अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1174, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] अष्टमं कोशस्थानम् ११५१
यदि द्वितीयादिषु ध्यानेषु त्रयो विज्ञानकाया न संविद्यन्ते वितर्क-
विचारौ च, कथं ते पश्यन्ति ? यावत् स्पृशन्ति । कथं चाविज्ञप्ति
समुत्थापयन्ति ? न वै तेषूपपन्नानां चक्षुर्विज्ञानादयो न सन्ति । न तु
स्वभूमिकाः । किं तर्हि ?
कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् ।
द्वितीयादौ तदाद्याप्तम्,
प्रथमध्यानभूमिकं चक्षुःश्रोत्रकायविज्ञानं विज्ञप्तिसमुत्थापकं च
द्वितीयादिषु च ध्यानेषु सम्मुखीकुर्वन्ति । निर्माणचित्तवद् येन ते पश्यन्ति
यावद्विज्ञप्ति समुत्थापयन्ति ।
अक्लिष्टाव्याकृतं च तत् ॥ १३ ॥
अनिवृताव्याकृतं च तत् प्रथमध्यानभूमिकं विज्ञानं वेदितव्यं यत्ते
सम्मुखीकुर्वन्ति । न क्लिष्टं वीतरागत्वात्, न कुशलं हीनत्वादिति ॥ १३ ॥
[