अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1172, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] अष्टमं कोशस्थानम् ११४६
ध्याने सौमनस्येन्द्रियमस्ति । तस्मात् प्रीतिरेव सौमनस्यं न सुखम् ॥ ९ ॥
किं पुनः क्लिष्टेष्वपि ध्यानेषु यथाविहितान्यङ्गानि भवन्ति ? न
हि । किं तेषु न विद्यते ?
क्लिष्टेष्वसत्प्रीतिसुखं प्रसादः सम्प्रधीः स्मृतिः ।
उपेक्षास्मृतिशुद्धिश्च,
प्रथमे ध्याने विवेकजं प्रीतिसुखं नास्ति; क्लेशाविविक्तत्वात् । द्वितीये
ध्यानेऽध्यात्मसम्प्रसादो नास्ति, क्लेशाविलत्वात् । तृतीये स्मृतिसम्प्रजन्यं
नास्ति; क्लिष्टसुखसम्भ्रमितत्वात् । चतुर्थे उपेक्षास्मृतिपरिशुद्धिर्नास्ति;
क्लेशमलिनत्वात् । एवं तावत् केचिदाहुः ।
केचित् प्रश्रब्ध्युपेक्षणे ॥ १० ॥
केचित् पुनः—प्रथमद्वितीययोः क्लिष्टयोः प्रश्रब्धिर्नास्ति । तृतीय-
चतुर्थयोरुपेक्षा नास्ति; कुशलमहाभूमिकत्वादनयोरिति । त्रीणि च ध्यानानि
यदुपशान्तं भवति, तदा भूम्यन्तरप्राप्ता तज्जातीयैव वेदना सुख-
मित्युच्यते ॥ ९ ॥
क्लेशाविविक्तत्वादिति । तद्भूमिकैः क्लेशैरविविक्तत्वादित्यर्थः ।
क्लेशाविलत्वादिति । क्लेशैरप्रसन्नत्वादित्यर्थः । क्लिष्टसुखसम्भ्रमितत्वा-
दिति । क्लिष्टेन सुखेन सम्भ्रमितत्वात् स्मृतिः सम्प्रजन्यं च भवतः ।
क्लेशमलिनत्वादिति । तद्भूमिकैः क्लेशैर्मलिनत्वात् । उपेक्षायाः स्मृतेश्च
परिशुद्धिर्नास्ति ।
कुशलमहाभूमिकत्वादनयोरिति । प्रश्रब्ध्युपेक्षे कुशलमहाभूमिके
पठिते ।
श्रद्धाऽप्रमादः प्रश्रब्धिरुपेक्षा ह्रीरपत्रपा ।
मूलद्वयमहिंसा च वीर्यं च कुशले सदा ॥ ( अभि० २.२५ )
इति वचनात् ।
किं पुनरेते पूर्वस्मिन् पक्षे क्लिष्टेष्वपि ध्यानेषु भवतः ? न च
भवत इत्याह । कस्मादेतन्नोक्तम् ? अनुक्तसिद्धत्वात् ।