामदुःखाद्या-
१. ०रूप्यानन्तरं—का० ।

निर्देशः ] अष्टमं कोशस्थानम् ११५५
यथा चानास्रवादनन्तरमुक्तं वेदितव्यम्,
तथा शुद्धात् क्लिष्टं चापि स्वभूमिकम् ॥ १५ ॥
स्वभूमिकं क्लिष्टमधिकं शुद्धकादनन्तरमुत्पद्यते । शेषं यथैवानास्रवात् ।
अनास्रवस्य हि समनन्तरं क्लिष्टोत्पत्तिर्नास्तीति ॥ १५ ॥
क्लिष्टात् स्वं शुद्धं क्लिष्टम्,
क्लिष्टात् समापत्तिद्रव्यादनन्तरं स्वभूमिके शुद्धकक्लिष्टे उत्पद्येते ।
' एवं चाधरशुद्धकम् ।
क्लेशोत्पीडितो ह्यधरमपि समापत्ति शुद्धकं बहु मन्यते । यदि
क्लिष्टं परिच्छिद्याधः सञ्चरति । कुशलात् सञ्चरितो भवति न क्लिष्टात् ।
अथापरिच्छिद्य कथं सञ्चरति ? पूर्वविघात् । पूर्वं हि स एवंकामो भवति—
वरमधस्तात् शुद्धकं नोपरिष्टात् क्लिष्टमिति । पूर्वाभिप्रायं च सन्ततिरनु-
वर्तते सत्त्वानाम्, प्रणिधाय सुप्तस्याभिप्रेतकालप्रबोधवत् । अनास्रवं तु
क्लिष्टादनन्तरं सर्वथा नोत्पद्यते । समापत्तिकालं प्रत्येतदुक्तम् । शुद्धात्
क्लिष्टाच्च समनन्तरं स्वभूमिकमेव क्लिष्टमुत्पद्यते, नान्यभूमिकमिति ।
व्युत्तौ तु शुद्धात् क्लिष्टं सर्वम्,
लम्बनम् । तस्याधराश्रयत्वालम्बनत्वान्न धर्मज्ञानानन्तरमारूप्यान् समा-
पद्यन्ते ।
शेषं यथैवानास्रवादिति । स्वभूमिके च शुद्धानास्रवे उत्पद्येते;
ऊर्ध्वाधोभूमिके च, यावत् तृतीयादिति ॥ १५ ॥
प्रणिधायेति विस्तरः । यदि कश्चिदेवं बुद्धिमुत्पाद्य 'अर्धरात्रे चन्द्रोदये
चन्द्रास्तमये वा मया प्रबोद्धव्यम्' इति स्वपेद् स पूर्वाभिप्रायानुवर्तनात्
सन्ततेः, तस्मिन्नेव काले प्रबुद्ध्यते । यथाऽस्यैवं प्रणिधाय सुप्तस्य
तस्याभिप्रेते काले प्रबोधो भवति । तद्वदेतत् । सर्वथा नोत्पद्यत
इति । नापि स्वभूमिकम्, नाप्यधरभूमिकमुत्पद्यते-इत्यर्थः । समापत्तिकालं
प्रत्येतदित्युक्तमिति । शुद्धात् क्लिष्टाच्च समनन्तरं स्वभूमिकमेव
क्लिष्टमुत्पद्यते, नान्यभूमिकमिति । कथम् ? तथा शुद्धात् क्लिष्टं वापि
स्वभूमिकम्, क्लिष्टात् स्वं शुद्धं क्लिष्टमित्येवम् ।
१. शेषान्—जा० ।

११५६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
च्युतिकाले तु उपपत्तिलाभिकाच्छुद्धकादनन्तरं सर्वभूमिकं क्लिष्ट-
मुत्पद्यते।
क्लिष्टात्तु नोत्तरम् ॥ १६ ॥
क्लिष्टात्तु ध्यानादारूप्यादनन्तरं च्युतिकाले स्वाधरभूमिकं क्लिष्ट-
मुत्पद्यते। नोर्ध्वभूमिकम् ॥ १६ ॥
न च सर्वस्माच्छुद्धकादनास्रवं
चतुर्धा शुद्धकं हानभागीयादि,
हानभागीयम्, विशेषभागीयम्, स्थितिभागीयम्, निर्वेधभागीयमिति
चतुर्विधं शुद्धकम्। भवाग्रं तु त्रिविधम्; अन्यत्र विशेषभागीयात्।
किमस्य लक्षणम् ?
यथाक्रमम्।
क्लेशोत्पत्तिस्वभूम्यूर्ध्वानास्रवानुगुणं हि तत् ॥ १७ ॥
क्लेशोत्पत्त्यनुगुणं ; स्वभूम्यनुगुणं स्थितिभागीयम्, ऊर्ध्व-
भूम्यनुगुणं विशेषभागीयम्, अनास्रवानुगुणं निर्वेधभागीयम्। तस्मादनास्रव-
मुत्पद्यते ॥ १७ ॥
च्युतिकाले तु। मरणभवे। उपपत्तिलाभिकाच्छुद्धकादिति विस्तरः।
उपपत्तिध्यानेषु यदुपपत्तिलाभिकं कुशलं समाहितम्, तदपि शुद्धकं
ध्यानमित्युच्यते। अत इदमुच्यते—च्युतिकाले त्विति विस्तरेण। किं
कारणम् ? असमाहितत्वान्मरणभवस्य। न हि तदानीं शुद्धकं समापत्ति-
ध्यानमस्तीति।
अथ सर्वभूमिकं क्लिष्टमुत्पद्यत इति। स्वभूमिकाधरोर्ध्वभूमिकं
प्रतिसन्धिश्चित्तं क्लिष्टमसमाहितमुत्पद्यते—इत्यर्थः।
नोर्ध्वभूमिकमिति। क्लिष्टसद्भावे सति तत्रोपपत्त्यसम्भवात् ॥ १६ ॥
अन्यत्र विशेषभागीयादिति। इत ऊर्ध्वभूम्यभावात्।
तस्मादनास्रवमुत्पद्यत इति। निर्वेधभागीयात् ॥ १७ ॥